________________ यति-जीतकल्प व्याख्या-मृषावादादत्तादानपरिप्रहाश्चतुर्विधा-द्रव्यतः क्षेत्रतः कालतो भावतश्च / तत्र द्रव्यतो मृषावादो धर्मास्तिकायादिसर्वद्रव्यविषयः। अदत्तादानं ग्राह्य-धारणीयवस्तुविषयम् / परिग्रहश्च सचित्ताचित्तमिश्रसर्वद्रव्यविषयः / क्षेत्रतो लोकालोकविषयौ मृषावादपरिग्रहौ / अदत्तादानं ग्रामनगराद्याश्रयम् / कालतस्त्रयोऽपि दिवा वा रात्रौ वा / भावतस्त्रयोऽपि रागेण वा द्वेषेण वा / ततश्चतुर्विधेष्वपि मृषावादादत्तादानपरिग्रहेषु विषये क्रमेण हीने-जघन्येऽतिचारे गुरुमासः / मध्ये-मध्यमेऽतिचारे चतुर्लघु / उत्कृष्ट पुनश्चतुर्गुरु / मैथुनविषयप्रायश्चित्तं विशेषतो द्वितीयादिमहाव्रतातिचारप्रायश्चित्सामिधानाधिकारे क्रमप्राप्तमग्रे प्रतिपादयिष्यते / अतोऽत्र मृषादिषु मैथुनवर्जितेष्वित्यभिहितम् / एवं समुदितद्वितीयतृतीयपश्चममहाव्रतातिचारप्रायश्चित्तं सामान्येनाभिधाय विशेषतो द्वितीयमहाव्रतातिचारप्रायश्चित्तामिधित्सयाऽऽहआयरिओ आयरिंअं आगाढं वयइ पावइ छेयं / वसहे छग्गुरु भिक्खूमि छल्लहु खुडगे गुरुगा / / व्याख्या--इह क्रोध-मान-माया-लोभ-हास्य-भय-मौखर्य-विकथोपयुक्तस्य वाक्यं मृषा भवति / यदुक्तं 'कोहे माणे अ मायाए लोभे अ उवउत्तया / हासे भय-मोहरिए विगहासु तहेव य // ' . एआई अट ठाणाइं परिवज्जित्तु संजये / असावजं मिअं काले भासं भासिज्ज पन्नवं' / / अत आगाढवचनं मृषावादरूपं क्रोधादिजन्यत्वात् / तच्चात्यर्थ गाढम्-आगाढम् खरपरुषनिष्ठुरजकारादि. रूपम् अन्यस्याऽऽख्यातुं यन्न शक्यते, येन चोक्तेन शरीरस्योष्मा जायते तदागाढं द्विधा-सूचया असूचयो च स्यात् / क्षेत्र सूचा स्वव्यपदेशेन परदोषाविष्करणम् / असूचा तु प्रकटमेव परदोषभाषणं / तत आचार्य आचार्य प्रति एवंविधमागाढं यदि वदति, तदा छेद-छेदाख्यं प्रायश्चित्तं प्राप्नोति / घृषभे-वृषभविषये यद्यागाढं वदति, तदा षड्गुरु / एवं भिक्षुविषये षड्लघु / क्षुल्लकविषये गुरुकाश्चत्वारः / तथाक्समे छग्गुरुगाई छलहुगा भिक्खु खुडि गुरुगाई / वसभाइसु अंति कमा लहु गुरुगो अ लहुगो / ध्याख्या-वृषभस्याऽऽचार्यादिषु चतुर्पु विषये आगाढभाषणे षड्गुरुकादि चतुर्लघुकान्तं प्रायश्चित्तम् / भिक्षोः षड्लघुकादि गुरुमासान्तं / क्षुल्लकस्य चतुर्गुरुकादि लघुमासान्तं / पूर्वार्दोक्तादिपायश्चित्तोत्तरार्दोक्तान्तप्रायश्चित्तयोः क्रमेण योजनादेवमर्थघटना। इदमुक्तं भवति-वृषभस्याऽऽचार्य प्रति आगाढभाषणे षड्गुरु / वृषभं प्रति षड्लघु / भिक्षु प्रति चतुर्गुरु / क्षुल्लकं च प्रति गुरुको मासः / क्षुल्लकस्याऽऽचार्य प्रति चतुर्गुरु / वृषभं प्रति चतुर्लघु / मिझुं प्रति गुरुमासः / क्षुल्लकस्य क्षुल्लकं च प्रत्यागाढभाषणे लघुमासः / एवमोचार्यादीनामागाढभाषणविषयं प्रायश्चित्तमुक्तम् / अथाधिकरणकारिसाधूपेक्षाविरूपं तदाहलहुगो अ उहाए गुरुगो से चेव उवहसंतस्स / उत्तुअमाणे लहुगा सहायगते सरिसदोसो // 58 //