________________ विकलेन्द्रियवधविषयं प्रायश्चित्तम् न्द्रियाणां सङ्घट्टने लघुमासः / अगाढपरितापे गुरुमासः। गाढपरितापे चतुर्लघु / उपद्रवणे चतुर्गुरु स्यादिति भावः / पञ्चेन्द्रियाणां घट्टनादिषु गुरुमासादि षड्लघुकान्तं प्रायश्चित्तं भवति / पञ्चेन्द्रियाणां सङ्घट्टस्तदहर्जातमूषकगृहोलिकादिविषयो द्रष्टव्यस्तत्र गुरुमासः / अगाढपरितापे चतुर्लघु / गाडपरितापे चतुर्गुरु / उपद्रवणे षड्लघुकम् / अर्थतेषामेव वधविषयं प्रायश्चित्तं प्रकारान्तरद्वयेनाहइगबितिचउपंचिंदिअवहंमि गुरुगाइ बारसंतं वा / इगवितिचउरपणिदिसु इगबितिचउपंचकल्ला वा // व्याख्या-वा विकल्पार्थः / एकद्वित्रिचतुष्पञ्चेन्द्रियवधे गुरुकादि द्वादशान्तं क्रमेण स्यात् / एकेन्द्रियवधे चतुर्गुरु / द्वीन्द्रियवधे षड्लघु / त्रीन्द्रियवधे षड्गुरु / चतुरिन्द्रियवधे दशमं / पञ्चेन्द्रियवधे द्वादशं भवतीति भावः / एकोऽयमादेशः / वा-अथवा कल्यं-कल्याणकं तच्चेदं-नि० पु० ए० आ० उ० / तत एकेन्द्रियवधे एवंविधमेकं कल्यं / द्वीन्द्रियवधे द्वे कल्ये / त्रीन्द्रियवधे त्रीणि कल्यानि / चतुरिन्द्रियवधे चत्वारि कल्यानि / पञ्चेन्द्रियवघे पञ्च कल्यानि / अयं द्वितीयादेशः। एतौ द्वावादेशी दानप्रायश्चित्ततया प्रकल्पे भणितौ / अर्थतेषां बहुलविराधनाविषयं प्रायश्चित्तमाहजलतेअबहुलफुसणे छग्गुरु दसगं तु विगलबहुलवहे / दुतिचउकल्ला व कमा वितिचउरिंदीण बहुलवहे / / व्याख्या-जलम्-अकायः तेजः-अग्निकायस्तयोः बहुलस्पर्शने-बहुविराधनायां प्रत्येकं षड्गुरुकं प्रायश्चित्तं स्यात् / विकलानां-विकलेन्द्रियाणां बहुलवधे पुनर्दशकं चतुर्थानामिति शेषः / वा-अथवा क्रमाद्-अनुक्रमेण द्वीन्द्रियाणां बहुलवधे द्वे कल्ये / त्रीन्द्रियाणां बहुलवधे त्रीणि कल्यानि / चतुरिन्द्रियाणां बहुलवधे चत्वारि कल्यानि / अथ प्रकारान्तरेण बहुलविराधनाविषयं प्रायश्चित्तमाहइग-विगल-पणिदिसु वा बहुमदणि छलहु-छगुरु-दसगाणि। . : दसपुरओ दसगं चिअ पणिदि इक्केवि दप्पेणं // 54 // 15 व्याख्या-वा-अथवा एकेन्द्रिय-विकलेन्द्रिय-पञ्चेन्द्रियाणां बहुमईने-बहुलविराधनायां क्रमेण षड्लधु-षड्गुरु-दशकानि / एकेन्द्रियाणां पञ्चविधानामपि बहुलविराधनायां षड्लघु / विकलेन्द्रियाणा त्रिविधानामपि बहुलविराधनायां षड्गुरु / पञ्चेन्द्रियाणां बहुलवधे दशकमभक्तार्थानामिति शेषः / दशपरतो-दशभ्यः परतो-ऽप्रत एकादशादिषु प्रभूतेष्वपि पञ्चेन्द्रियेषूपहतेषु दशकमेव क्षपणानां नाधिकम् / पञ्चेन्द्रिये एकस्मिन्नपि दर्पण हते दशकमेव / अथवा 'एगाइदसतेसु' इत्यादिगाथया पिण्डाधिकारे वक्ष्यमाणया द्वीन्द्रियादीनां बहुलविराधनाविषयं प्रायश्चित्तं प्रकारान्तरेण दर्शयिष्यते, तदपि प्रकारान्तरमत्राऽवगन्तव्यम् / पूर्वजीतकल्पवृत्तोवत्राधिकारे तस्य प्रकारस्य दर्शितत्वात् / एवं षड्विधजीवनिकायविराधनाप्रायश्चित्तप्रतिपादनेन प्रथममहाव्रतातिचारप्रायश्चित्तममिहितम् / अथ द्वितीय-तृतीय-पञ्चममहावतातिचारप्रायश्चित्तं सामान्येनाहमोसाइस मेहुणवज्जिएस दवाइवत्थुभिन्नेसु / हीणे मसक्कोसे कमेग गुरुलहुगचउगुरुगा // 55 //