________________ पति-जीतकरूपे पशान्तेऽपि य उपशान्तो भूत्वा आदरम् अभ्युत्थानं वन्दनं सम्भोजनं संवासं च करोति तस्याऽऽराधनाऽस्ति / यस्त्वेतानि न करोति अनुपशान्ततया तस्याऽऽराधना नास्ति / उपशमैकनिबन्धनत्वादाराधनायाः / अथोपशान्तमपि अधिकरणं ये पुनरुदीरयन्ति तेषां प्रायश्चित्तामिधित्सया स्वरूपमाहखामिल विउसविआई अहिगरणाइं च जे उईरंति / ते पावा नायव्वा तेसिं आरोवणा इणमो // 61 // व्याख्या-क्षामितानि-वचसा मिथ्यादुष्कृतप्रदानेन शमितानि, व्युपशमितानि-विविधम्-अनेकधा मनसा व्युत्सृष्टानि, क्षामितानि तानि व्युपशमितानि चेति क्षामितव्युपशमितानि / एवंविधान्यधिकरणानि ये भूय उदीरयन्ति, ते पापा:-साधुधर्मबाह्या ज्ञातव्यास्तेषां चेयमारोपणा-प्रायश्चित्तमित्यर्थः / उप्पायगउप्पन्ने संबद्ध कक्खडे अ बाह्र अ। आपिट्टणा समुच्छण समुघायइवायणा चेव // 62 // लहुगो लहुगा गुरुगा छम्मासा हुंति लहुगगुरुगा य / छेओ मूलं च तहा अणवठ्ठप्पो अ पारंची // 63 // व्याख्या- इदं पूर्वगाथाप्रतिपादितेषु नवसु स्थानकेषु द्वितीयगाथोक्तानि नव प्रायश्चित्तानि क्रमेणावगन्तव्यानि / तद्यथा-द्वौ साधु पूर्व कलहं कृतवन्तौ / ततश्च क्षामितव्युत्सृष्टेऽपि तस्मिन्नधिकरणेऽन्यदा तयोरेक एवं भणति-अहं नाम त्वया तदानीमित्थमित्थं च भणितः / एष उत्पादक उच्यते / अस्य च मासलघु / इतरोऽपि ब्रूते अहमपि त्वया तदानीं किं स्तोकं भणितः ? / एवमुक्ते उत्पादकः प्राह-यदि तदानीं त्वमभणिष्यस्तदा किमहमेवमेव त्वाममोक्ष्यम् ? / एवमधिकरणमुत्पन्नमुच्यते / तत्र द्वयोरपि चतुर्लघु / सम्बद्धं नाम वचसो परस्परमाक्रोशनं कर्तुमारब्धम् / तत्र चतुर्गुरु / कर्कशं नाम तटस्थितैरुपशम्यमानावपि नोपशाम्यतः तदा षडलघु / बाहु त्ति / रोषभरपरवशतया बाहूपाहवि युद्धं कर्तुं लग्नौ तत्र षड्गुरु / आपिट्टना नाम एकेनापरो निहत्य पातितस्तत्र छेदः / योऽसौ निहतः सम्मूछा यदि प्राप्तस्तदा मूलम् / मारणान्तिकसमुद्घातेन समवहते अनवस्थाप्यम् / अतिपातनामरणं तत्र पाराञ्चिकम् / अत्र प्रकरणे सर्वत्र लघुगुरु-प्रायश्चित्तमिति तत्परिज्ञापनोपायमाहअद्धेण छिन्नसेसं पुव्वद्धणं तु संजुअं काउ' / दिजाहि लहुअदाणं गुरुदाणं तत्ति चेव // 6 // व्याख्या-इह प्रायश्चित्तानि पञ्चकादीनि षोण्मासिकान्तानि एकादश भवन्ति / तानि च लघुगुरुविवक्षया द्वाविंशतिः स्युः / एतानि चैतद्गाथोक्तप्रकारेणावगन्तव्योनि / यथा दशकस्यार्द्धच्छिन्नस्य शेष दिनाः 5 दशकापेक्षया पूर्वस्य-पञ्चकाख्यप्रायश्चित्तस्याऽर्द्धन सार्धद्वयरूपेण संयुक्तं कृतं सार्द्धसप्तदिनसङ्ख्यानिष्पन्नं लघुदशकं भवति / एवंविधप्रक्रियया सर्वाण्यपि प्रायश्चित्तानि पाण्मासिकान्तानि लघूनि ज्ञेयानि, पञ्चकस्य तु पूर्व प्रायश्चित्तं नास्ति, यदद्धं तस्यार्कीकृतस्य मध्ये क्षिप्यते, अतोऽस्यार्द्धमेव सार्द्धदिनद्वयरूपं लघुपञ्चकमित्युच्यते / गुरूणि च सर्वाण्यपि यथा स्वप्रमाणान्येव / स्थापना चेयम्लघु पञ्चकं 23 / दशकं 73 पञ्चदशकं 123/ विशं 173 | पञ्चविंशं 223 | एतानि सर्वाण्यपि गुरु , 5 | , 10 | , 15 , 20 | , 25 मिन्नमास इत्युक्त्यन्ते / - -