________________ 40 यति-जीतकल्पे सातव्यं / तन्मुक्त्वा यदपरं मध्ये स्थानं तत्र स्थेयम् / अथ मध्ये नास्ति स्थानं ततः शिरसि पृष्ठतो वा यत्र ते स्थापयन्ति तत्र निराबाधे स्थीयते / साकारं भक्तं प्रत्याख्याय नमस्कारस्मरणप्रवणस्तिष्ठति / उत्तरन्नपि न पूर्वमुत्तरति न वा पश्चात् किन्तु मध्ये उत्तरति / सारोपधिश्च पूर्वमेवाल्पसागारिका क्रियते, यदन्तप्रान्तं चीवरं तत्प्रावृणोति / यदि च तरपण्यं नाविको मार्गयति तदा धर्मकथा-अनुशिष्टिश्च क्रियते / अथ न मुञ्चति / ततो द्वितीयपदे यदन्तप्रान्तमुपकरणं तद्यतनया दातव्यम् / अथ तन्नेच्छति निरुणद्धि वा ततोऽनुकम्पया यद्यन्यो ददाति तदा न वारणीयः। नौश्च चतुष्प्रकारा-समुद्रगामिनी 1, अनुस्रोतोगामिनी 2, प्रतिस्रोतोगामिनी 3, तिर्यम्गामिनी च 4 / एतासामेकतरयाऽपि नावा अर्धयोजनगमने चतुर्लघु / अतः परम् अर्धयोजनवृद्धयाऽनेतनप्रायश्चित्तानि क्रमेण स्युः / तद्यथा-योजने चतुर्गुरु, सार्द्धयोजने षडलघु, योजनद्वथे षड्गुरु, सार्द्धयोजनद्वये छेदः, योजनत्रये मूलं, सार्द्धयोजनत्रये अनवस्थाप्यं, योजनचतुष्टये पाराश्चिकम् / अभीक्ष्णसेवायां पुनरष्टवारामिः पाराश्चिकमिति दर्पिकासेवायां प्रकल्पे / गंतीकमणीभोगे अचक्खुभूवणदगग्गिफुसणगमे / गाउअ लहुगाढत्तं बत्तीसं जोअणे चरिमं // 49 // व्याख्या-गन्त्री-शकटं क्रमणी-उपानत् तयोर्भोगे-परिभोगे / अचक्षुः-यत्र चक्षुर्न विद्यते व्याप्रियमाणतया प्रसृमरान्धकारनिकरेण, यत्र चक्षुषा-लोचनेन निर्मलेनाऽपि स्थूला अपि जन्तवो निरीक्षितुं न शक्यन्ते इति भावः / सोऽचक्षुः-अचक्षुर्विषयः प्रदेशः , भूः-सचित्ता पृथिवी ' वण 'त्ति वनस्पतिकायिकाः प्रत्येकशरीरिणः / 'दग 'त्ति उदकं, तच्च द्विधा-भूम्युदकं नद्यादिषु, अन्तरिक्षोदकं च मेघवृष्टौ / अग्निः-वद्विस्तस्य स्पर्शनं अग्निस्पर्शनम् / एतेषु गमे-गमने गव्यूत-लघुकाऽऽरब्धं प्रायश्चित्तं / द्वात्रिंशद्योजनेषु चरमं पाराश्चिकं स्याद् / अयमर्थः-साधुर्गन्च्यामुपविष्टः क्रमण्यो वा परिधाय अचक्षुविषये सचित्तपृथिव्यां प्रत्येकवनस्पतिकायिकेषु अप्काये अग्निस्पर्शने वा यद्येकगव्यूतमात्रं मागं गच्छति, तदा तस्य चतुर्लघुकाः प्रायश्चित्तं, गव्यूतद्वयं यदि गच्छति तदा चतुर्गुरु, योजनं यदि याति तदा षड्लघु, योजनद्वयं यदि याति ततः षड्गुरु, योजनचतुष्कं चेद् गच्छति तदा छेदः, योजनोष्टकं यदि प्रयाति तदा मूलं, षोडशयोजनानि यदि व्रजति तदोऽनवस्थाप्यं, द्वात्रिंशद्योजनानि यदि पुनः प्रयाति तदा पाराश्चिकम् / एवं गव्यूते चतुर्लघुकादारभ्य स्थानद्विगुणवृद्धथा द्वात्रिंशद्योजनेष्वष्टमवारायां पाराश्चिकं स्यात् / सचित्तपृथिव्यादीनामभीक्ष्णसेवायां पुनरित्थं प्रायश्चित्तम् / तद्यथा-सचित्तपृथिव्यादिषु द्वितीयवारायां गच्छतो गव्यूते चतुर्गुरुकादारभ्य यावत् षोडशयोजनस्थाने पाराञ्चिकम् / तृतीयवारायां षड्लघुकादारभ्य अष्टयोजनपदे पाराश्चिकम् / एवं यावदष्टमवारायां गव्यूते एव पाराश्चिकम् , उपलक्षणत्वात् सचित्तपृथिव्यादौ स्थानं निषदनं त्वग्वर्त्तनं वा कुर्वाणस्य चतुर्लघुकम् / अभीक्ष्णसेवायामष्टमवोरायां पाराश्चिकम् / तथा च सचित्तपृथिव्यामधोऽङ्गुलचतुष्कखनने चतुर्लघुकं, ततोऽप्यधोऽङ्गलचतुष्कखनने चतुर्गुरुकम् / एवं तृतीयचतुष्के 6, चतुर्थचतुष्के दी, ततो द्विके छेदो, द्विके मूलं, द्विकेऽनवस्थाप्यं पुनर्द्विके पाराश्चिकम् / एवमधश्चतुर्विंशत्यङ्गलखनने अष्टमस्थाने पाराञ्चिकं स्यादिति भावः / अभीक्ष्णखननेऽष्टमवारायां पाराश्चिकम् / तथा कलः-चणकस्तावन्मात्रात् खण्डादारभ्य यावदाःमलकप्रमाणं सचित्तपृथ्वीकायखण्डम् अकायरूपकरकहिमपिण्डादिखण्डं वनस्पतिकोयखण्डं वा यदि गृह्णाति, तदा चतुर्ल घुकम् / आमिलक