________________ 58 यति-जीतकल्पे रक्तपटादीना दानं दद्मः, एतस्य फलं किमस्ति न वो ? एवं पृष्ठो भणति-दानस्य नास्ति नाश इति / यद्यपि तेषां दानं दत्तमफलं तथाप्येवं वक्तव्यं मा ते रुष्टा अनर्थं कुर्युरिति कृत्वा / शैक्षो वा प्रव्रज्याभिमुख आगतः प्रव्रजितो वा तं च स्वजनाः पृच्छन्ति, तत्र जानन्तोऽपि भणन्ति-न जानीमो न वा दृष्ट इति / शैक्षस्य वा अनधिसहिष्णोलोचे क्रियमाणे बहावपि तिष्ठति एवं वक्तव्यम्-एष समाप्तो लोचः स्तोकं तिष्ठति / अन्यच्च साधोलाचे क्रियमाणे तत्रस्थित एव शक्रो देवराजश्छत्रमभिधारयति / एषा कल्पिका सेवा / इत्युक्तं द्वितीयमहाव्रतातिचारविषयं प्रायश्चित्तम् / सम्प्रति तृतीयमहाव्रतातिचारप्रायश्चित्तं किञ्चिद्विशेषेगाहतण-डगल-छार-मल्लग पणगं लेवित्तरेसु लहुगो उ। दव्वादविदिन्ने पुण जिणेहिं उवही उ निष्कन्न / / व्याख्या-इह अदत्तादानं द्विधा-लौकिकं लोकोत्तरं च / तत्र लौकिक द्रव्य-क्षेत्र-कालभावभेदैश्चतर्की / लोकोत्तरं तु द्विधा-सूक्ष्म बादरं च / तत्र सूक्ष्म-स्वल्पं बादरं नाम बहकम / अथवा यत्र पञ्चकं प्रायश्चित्तं स्यात् तत्सूक्ष्म, शेषं बादरम् / अनयोः क्रमेण प्रायश्चित्तं, तद्यथा-तृणानि-कुशादीनि, डगलकानि-उपलादीनि, क्षारो-भस्म, मल्लकः-शरावः, एतेषु अदत्तेषु गृहीतेषु पञ्चकोख्यं प्रायश्चित्तं भवति। . लेपो-येन भाजन लिप्यते तस्मिन्नदत्ते गृहीते / 'इत्तरेसु'त्ति / पन्थानं व्रजन् यत्र वृक्षाधोभागच्छायादिषु विश्राम गृहीतुकामस्तत्रावग्रहं नानुज्ञापयति, तत्र चेत्वरे-अल्पकालावस्थानेऽप्यवग्रहाननुज्ञापने लघुको मासः, तुशब्दात् कुटमुखादिष्वदत्तेषु गृहीतेपु / ' दव्वादविदिन्ने पुण 'त्ति / द्रव्ये प्रतिविशिष्टे अदत्ते गृहीते / पुनःशब्दः पूर्वाभिहितप्रायश्चित्ताद्विशेषणे / जिनैः-तीर्थकररुपधिनिष्पन्नं प्रायश्चित्तं भणितं. तच्चेदमुखपोतिकादिके जवन्ये पञ्चकम् / चोलपट्टादिके मध्यमे लघुमासः / वर्षाकल्पादावुत्कृष्टे चतुर्लघवः / अथ * अविदिण्ण'त्ति / अस्य पदस्य व्याख्यामाह- . लद्धं न निवेएई परिभुंजइ वा निवेइअमदिणं / तत्थोवहिनिष्फन्नं अणवठ्ठप्पो व आएसा // 82 / / व्याख्या-कोऽपि साधुर्भिक्षादिविनिर्गत उपकरणादिजातं लळू-लब्ध्वा न निवेदयति-गुरूणां न कथयति / अथवा परिभुङ्क्ते अनिवेदितं, अथवा निवेदितं परं गुरुभिर्नानुज्ञातं ततो अदत्तमेव परिभुङ्क्ते / एवमदत्तादानं भवति / तत्रोपधिनिष्पन्नं प्रोयश्चित्तं तच्च प्रागुक्तमेव / अथवा आदेशात - सूत्रादेशात् अनिवेदिताऽदत्तवस्त्राधुपकरणग्राहकः साधुरनवस्थाप्यो भवति / एव प्रातिहारिकं वस्त्राद्युपकरणं तेषां गृहिणां यदि न प्रत्यर्पयति, शय्यातरसत्कं वा किमप्यदत्तं परिभुङ्क्ते / तत्राऽप्यदत्ते उपधिनिष्पन्नं प्रायश्चित्तं / वर्षाकाले च भगवता नानुज्ञातमुपधिग्रहणम् / अतस्तत्र तद् ग्रहणं कुर्वाणस्य तीथ कराऽदत्तं भवति, तत्र चतुर्गुरु / तथा परक्षेत्रे यद्यचित्तं द्रव्यमुपकरणरूपं गृह्णाति तदा तस्योपधिनिष्पन्न प्रायश्चित्तम् / अथ सचित्तं शिष्यादिरूपं गृह्णाति तदा चतुर्गुरुकं यदि वा मिश्रं सोपधिकं शिष्यादिरूपं गृह्णाति तदा संयोगप्रायश्चित्त भवति / अचित्ते उपधिनिष्पन्नं सचित्ते चतुर्गुरुकमित्यर्थः। तथा साधर्मिका लिङ्ग-प्रवचनाभ्यां त्रि(द्विधा भवन्ति / तेषामप्यदत्तसचित्तवस्तुग्रहणे चतुर्गुरुकम् / अचित्तवस्तुग्रहणे पुनरुपधिनिष्पन्नम् / अन्यधार्मिकसत्कादत्तादानेऽप्येतदेव प्रायश्चित्तम् / यत् साधर्मिकादत्तादाने कुलस्तै न्येऽप्येतदेव कालतपोगुरुकं ज्ञेयम् / गणस्तैन्ये च तपोगुरु काललघु / सङ्घस्तैन्ये तु कालगुरु तपोलघु / आदेशेन पुनः सर्वत्राऽनवस्थाप्यम् / कारणैः पुनरदत्तग्रहणेऽपि शुद्धः / यदुक्तं