________________ समानेऽप्यपराधे दण्डभेदे दृष्टान्तः भत्तणो एगसरीरो वयंसो त्ति तस्स घरं गया / चउत्थी निच्छुभंती वि बारसाहाए लग्गा / हम्ममाणि वि न गच्छइ / भणति अ कओ वच्चामि ? नत्थि मे अन्नो गइविसओ / जइ वि मारेसि तहावि तुमं चेव गई सरणं तत्थेव ठिआ / तओ तुठेण चउत्थी घरसामिणी कया / तइआए घाडिअघरं जंतीए सो चेव अणुवत्तिओ। विगयरोसेण खरंटिआ आणिआ य / बिइआए कुलघरं जंतीए पिउगिहबलं गहिअं गाढतरं रुठेग अन्नेहि भणिए विगयरोसेण खरंटिआ दंडिआ य / पढमा दूरनट्ठ त्ति न ताए किंचि पओअणं महंतेण वा पच्छित्तदंडेण दंडिउं आणिज्जइ / एवं उत्रसंहारो-परघरसंठाणीआ उसन्ना / कुल घरसंठाणीआ अन्नसंभोइआ घाडिअसमा संभोइआ / अनिग्गमे सघरसमो स गच्छो जोव दुरतरं ताव महंततरो दंडो भवइ / एवमादिकोऽधिकरणविषयो वाच्यविस्तरो निशीथादितः स्वयमवसेयो विस्तरप्रियैः / अथाधिकरणादिदोषैर्गणान्निर्गत्य यो भिक्षुरुपसम्पदनार्थं समागतः स्यात् स परिहरणीय इति दर्शयतिअहिगरणविगइजोगे पडिणीए थद्धलुद्धनिद्धम्मे / अलस अणुबद्धरोसे सच्छंदमई पयहिअव्यो / / 77 // व्याख्या-यदि स उपसम्पद्यमानः साधुः साधुभिर्गृहिभिर्वा सहाधिकरणं कृत्वा स्वस्थानानिर्गतः / विगइ 'त्ति विकृतिलाम्पट यात् / 'जोग 'त्ति योगोद्वहनभीरुतया / 'पडिणीए 'त्ति प्रत्यनीकोऽत्र मे साधुरितिबुद्धया / तथा 'थद्धलुद्ध' इत्यादि / स्तब्ध इति वा, लुब्ध इति वा, निर्द्धर्मा इति वा, अलस इति वा, अनुबद्धवैर इति वा, स्वच्छन्दमतिरिति वा विनिर्गतस्ततस्तस्य निर्गमनमशुद्धमिति कृत्वा ‘घयहिअव्वो 'त्ति / परिहर्त्तव्यः / नन्वविकरणादिदोषतो विनिर्गतास्ते कथमवसीयन्ते ? उच्यते - तथाविधतदुक्तिवशात् / तथाहि-विकृतिदोषविनिर्गतः पृष्टोऽपृष्टो वा वक्ति-स आचार्यो विकृति-घृतादिकां ग्रहीतुं न ददाति / तथा योगवाहिभियोंगोत्तीर्णैः कायोत्सर्गकरणतो गृहीतायां विकृतावन्यैश्च भुक्तायामपि या उद्धरिता विकृतिस्तामपि नानुजानाति / किंच भगवन् ! नवेक्षुतुल्यो मम देहो / यथा स इक्षुः पानीयेन विना शुष्यति तथा ममापि देहो विकृति विना सीदति / अन्यच्चाहं स्वभावेन दुर्बलो, न विकतिमन्तरेण बलिको भवामि / तथा सर्वदेव विकृत्या भावितदेहस्ततस्तद् भावितस्य सतो ममेदानीं तस्या अभावे न बलं, न च सूत्रस्यार्थस्य वा ग्रहणमशक्तत्वात् पूर्वगृहीतस्य तु सूत्रार्थस्यावधारणं कुतः ? ' ततोऽशक्त्या सर्वं दूरत एव विस्मृतं ततोऽहं विनिर्गतः / योगभीरुव्रते-तस्याचार्यस्य गच्छे योग एकान्तरोपवासेनोह्यते एकान्तराचाम्लेन वा / तथा योगवाहिनो योगोत्तीर्णस्यापि ते आचार्या विकृति न विसृजन्ति / ततः कर्कशास्तत्र योगा इति विनिर्गतः / प्रत्यनीकत्रस्तोऽभिधत्ते-तत्र गच्छे मम प्रत्यनीकोऽस्ति स कथञ्चित् सामाचारीयोगे विस्मृते स्खलिते दुष्प्रत्युपेक्षणोंदिके मां गृह्णाति, अत्यर्थं खरण्टयति / अथवा चुकस्खलितेषु जातेषु तानि चुक्कस्खलितानि अपराधपदे छिद्राणीव गृह्णाति गृहीत्वा च गुरूणां कथयति / पश्चाद् गुरवो मां खरण्टयन्ति / ततो विनिर्गतः। अथ स्तब्धो ब्रूते-यद्याचार्याश्चक्रमणं कुर्वन्ति, कायिक्यादिभूमि गच्छन्त्यागच्छन्ति वा तदा(था)ऽप्युत्थातव्यास्तेषां नायकत्वात् / तत एवं चक्रमणादावभ्युत्तिष्ठतामस्माकं कटी वातेन गृह्यते, भूयोभूय उत्थाने च पलिमन्थभावात् सूत्ररूपस्याथरूपस्य वा स्वाध्यायग्य हानिः / अथ नाऽभ्युत्थीयन्ते तत ओचार्याः प्रायश्चित्तं ददन्ति स्वरण्टयन्ति च ततोऽहं विनिर्गतः / लुब्धः पुनरेवं ब्रूते-यत्किमपि उत्कृष्टं शिखरिणी-मोदकादि तदाचार्यः स्वयं भुङ्क्ते