________________ अनुपशान्तस्य विधिः पुनस्तमगीतार्थं गीतार्थं वा गुरुर्न सारयति. ततो द्वयोरप्याऽऽचार्यस्यानुपशाम्यतश्च प्रायश्चित्तम् / अन्ये ब्रुवते-अगीतार्थस्यानुपशाम्यतोऽपि नास्ति प्रायश्चित्तम् / यस्तु गुरुरगीतार्थं न नोदयति तम्य प्रायश्चित्तम् / गच्छो उ दुन्नि मासे पक्खे पक्खे इमं परिहरेइ। भत्तछं सज्झायं वंदणलावं तउ परेणं // 74 // व्याख्या-एवमनुपशाम्यन्तं गच्छो द्वौ मासौ सारयति / इदं पुनः पक्षे पक्षे गच्छः परिहरति / तद्यथा -अनुपशान्तस्य पक्षे गते गच्छस्तेन सार्द्ध भक्तार्थं न करोति, न गृह्णाति न वा किमपि तस्य ददातीत्यर्थः / द्वितीये पक्षे गते स्वाध्यायं तेन समं न करोति / तृतीये पक्षे गते वन्दनं न करोति / चतुर्थोऽपि पक्षो यदा गतो भवति, ततः परमालापमपि तेन सार्द्ध वर्जयति / आयरिओ चउमासे भुंजइ चउरो उ देइ सज्झायं / चउरो वंदणलावं तेण परं मूलनिच्छुभणा // 75 / / व्याख्या-आचार्यः पुनश्चतुरो मासान् सर्वैरपि प्रकारैस्तेन समं सम्भुङ्क्ते / ततः परं चतुरो मासान् भक्तार्थं वर्जयति, स्वाध्यायं तु ददाति / ततश्चतुरो मासान् स्वाध्याय परिहृत्य वन्दनाऽऽला ददाति / ततः पर वर्षे पूर्ण-सांवत्सरिके प्रतिक्रान्ते उपशान्तस्य मूलम् / अनुपशान्तस्य तु गणान्निष्कासनं कत्तव्यम् / एवं द्वादशमास्यामप्यनुपशाम्यतो द्वयोरादिममासयोर्यावद् गच्छेन विसर्जितस्तावत्तपःप्रायश्चितमेव, शेषेषु दशसु मासेषु पश्चरात्रिंदिवच्छेदो यावत् सांवत्सरिकं पर्व प्राप्तं भवति / पर्युषणारात्रौ प्रतिक्रान्तानामधिकरणे उत्पन्न एष विधिरुक्तः / भाद्रपदशुद्धपञ्चम्यामनुदिते आदित्ये यदाऽधिकरणमुत्पद्यते ततः पर्युषणायामप्यनुपशान्ते संवत्सरो भवति / षष्ठयामुत्पन्ने एकदिवसोनः संवत्सरः / सप्तम्यां दिनद्वयोनः संवत्सर एवमेकैकदिनहान्या तावत् ज्ञेयं यावत् पर्युषणादिवसः / तत्रानुदिते खौ कलहे उत्पन्ने एवमेव नोदना कर्तव्या। प्रथमं स्वाभ्यायप्रस्थापनं कर्तुकामाः सारयन्ति, ततश्चत्यवन्दनार्थं गन्तुकामाः सारयेयुः, तत्राऽप्यनुपशान्ते प्रतिक्रमणवेलायां सारयन्ति / एवं तस्मिन् पर्युषणादिवसे त्रिषु स्थानेषु नोदितस्याऽनुपशान्तस्य त्रीणि मासगुरूणि भवन्ति / ततः किमिलाहमूलं तु पडिकंते पडिक्कमंते वि हुन्ज अहिगरणं / संवच्छरमुस्सग्गे कयंमि मूलं न सेसाइं // 76 // व्याख्या–पर्युषणादिने सर्वेषामधिकरणानां व्यवच्छित्तिः कर्त्तव्येति कृत्वा प्रतिक्रान्ते-समाप्ते आवश्यके यदि नोपशान्तस्ततो मूल भवति / एष पर्युषणादिनोत्पन्नाधिकरणे विधिः / अथ प्रतिक्रमणं कुर्वतामेवाधिकरणं भवेत् / ततः सांवत्सरिके कायोत्सर्गे कृते मूलमेव केवलं, न शेषाणि प्रायश्चित्तानि / एवमाचार्यस्तं रुष्टं संवत्सरं यावत् प्रयत्नेन रक्षति / किमर्थम् ? , उच्यते-यदि नाम उपशाम्येत / अथ संवत्सरेणापि यदि नोपशाम्यति, ततः पर्वतराजीसदृशरोषः स मन्तव्यः / वर्षादूर्ध्वं च मूलाचार्यसमीपान्निगतं तमन्यौ द्वावाचायौँ क्रमेणेकैक वर्षमनेनैव विधिना प्रयत्नेन संरक्षतः / तन्मध्याद् येनोपशमितस्तस्यैवाऽसौ शिष्यः। ततो वषत्रयादूर्ध्वमेष गृहीक्रियते-सङ्घस्तस्य लिङ्गमपहरतीत्यर्थः। द्वितीयपदेन राजप्रबजितस्य लिङ्गं न ह्रियते / एवं भिक्षोर्विधिरुक्तः / उपाध्यायाचार्ययोरप्येष एव विधिः / नवरमुपाध्यायस्यानुपशाम्यतो गच्छे वसतस्त्रीन् पक्षास्तपःप्रायश्चित्तं, परतश्छेदः / आचार्यस्यानुपशाम्यतो द्वौ पक्षी तपः , परतश्छेदः / ततो ये उपाध्यायस्य त्रयः पक्षोस्ते दिवसीकृताः पञ्चचत्वारिंशदिवसा भवन्ति / ततः