________________ परीक्षापदानि प्राभातिकान् प्रादोषिकानिव / अथवा सूर्येऽस्तमितमात्रे एव निर्व्याघाते सर्वैरपि साधुभिराचार्येण सह प्रतिक्रमितव्यं यदि पुनराचार्यस्य श्राद्धादिधर्मकथादिभिर्व्याघातस्ततो बालवृद्धग्लानासहान् निषद्याधरं च मुक्त्वा शेषैः सूत्रार्थस्मरणार्थं कायोत्सर्गेण स्थातव्यम् / ये पुनः सत्यपि बले पूर्व कायोत्सर्गे न तिष्ठन्ति तोन् पूर्वमतिष्ठतो नोदयन्त्याचार्याः / यः पुनः परीक्ष्यते तं प्रमाद्यन्तमपि न शिक्षयन्ति, ततो यदि स एवं व्यवस्थति-यथाऽऽत्मीयान् प्रमाद्यतो नोदयन्ति, न मामिति सुखमिह वस्तुमिति / स इत्थम्भूतः पञ्जर. भग्नो ज्ञातव्यो न प्रतीच्छनीयः / यः पुनरप्रतिनोद्यमानः सन्नेवं चिन्तयति-येषु स्थानेष्वहं प्रमाद्यामि तेष्वेव स्थानेष्वात्मीयान् शिष्यान् प्रमाद्यतो नोदयन्त्याऽऽचार्या न माम् / अहो ! अहमनाथः परित्यक्त एतैरिति चिन्तयित्वा संविग्नविहारमिच्छन् स्वयमेव ततः प्रमादस्थानान्निवर्त्तते / अथवा छिन्नमुक्तावलीप्रकाशान्यश्रूणि विमुञ्चन् आचार्याणां पादयोः पतित्वा शिक्षा मार्गयति-यथा मामप्यत्यादरेण भगवन्तः शिक्षयन्तां मा मां शरणमुपागतं परित्यजत, युष्मच्छरणमागतोऽप्यहं युष्माभिः शिक्षाया अप्रसादतस्त्यक्तः / न चैतद् भगवतां परमकरुणापरीतचेतसामुचितं तस्मात् प्रसादमाधाय मामपि सीदन्तं शिक्षयध्वमित्येष इत्थम्भूतः प्रतिग्राह्यः / एषाऽऽवश्यकमधिकृत्य परीक्षा / एवं स्वाध्यायेऽपि हीनमधिकं विपरीतं च करोति / स्वाध्याये च हीनता नाम यद्यप्राप्तायामपि कालवेलायां कालप्रतिक्रमणं करोति / अधिकता च यद्यतिक्रान्तायामपि कालवेलायां कालं न प्रतिक्रामति / वन्दना दिक्रियां वा तदनुगतां हीनाधिकां करोति / विपरीतता तु पौरुषीपोठ्यमतिक्रान्तायां पौरुष्यां पठति / उत्कालिकं पौरुष्या. मिति / प्रतिलेखनेऽप्येवमेव कालतो हीनामधिकां वा प्रतिलेखनां करोति / खोटकादिभिर्वा हीनाधिकां विपरीतां वा करोति / विपरितता नाम प्रभाते यन्मुखपोतिकादिक्रमेण न प्रत्युपेक्षते किन्तु स्वेच्छया, यदि वा पूर्वाहणे रजोहरणं निष्पश्चिमं प्रत्युपेक्षते अपराहणे तु सर्वप्रथममित्यादि / तथा भोजने आलोकादिविधिना सूत्रोक्तेन न भुङक्ते, दोषैर्वा काकशगालखादितादिभिः , असुरसुरं अचवचवं .अद्दअमविलम्बिअभित्यादिविपरीतरूपैर्वा भुङ्क्ते / भाषायां या गृहस्थभाषा ढड्ढरभाषा स्थूरस्वरभाषा च तां भाषते / वीचारे-स्थण्डिले सामाचारी पादप्रमार्जनडगलकग्रहणदिगालोकनादिरूपां विलुम्पति / तथा ग्लानं न प्रतिजागर्ति, नाऽपि ग्लानस्य खेलमल्लकादिकं समर्पयति / भिक्षाग्रहणे च अभणितः सन् भिक्षां न हिण्डते, भणितोऽपि वा अर्द्ध हिण्डिते प्रतिनिवर्तते, अनेषणीयां वा भिक्षां गृह्णाति, कोण्टलेन वोत्पादयति / एतेषु च स्थानेषु स्वशिष्यान्नोदयन्ति न तु तं परीक्ष्यमाणमित्यादि प्राग्वत् / स चोपसम्पद्यमानः संविग्नेभ्यः पार्श्वस्थादिभ्यो वा समागतो भवेत् / तत्र यः संविग्नेभ्यः समागतः स ज्ञानदर्शनार्थं पञ्जरभग्नो वा समागतः / यः पुनः पार्श्वस्थादिभ्यः समायातः स चारित्रार्थ मुद्यन्तुकामोऽनुद्यन्तुकामो वा ज्ञानदर्शनार्थमायातः / अथवा संविग्नेभ्यो यः समागतः स पञ्जरभग्नः / यः पुनः पार्श्वस्थादिभ्यः समायातः स पञ्जराभिमुखः। एतयोर्द्वयोरपि समागतयोरावश्यकादिभिः पदैराचार्येण परीक्षा कर्त्तव्या / एवं शिष्येणाऽप्यावश्यकादिभिः पदैराचार्यस्य परीक्षा कर्तव्या / सा चैवम्-आवश्यकादिषु पदेषु मध्ये कापि यदि गच्छवासिनः कानपि सीदतः पश्यति, तत आचार्येभ्यः कथयति, तेन कथिते सति यद्याचार्याः सम्यक् प्रतिपद्य तोन् प्रमोदिनः प्रतिनोदयन्ति प्रायश्चित्तं च प्रयच्छन्ति / ततस्तत्रोपसम्पत्तव्यम् / अथ कथितेऽप्याचोर्यास्तूष्णीं तिष्ठन्ति, भणन्ति वा किं तव ? यद्यते न सम्यगवर्तन्ते, तर्हि अन्यत्र गच्छान्तरे उपसम्पत्तव्यं न तत्र / पञ्जरस्य चेदं स्वरूपं