________________ अप्रीत्यादिके प्रायश्चित्तम् * लघु मासिकं 273 | द्विमासिकं 45/ त्रिमासिकं 75 चतुर्मासिकं 105/ पश्चमासिकं 135/ पाण्मासिकं 165 इह पञ्च कादीन पाण्मासिकान्तानि प्रायश्चित्तानि लघूनि गुरूणि च दर्शितानि तेषां च सङ्ग्रहगाथा इमाःदो सढदिवस पणगं सग सड्ढा दसग सढबारसगं / पनरस सड्ढसतरस वीसं दिण सड्ढवावीसं // पणवीस सढसगवीस तीस पणचत्त सट्टि पणसयरी / नवइ दिण पणहिअसयं सउवीसं पंचतीससयं / / सहसयं पगसठं असीइसयमिअ दुवीसठाणेहिं / पणगाइ छग्गुरुंतं लहु गुरु पणगाइ पच्छित्तं // व्याख्या-एतास्तिस्रोऽपि स्पष्टाः / / ___ अथाऽप्रोतिकम् असङ्खडं निष्कासनम् उपधिहरणं प्रान्तोपनम् / एतानि पञ्च सम्पत्ति-असम्पत्तिभ्यां कृत्वा दश, उपद्रावणं चकोदशम् एतान्येकादश कषायस्थानानि / एतेषु क्रमेण प्रायश्चित्तं गाथाचतुष्टयेनाहसहसा व पमाएणं अप्पडिवंदे कसाइए लहुओ। अहमवि अ न वंदिस्सं असंप संपत्ति लहुगुरुगो // व्याख्या-एकेन साधुना कश्चिदपरः साधुरभिमुखो दृष्टः, स च तेन वन्दितः, त्नेन च सहसाअन्यक्रियाव्यापारोपयुक्तेनाऽन्यतरप्रमादसहितेन वा स न प्रतिवन्दितः / ततोऽप्रतिवन्दे-अप्रतिवन्दने सति -- अहमनेन वन्दितो न' इति कृत्वा स कषायितः / एवमप्रीतिकमुत्पन्नं तस्यैवं कषायितमात्रस्यैव लघुकः / तदनन्तरं स कषायित एवं चिन्तयति-यदा एष वन्दिष्यते तदाहमपि चनं न प्रतिवन्दिष्ये / तस्याऽसम्पत्तौ तत्करणावसराऽप्राप्तौ मासलघु / सम्पत्तौ-तदवसरप्राप्तौ मासगुरु / / एमेव संखडेवी असंपगुरुगो अ लहुग संपत्ते। निच्छुभणमसंपत्ते लहुगं चिअ नीणिए गुरुगा // 69 // व्याख्या- एवमेव-यथाऽप्रीतिके तथैवाऽसङ्खडेऽपि-वाचिककलहेऽपि / असम्पत्तौ गुरुको मासः / सम्पत्तो चतुलघु / निच्छुभणं-निष्कासनं यस्योपरि कोपः स्यात् तस्य गच्छान्निष्कासनोपायकरणमित्यर्थः / तत्राऽप्यसम्पत्तौ चतुर्लवुका एव / नीणिए-गच्छान्निष्कासिते चतुर्गुरुकाः। उवहीहरणे गुरुगा असंपसंपत्तिए अ छल्लहुगा / पंतावणसंकप्पे छल्लहुगा अचलमाणस्स 170 // ___व्याख्या- उपधिहरणे यस्योपरि रोषः स्यात् तस्य साधोः परिभोग्यस्य उपधेः-उपकरणस्य हरणम्-अपहरणमपहारणं वा, तत्राऽसम्पत्तौ चतुर्गुरुकाः, सम्पत्तौ च षड्लघुकाः / प्रान्तापनं-यष्टिमुष्टयादिप्रहारैर्हननं, तस्य सङ्कल्पः-चिन्तनं तस्मिन् सति * अचलमाणस्स' अचलतः-तदवस्थस्यैव कायक्रियामप्रयुञ्जानस्य षड्लघुकाः / पहरणमग्गणि छग्गुरु छेओ दिळंमि अट्ठमं गहिए। ठग्गिन्न दिन्न अमए नवमं उद्दावणे चरिमं // लघकाः /