________________ यति-जीतकल्पे व्याख्या-प्रहरणं-लकुटादि तस्य मार्गणमितस्ततो गवेषणं तस्मिन् षड्गुरु / तेन च मार्गयता. प्रहरणे दृष्टे-चक्षुर्निपाते कृतमात्रे एव छेदः / गत्वा तस्मिन् प्रहरणे हस्तेन गृहीते सत्यष्टम, मासलघुकाद् गण्यमानं मूलमष्टमं भवति / यस्य रुष्टस्तस्योपरि प्रहरणे उद्गीर्णे-उत्पाटिते सति नवमं भवति / दत्त प्रहारे यदि न मृतस्तदोपि नवममेवानवस्थाप्यमित्यर्थः / प्रहारे दत्त यदि मृतस्तदा चरमं-पाराश्चिकं भवति / अथाधिकरणं कृत्वा कश्चिदनुपशान्त एव गच्छे तिष्ठति. तस्य विधिमाहग छा अणिग्गयस्सा अणुवसमं तस्सिमो विही होइ / सज्झाय-भिक्ख-भत्तट्ठ-वासए चउर हिकिके / / व्याख्या-गच्छादनिर्गतस्यानुपशाम्यतोऽयं विधिर्भवति-सूर्योदयकाले यः स्वाध्यायः क्रियते तदवसरे प्रथममसौ नोद्यते / द्वितीयं भिक्षावतरणवेलायां / तृतीयं भक्तार्थकाले / चतुर्थं प्रादोषिकाऽऽवश्यकवेलायाम् / एवं चतुरो वारानेकैकस्मिन् दिने नोद्यते / तच्चाधिकरणं प्रभाते प्रतिक्रान्तानां स्वाध्याये अप्रस्थापिते एवमादिकारणे उत्पद्येत-दोषदुष्टां प्रतिलेखनां कुर्वन् , अप्रतिलेखरन् , असामाचार्या वा / प्रतिलेखयन्नोदितो यदि सम्यग न प्रतिपद्यते ततोऽधिकरणं भवेत् ! उत्पन्ने चाधिकरणे यदि स्वाध्याये अप्रस्थापिते स्वयमेवोपशान्तस्ततो लष्टम् / अथ नोपशान्तस्ततो यः प्रस्थापनार्थमुपतिष्ठते स वारणीयो यथा-तिष्ठतु तावद्यावत् सर्वेऽपि मिलन्ति / तत आगतेषु सर्वेषु सूरयो बवते-आर्योपशाम्य इमे साधवः स्वाध्यायं न प्रस्थापयन्ति / स पृष्टोत्तरं प्रयच्छति-अवश्यं कालो न शुद्धः , परिजितं वा साधूनां सूत्रश्रुतं ततो न प्रस्थापयन्ति / एवं भणतस्तस्य मासगुरु / साधवश्च सर्वेऽपि प्रस्थापयन्ति स्वाध्यायं च कुर्वन्ति / काले प्रतिक्रान्ते भिक्षावेलायां जातायां पुनराचार्या भणन्ति-आर्य ! साधवस्त्वदीयेनानु. पशमनेन मिक्षा नायतरन्ति उपशमं कुरु. स पृष्टोत्तरं ददाति-नूनमभक्तार्थिनो, न. वा भिक्षावेला / एवमुक्ते सर्वेऽप्यवतरन्ति तत्यानुपशान्तस्य द्वितीयं मासगुरु / भिक्षानिवृत्तेषु साधुषु गुरवो भणन्तिआर्य ! साधवो न भुञ्जते, स प्राह-नूनं साधूनां न जीणं / एवमुक्ते सर्वे समुद्दिशन्ति तस्य पुनस्तृतीय मासगुरु / भूयोऽपि प्रतिक्रमणवेलायां भणन्ति-आर्य ! साधवो न प्रतिक्रामन्ति उपशमं कुरु. स प्रत्युत्तरमाह-नूनं निरतीचाराः श्रमणास्तेन न प्रतिक्रामन्ति / एवमुक्ते सर्वेऽपि प्रतिक्रामन्ति / तस्य पुनश्चतुर्गुरुकम् / एवं प्रभातकालेऽधिकरणे उत्पन्ने विधिरुक्तः / अथाऽन्यदा स्वाध्याये प्रस्थापिते यदि पठतामधिकरणमुत्पन्नं ततस्त्रयो नोदना कालाः / द्वौ मासगुरुकौ / भिक्षां हिण्डमानानामधिकरणे उत्पन्ने द्वौ नोदनाकालौ, एकं मासगुरु / भुक्तानामधिकरणे उत्पन्ने एको नोदनाकालः / अत्र नास्ति मासगुरु / अनुपशान्तस्य प्रतिक्रमणे कृते चतुर्गुरुकमेव भवति / . एवं दिवसे दिवसे चाउक्कालं तु सारणा तस्स / जइ वारि न सारेई गुरूण गुरुगो अ ततिवारे // व्योख्या- एवमनुपशान्तस्य दिवसे दिवसे चतुष्कालं स्वाध्यायप्रस्थापनादिरूपं तस्य सारणा कर्त्तव्या / यति-यावतो वारान् आचार्यों न सारयति, तति-तावतो वारान् गुरूणामाचार्याणां मास. गुरुका भवन्ति / एवं दिने दिने सारणाविधिरगीतार्थस्य कर्त्तव्यो यस्तु गीतार्थः स यद्येकदिनं स्वाध्यायभिक्षा-ऽभक्तार्था-ऽऽवश्यकलक्षणेषु चतुर्यु स्थानेषु सारितस्तदा परतस्तमसारयन्नपि गुरुः शुद्धः / यदि