________________ इयोरनुशिष्टिः तेण दमगेण सो कणगरसो उवचारेण गहिओ। तुंबयं भरिअं / ततो निअत्ता तेण परिव्वायगेण भणिों सुरुठेण वि तुमे एस सागपत्तेण न छडिअव्वो। ततो सो परिव्वायगो गच्छंतो तं दमगपुरिसं पुषो पुणो भणइ-मम पभावेण इस्सरो भविस्ससि / सो अ पुणो पुणो भण्णमाणो रुटो भणति-जं तुम पसाएण इस्सरत्तं तेण मे न कज्जं, तं कणगरसं सागपत्तेण छड्डेति / ताहे परिव्वायगेण भणिअं-हा हा! दुरात्मन् ! किमेयं तुमे कयं'जं अजिअं समीखल्लएहिं तवनिअमबंभमइएहिं / तं दाणि पच्छ नाहिसि छड्डंतो सागपत्तेहिं ' // यदर्जितं शमीसम्बन्धिभिः खल्लकैः-पत्रपुटैस्तपोनियमब्रह्मयुक्तैस्तदिदानी शाकपत्रैः परित्यजन् पश्चात्-परित्यागकालादूर्ध्वं परितप्यमानो ज्ञोस्यसि, यथा-दुष्टं मया कृतं यच्चिरसञ्चितः कनकरसः शाकपत्ररुत्सिच्य परित्यक्तः / एवं परिव्राजकेन दमक उपालब्धः / एवमाचार्यः तावधिकरणकारिणावुपालभते। आर्या ! यच्चारित्रं कनकरसस्थानीय तपोनियमब्रह्मचर्यमयः शमीखळकैरजितं परीषहोपसर्गादिश्रममगपयद्भिश्चिरात् कथंकथमपि मीलितं तदिदानी शाकपत्रसदृशैः कषायैः परित्यजन्तः पश्चात् परितप्यमानाः स्वयमेव ज्ञास्यथ, यथा-हा ! बहुकालोपार्जितेन संयमकनकरसेन तुम्बकस्थानीयं स्वजीवं बहुपूर्ण कृत्वा पश्चात् कलहायमानैः शाकवृक्षपत्रस्थानीयैः कषायैरुत्सिच्योत्सिच्याऽयमात्मा रिक्तीकृतः शिरस्तुण्डमुण्डनादिश्च प्रव्रज्याप्रयोसो मुधैव विहित इति / कषायैः पुनश्चिरसञ्चितस्यापि चारित्रस्य नाशो भवेत् / यदुक्तं 'जं अजिअं चरित्तं देसूणाए पुवकोडीए / तं पि कसायितमित्तो नासेति नरो मुखत्तणं' एवमाचार्येण सामान्यतः तयोरनुशिष्टिातव्या नत्वेकमेव कञ्चन विशेष्य भणनीयम् / यत आहआयरिओ एगं न भणे अह एगं निवारि मासिअं लहुअं। रागदोसविमुको सीअघरसमो अ आयरिओ॥ . व्याख्या-आचार्यों नैकमधिकरणकारिणं भणति-अनुशास्ति / अथाऽऽचार्य एकमेव निवारयति-अनुशास्ति, न द्वितीयं ततो मासिकलघुकमापद्यते / असमाचारीनिष्पन्नमिति भावः / तस्मादाचार्यों रागद्वेषविमुक्तः शीतगृहसमो भवेत् / शीतगृहं नाम वर्द्धकिरत्ननिर्मितं चक्रवर्तिगृहम् / तच्च वर्षासु निर्वातप्रवोतं, शीतकाले सोष्म, ग्रीष्मकाले शीतलं / यथा तच्चक्रवर्तिनः सर्व क्षमं तथा द्रमकादेरपि प्राकृतपुरुषस्य तत्सर्वक्षिममेव भवति / एवमाचार्यैरपि निर्विशेषैर्भवितव्यम् / अथ विशेषं करोति, तत इमे दोषाः / आचार्य आत्मीयोऽयमिति बुद्धया अमुं वारयति, मां तु परबुद्धया पश्यन्न वारयति / एवं पक्षरागेण क्रियमाणेनाऽननुशिष्यमाणः साधुर्बाह्यभावं गच्छति / यद्वा-सोऽननुशिष्यमाणो गाढतरमधिकरणं कुर्यात् / अथवा तमाचार्य परिस्फुटमेव ब्रूयात्-त्वं मामेवैकं बाह्यतया प्रेक्षसे, ततश्चात्मानमुबंध्य यदि मारयति / तत आचार्यस्य पाराञ्चिकम् / अथोनिष्कामति ततो मूलम् / तस्माद् द्वावपि समदृशाऽनुशासनीयो अनुशिष्टौ च यद्युपशान्तौ ततः सुन्दरम् / अथैक उपशान्तो न द्वितीयस्तेन चोपशान्तेन गत्वा स स्वापराधप्रतिपत्तिपुरःसरं क्षामितः परमसौ नोपशाम्यति / आह-कथमेतदवगम्यते यथा नोपशान्त इति / उच्यते-यदा वन्यमानोऽपि वन्दनकं न प्रतीच्छति, यदि वा अवमरात्निकोऽसौ ततस्तं रत्नाधिकं न वन्दते / आद्रियमाणोऽपि वा नाद्रियते / एवमनुपशान्त उपलक्ष्यते / ततोऽनु