________________ 52 यति-जोतकल्पे पञ्चचत्वारिंशदिवसाश्चतुर्धा क्रियन्ते / चतुर्भागे च सपादा एकादश दिवसा भवन्ति / तत्र गच्छ उपाध्यायेन सममेकादश दिनानि भक्तार्थं करोति / एवं स्वाध्यायवन्दनालापानपि प्रत्येकमेकादश दिनानि यथाक्रमं करोति, परतस्तु परिहापयति / पञ्चचत्वारिंशदिवसानन्तरं चोपाध्यायस्य दशकच्छेदः / आचार्यस्तथैवोपाध्यायमपि चतुर्भिश्चतुर्भिर्मासैर्भक्तार्थादीनि परिहापयन् संवत्सरं सारयति / आचार्यस्य द्वौ पक्षौ दिवसीकृतौ त्रिंशदिवसा भवन्ति / ततश्चतुर्धा विभक्तो चतुर्थभागे चार्धष्टमा दिवसा भवन्ति / तत्र गच्छ आचार्येण सहा ष्टमानि दिनानि भक्तार्थं करोति / एवं स्वाध्यायवन्दनालापानपि यथाक्रममर्धाष्टमैर्दिवसः प्रत्येकं हापयति, ततः परं गच्छेन चतुर्भिरपि भक्तार्थादिभिः पदैविवर्जित आचार्यस्तत आचार्यस्य पञ्चदशकच्छेदो भवति / अत्राह-ननु सदृशापराधेऽप्याचार्योपाध्यायभिक्षूणां कथं विषमं प्रायश्चित्तं प्रदीयते ?, उच्यते-कुमारदृष्टान्तोऽत्रावगन्तव्यः / स चाऽयम्-एगस्स रण्णो तिण्णि पुत्ता जिट्ठो मज्झिमो कणिट्ठो / तेहि अ तिहिं वि सामस्थिअं पिअरं मारित्तो रज्जं तिहा विभयामो / न च रण। नायं / तत्थ जिट्ठो जुवराया एस पहाणवत्थुत्ति काउं किमेरिसं अज्झवसति ? त्ति तस्स भोगहरण-बंधणताडणादिआ सव्वे दंडप्पगारा कया / मज्झिमो एस अपहाणोत्ति काउं तस्स भोगहरणं न कयं बंधवहखिसाइआ कया / अव्वत्तो कणिट्ठो एएहिं विआरिउत्ति काउ कण्णचवेटयदंडो खिंसा दंडो अ कओ, न भोगहरणबंधणदंडा कया। अयमर्थोपनयो-यथा सहशेऽप्यपराधे युवराजम्य भोगहरणं बन्धनादिको महान् दण्डः कृतः / मध्यमस्य बन्धवधादिको, न भोगहरण / कनिष्ठम्य कर्णामोटनादिको, न भोगहरणादिकः / तथा लोकोत्तरेऽप्युत्कृष्टमध्यमजघन्येषु पुरुषवस्तुषु बृहत्तमो लघुलघुतरश्च यथाक्रमं दण्डः क्रियते / यतः प्रमाणभूते पुरुषे अक्रियासु वर्तमाने अप्रत्ययादयो दोषा भवन्ति / अथ भिक्षुरुपाध्याय आचार्यों वा यदा स्वगच्छेन भक्तार्थादिभिश्चतुर्भिः पदेवर्जितस्तदा परगणं सङ्कामति / ततस्तस्य परगणाचार्यो वन्दनालापाभ्यां द्वाभ्या पदाभ्यां सम्भुञ्जानः स्वाध्यायादिभिः पदैदिने दिने सारणां तथैव वर्षं यावत्करोति / परगणे चानुपशाम्यतो भिक्षोः प्रतिदिनं दशकच्छेदः / उपाध्यायस्य पञ्चदशकच्छेदः / आचार्यस्य विंशच्छेदः / परगणे अन्यसाम्भोगिकेषु पुनः सङ्क्रान्तस्य भिक्षोरनुपशाम्यतः पञ्चदशकच्छेदः / उपाध्यायस्य विंशच्छेदः / आचार्यस्य पञ्चविंशच्छेदः / अवसन्नेषु च सङ्क्रान्तस्य भिक्षोर्वि शच्छेदः / उपाध्यायस्य पञ्चविंशच्छेदः / आचार्यस्य त्रिंशद्रात्रिंदिवच्छेदः / परगण परगण स्वगण साम्भो० / अन्य० अवसन्न भिक्षोः अत्र शिष्यः प्रेरयति-रागद्वेषिणो ययं यत् स्वगणे स्तोकं छेदप्रायश्चित्तं दत्त, परगणे तु प्रभूतम् / एवं स्वगणे भवतां रागः, परगणे द्वेषः / गुरुराह-इदं छेदनानात्वं कुर्वतो वयं न रागद्वेषिणः / तथा चात्र दृष्टान्तः-' एगस्स गिहिणो चउरो भजाओ / ताओ अ तेण कम्हि एगे अवराहे कए पंतावित्ता नीहरह मम गिहाउत्ति निच्छूढा / तत्थेगा कम्हिंइ परघरमि गया। बिइआ कुलचरं / तईआ उपा० 25 आ०