________________ 54 यति-जीतकल्पे न त्वस्मादृशेभ्यो ददाति, अन्येभ्यो वा बालवृद्धदुर्बलप्राघूर्णकेभ्यो ददाति / तत एवमसहमानोऽहं निर्गतः। यो निर्द्धर्मा स एवं भाषते-यदि कथमपि निर्गच्छन् प्रविशन् वा आवश्यकी नैषेधिकी च न करोति, दण्डादिकं वा गृह्णन निक्षिपन् वा न प्रमार्जयति, तत आचार्या निरनुकम्पाः सन्त उग्रं प्रायश्चित्तं दण्डं प्रयच्छन्ति / ततोऽहं दण्डभयाद्विनिर्गतः / यः पुनरलसः स एवं ब्रते-बालवृद्धादीनामर्थाय तस्मिन् गच्छे दीर्घा भिक्षाचर्या / क्षुल्लकं कर्कशं वा तत्क्षेत्रं ततः प्रतिदिवसमन्यत्र ग्रामान्तरे गत्वा भिक्षाऽऽनीयते / तथा यदि कथमप्यपर्याप्ते समागम्यते ततो गुरुः खरण्टयति-किं वसतौ महानसमस्ति ? येनाऽपर्याप्तः समागतः। तस्माद् भूयोऽपि व्रज भिक्षार्थं यतः कालोऽद्यापि बहुः प्राप्यः क्षेत्रं भाजनं चास्तीति ततोऽहं निर्गतः। अनुबद्धवैरो भणति-कलहमपि कृत्वा तत्र संयता एकत्र भुञ्जते / यथा चण्डालाः शुनका वा परस्परं भण्डित्वा तत्क्षणादेवैकत्र भुञ्जते नवरं मिथ्यादुष्कृतं परस्परं दाप्यन्ते इति विशेषः / अहं पुनर्न शक्नोमि हृदयस्थेन शल्येन तैः सहैकत्र समुद्देष्टुमिति विनिर्गतः। स्वच्छन्दमतिः पुनरेवं भाषतेतत्र गच्छे एकाकिनः सतः स्तोकमपि चलितुं न लभ्यं सञ्जाभूमावप्येकाकिनः सतो गन्तुं न प्रयच्छन्ति, किन्त्वेवं ब्रूवते-नियमोत् सङ्घाटकरूपतया केनापि सहितेन गन्तव्यं ततस्तमसहमानोऽहमत्रागतः / एतान्यधिकरणादीनि पदान्याचार्यः श्रुत्वा तं परित्यजति / एतैश्चाधिकरणादिपदैरागतस्य तस्योपसम्पद्यमानस्य प्रतीच्छतश्चाचार्यस्येदं प्रायश्चित्तम् समणहिगरणे पडिणीअ लुद्ध अणुबद्धरोसि चउगुरुगा। सेसाण हुंति लहुगा एमेव पडिच्छमाणस्स // व्याख्या-यः श्रमणैः सहाधिकरणं कृत्वा समागतः / यश्च तत्र मे प्रत्यनीकः सोधुरिति कृत्वा समायातः। यश्च लुब्धो यश्चानुबद्धरोषः। एतेषां चतुणों प्रायश्चित्तं चत्वारो गुरुमासाः। शेषाणां षण्णां विकृतिलम्पट-योगभीरु-स्तब्ध-निर्द्धर्मा-ऽलस-स्वच्छन्दमतीनां गृहिभण्डनकारिणश्च चतुर्लघुकाः। यः पुनराचार्यस्तदाचार्याननुज्ञया प्रायश्चित्तदानमन्तरेण च प्रतीच्छति तस्यापि प्रायश्चित्तमेवमेव / तद्यथाश्रमणाधिकरणकारि-प्रत्यनीक-लुब्धा-ऽनुबद्धरोषान् प्रतीच्छतश्चत्वारो गुरुमासाः। शेषान् षट प्रतीच्छतश्चत्वारो लघुमासाः / अथाधिकरणादियथोक्तदोषरहितो यः समागतो भवेत् सोऽपि त्रीणि दिनानि परीक्ष्य सङ्ग्रहीतव्यो, यदि पुनः परीक्षां न कुर्वन्ति ततश्चतुर्लघु / अन्याचार्याभिप्रायेण वा मासलघु / सा च परीक्षा उभयथापि / शिष्य आचार्य परीक्षते, आचार्यः शिष्यम् / सा पुनः परीक्षा यैः पदैः क्रियते तान्याह आवस्सय सज्झाए पडिलेहण मुंजणे अ भासाए / वीआरे गेलने भिक्खग्गहणे परिच्छंति // 79 // व्याख्या-आवश्यके स्वाध्याये प्रतिलेखने भोजने भाषायां वीचारे-बहिभूमौ ग्लाने भिक्षाग्रहणे च परस्परमाचार्यशिष्यो परीक्षेते / तत्रावश्यके शिष्यमित्थं परीक्षन्ते आचार्याः-आवश्यकं हीनं करोति, हीनं नाम यत् कायोत्सर्गसूत्राणि मन्दं मन्दमुच्चार्य शेषसाधुषु चिरकालं कायोत्सर्गस्थितेषु पश्चात् कायोत्सर्ग तिष्ठति इत्यादि / अधिकं वा करोति / अधिकं नाम कायोत्सर्गसूत्राण्यतित्वरितमुच्चार्यानुप्रेक्षाकरणार्थं पूर्वमेव कायोत्सर्गे तिष्ठति / रत्नाधिकेन चोत्सारिते कायोत्सर्गे पश्चाच्चिरेण स्वं कायोत्सर्गमुत्सारयति इत्यादि / विपरीतं वा करोति, विपरीतं नाम प्रादोषिकान् कायोत्सर्गान् प्राभातिकानिव करोति,