________________ एकेन्द्रियविराधमाविषयं प्रायश्चित्तम् द्विकप्रमाणपृथिवीकायादि-खण्डग्रहणे चतुर्गुरु / एवं स्थान द्विगुणवृद्धया यावदष्टमवारायामष्टाविशत्युत्तरशतार्द्रामलकप्रमाणपृथिवीकायाऽप्कायवनस्पतिकायखण्डग्रहणे पाराञ्चिकम् / एवं द्रवोदकेऽपि ज्ञातव्यं, परमार्दीमलकस्थाने अञ्जलिर्द्रष्टव्यः / अष्टाविंशत्युत्तरशताञ्जलिजलग्रहणे पाराश्चिकं स्यादित्यर्थः / तथाइअ महिअणंततसगमि चउगुरुगा सोलजोयणे चरिमं / बीओसे मीसेसु अ लहुमासा अट्ठवीससए॥ ___ व्याख्या-'अ' एवं यथा पूर्वगाथायां सचित्तपृथिव्यादिगमने गव्यूतादिषु पाराधिकान्तं प्रायश्चित्तमुक्तं तथा अत्र महिकादिगमने ज्ञातव्यम् / महिका-धूमरी अनन्ता-अनन्तकायवनस्पतयः त्रसा-द्वीन्द्रियादयः, तेषु गमे-गमने गव्यूते चतुर्गुरुका: / ततो द्विगुणद्विगुणवृद्धया मार्गगमने अप्रेतनानि प्रायश्चित्तानि तावद्वाच्यानि यावत् षोडशयोजनेषु चरमं पाराश्चिकं भवति / अयममिप्राय:-महिकायां पतन्त्याम् अनन्तकायव्याप्तमार्गे द्वीन्द्रियादित्रसजीवसङ्कले च मार्गे एकगव्यूतगमने चतुर्गुरु, गव्यूतद्वयगमने षड्लघु, योजने षड्गुरु, योजनद्वये छेदः, योजनचतुष्टये मूल, योजनाऽष्टके अनवस्थाप्यं, षोडशयोजनेषु पाराश्चिकम् / तथा-बीजानि द्विधा-प्रत्येकवनस्पतिबीजानि अनन्तकायबीजानि च। 'ओस'त्ति / अवश्यायः-तुषारः / स चाऽधस्तादुपरि च स्यात्तेषु मिश्रेषु च / अत्र बहुवचनेन मिश्रपृथ्वीमिश्रोदक-मिश्रवनस्पतिकाया एते प्रयोऽपि गृह्यन्ते / तेषु च गमने गव्यूते लघुमासादारभ्य द्विगुणद्विगुणवृद्धया याबदष्टाविंशत्युत्तरशतयोजनेषु चरमं पाराश्चिकं स्यात् / अयमत्र भावःप्रत्येकाऽनन्तबीजराशिव्याप्ते पथि, अवश्याये भूभौ निपतिते निपतति वा, मिश्रपृथिव्यां मिश्रोदके मिश्रहरितादिवनस्पतिकाये च गच्छतो गव्यूते लघुमासः / गव्यूतद्वये गुरुमासः / योजने चतु. लघु / योजनद्वये चतुर्गुरु / योजनचतुष्टये षडलघु / योजनाष्टके षड्गुरु / षोडशयोजनेषु छेदः / द्वात्रिंशद्योजनेषु मूलम् / चतुःषष्टियोजनेष्वनवस्थाप्यम् / अष्टाविंशत्युत्तरशतयोजनेषु पारान्चिकम् / एवं स्थान द्विगुणवृद्धथा दशमवारायां पाराश्चिकं प्रायश्चित्तम् / अत्र महिकाऽनन्तकाय-त्रससंसक्त. मार्गाभीक्ष्णसेवायां सप्तवारामिः पाराश्चिकं / बीजावश्यायमिश्राभीक्ष्णसेवायां पुनर्दशवारामिः पाराश्चिकं, परं मिश्रानन्तकायाऽभीक्ष्णसेवायां नववाराभिः पाराञ्चिकं / यतस्तत्र प्रथमवारायां गुरुमासस्यैवापत्तिः / तथा-मिश्रपृथिवीकोयादौ स्थानोपवेशनशयनानि कुर्वाणस्य प्रत्येकं मासलघु / अभीक्ष्णसेवायां दशमवारायां पाराश्चिकम् / तथा तेजःकायविराधनायामित्थं प्रायश्चित्तं प्रकल्पे प्रदर्शितम् / तद्यथा-उत्तराधरारणिकाष्ठमथनप्रयोगेणाभिनवमग्नि जनयति यस्तस्य मूलम् / स्वयं प्रज्वालिते चाऽग्नौ पृथिव्यादीनां त्रसकायपर्यन्तानां सङ्घट्टने 4, परितापने 4ii, अतिपातने मूलम् / एतत् प्रायश्चित्तं कायनिष्पन्नम् / तथा परप्रज्वालितं वहिं स्वस्थानस्थितमेवाऽसङ्घटेन सेवमानस्य चतुर्लघु / यावतश्च वारान् हस्तादि परावर्त्य वापयति तावन्तश्चतुर्लघुकाः / तापने च षट्पदिकाविराधना, इन्धनप्रक्षेपे सादिजन्तुविराधना च स्यात् तनिष्पन्नमपि तस्य प्रायश्चित्तम् / तथा-असार्वरात्रिकप्रदीपयुक्तवसताववस्थाने लघुमासः / सार्वरात्रिकप्रदीप-सार्वरात्रिकाऽसार्वरात्रिकाऽपरज्योतिसहितवसतौ चतुर्लघु | साग्निवसतौ चोपकरण. प्रतिलेखने मासलघु / अथाऽग्नौ छेदनकानि निपतन्ति तदा चतुर्लघु / अथाग्निविराधनाभयान्न प्रतिखयति ततोऽसामाचारीनिष्पन्नं मासलघु उपधिनिष्पन्नं वा / वसतिं गमनागमने वा यदि न