________________ मावा गमने विधिः अडच्छगचउरदुगाओ अवक्केण कमेण गंतु निरवाए / थल-घट्ट-लेव-लेवोपरि गमणं न उग नावाए / ___ व्याख्या- अत्र क्रमेण-यथासङ्ख्येन योजना / नावुत्तरणस्थानाद् यदि अष्टगव्यूतवक्रेण गत्वा निरपाये-अपायाभावे स्थलमार्गः प्राप्यते, तदो तेन गम्यते / अथ स्थलपथो नास्ति, अस्ति वा परं सापायस्ततः षड्गव्यूतवक्रमार्गेण सङ्घट्टेन गम्यते / तदभावे चतुर्गव्यूतवक्रेण लेपेन गम्यते / तदभावे द्विगव्यूतवक्रमार्गेण लेपोपरिणा गमनं कार्य, न पुननोवा / तथाइअ छच्चउरदुगाउ अ गमणं लेवुवरि-लेव-संघट्टे / निरवायपरिरयासइ नावाइगमे वि चउलहुगा // 48 // ___ व्याख्या-एवमेव लेपोपरिस्थानोत् षड्गव्यूतपरिरयेण स्थलेन, चतुर्गव्यूतपरिरयेण लेपेन, द्विगव्युतपरिहारेण वा सङ्घट्टेन गम्यतां, न च लेपोपरिणा / लेपोत्तरणस्थानात् चतुर्गव्यूतपर्यवहारेण स्थलेन, द्विगव्यूतपरिहारेण वा सङ्घन गन्तव्यं, न तु लेपेन / सङ्घट्टोत्तरणस्थानात् द्विगव्यूतपरिहारेण स्थलेन गन्तव्यं, न पुनः सट्टेन / एतेषां परिहारपरिमाणानामभावे नावा लेपोपरिणा लेपेन सङ्घद्देन वा कारणे यतनया गम्यते / अमुमेवार्थमुत्तरार्द्धन दर्शयति-निरपायः-प्रत्यपायवर्जितो यः परिरयो-जलपरिहारमार्गः पूर्वप्रतिपादितपरिमाणस्तस्याऽसति-अभावे नावादिगमेऽपि-नावा गमनेऽपि चतुर्लघुकाः / न केवलं लेपादिगमने किन्तु नावागमनेऽपीत्यपिशब्दार्थः। नौसन्तरणे च या षट्कायविराधना स्यात्तन्निष्पनमपि: प्रायश्चित्तमवगन्तव्यम् / अत्राह-ननु ' नावा नइसन्तारे पायच्छित्तं विउस्सग्गो' इत्यत्र नौनदीसन्तारभेदेषु सर्वेष्वपि व्युत्सर्गः प्रायश्चित्तममिहितमिह पुनस्तेष्वेव तपःप्रायश्चित्तं कथम् ? उच्यतेयत् व्युत्सर्ग प्रायश्चित्तं तत्राभिहितं तत्तदानीमेव करणीयतया यतनार्थं सामान्येनोक्तं / तपःप्रायश्चित्तं तु अप्कायविराधनाविशुद्धिनिमित्तं विशेषतोऽभिधीयमानं न विरुद्धयते, उभयप्रायश्चित्तविशोध्यत्वादेतेषामिति / नावारोहणे चामूनि कारणानि-स्थलसङ्घट्टादिपथेषु शरीरोपधिस्तेनाः सिंहादयो वा श्वापदा भवेयुः, भैक्ष्यं वा न लभ्यते, आगाढं वा कारणमहिदष्टविषविशूचिकादिकं भवेत् तत्र त्वरितमौषधान्यानेतव्यानि, कुलादिकार्य वो अक्षेपेण करणीयमुपस्थितम् उपधेरुत्पादनार्थं वा गन्तव्यं लेपे लेपोपरी वा मकरभयं ततो नौरारोढव्या / सा च नौ परार्था संयतार्था वा याति / तत्र परार्थायां गन्तव्यं, तदभावे संयतार्थायामपि / सा द्विविधा-नवा पुराणा च / नवायां गन्तव्यं, न पुराणायां सप्रत्यपायत्वात् / नवापि द्विविधा-उदकभाविता अभाविता च / उदके या क्षिप्तपूर्वा सा उदकभाविता, इतराऽभाविता / तत्र भावितायां गन्तव्यं, नाभावितायामुदकविराधनासम्भवात् / उदकभाविताऽपि द्विधो-तदुदकभाविता अन्योदकभाविता च / तदुदकभावितायां गन्तव्यं, नेतरस्यां, मा भू दुदकशस्त्रमिति कृत्वा / तदुदकभाविताऽपि द्विविधा-आर्द्रा शुष्का च / आर्द्रायां गन्तव्यं, नेतरस्यामुदकाकर्षणभयात् / नावं चाऽऽरोदुकामेन एकान्तमुपक्रम्योपकरणं प्रत्युपेक्षणीयं, ततोऽधःकायं रजोहरणेनोपरिकायं मुखोनन्तकेन प्रमृज्य, भाजनान्येकत्र बद्ध्वा तेषामुपरिष्टादुपधि सुनियन्त्रितं करोति / ततो यदि भद्रका नाविकादयः स्थिरा च नौन दोलायते ततः पूर्वमारोढव्यम् / अथ प्रान्तास्ततः पूर्वं नारुह्यते / मा अमङ्गलमिति कृत्वा प्रद्वेषं गमन् / तेषां प्रान्तानां भावं ज्ञात्वा समकं पश्चाद् वा आरोहणीयं / नौशिरसि च न स्थातव्यं देवतास्थानं तदितिकृत्वा / मार्गतोऽपि न स्थातव्यं निर्यामकस्तत्र तिष्ठतीति कृत्वा / मध्येऽपि यत्र कूपकस्थानं तत्र न