________________ यति-जीतकल्पे करचरणादिना चालने सङ्घट्टः सम्भवति / परितापनं द्विधा-अगाढं गाढं च / तत्र सम्मईनचालनाद्यैर्बहुतरपीडोत्पादनमगाढं बहुतमपीडोत्पादनं च गोढम् / उपद्रवणं-सर्वथा जीवविनाशनं / तच्च पृथिव्यग्न्योरत्यन्तसम्मईनाद्यैः , अप्कायस्य तु वह्नितापनदण्डाद्यभिघातनपानपादादिक्षालनादिना, वायोस्तालवृन्तामिघातादिना, वनस्पतेः पत्रपुष्पाङ्करादि-त्रोटनादिभिः / ततश्चैतेषां पश्चानामपि पृथिव्यप्तेजोवायुप्रत्येक वनस्पतीनां प्रत्येकं घट्टने मिन्नमासः / अगाढपरितापने लघुमासः। गाढपरितापने गुरुमासः / उपद्रवणे चतुर्लघु इति क्रमेणावसेयम् / अनन्ते-अनन्तकायविषये घट्टने लघुमासः / अगाढपरितापने गुरुमासः / गाढपरितापने चतुर्लघुकाः / उपद्रवणे चतुर्गुरुकाः। नववासवुट्ठिकिसलय-विराहणा जत्तिआणि दिवसाणि / तावइआ चउगुरुगा दसगं छप्पिआलसुइनासे // ___ व्याख्या-अभिनववर्षाकालवृष्टौ यानि किसलयान्यनन्तकायरूपाणि भवन्ति / तेषां विराधना यावन्ति दिनानि स्यात् तावन्तश्चतुर्गुरुकाः प्रायश्चित्तम् / अयमभिप्रायः-वर्षाकाले किल प्रथमवृष्टौ. जातायां सत्यां दिनत्रयं यावत् सूक्ष्माङ्करा अन्तर्मुहूर्त्तमात्रकालमनन्तकायरूपाः प्रायः सर्वत्र भूतले प्रतिक्षणं प्रादुर्भवन्तो भवन्ति / ते च दुर्लक्षतया परिहतुं दुःशका, अतस्तदानीं तद्विराधनाभीरवः साधवो दिनत्रयं यावत् तत्परिहाराय यथाशक्ति यतन्ते / यतमानानामपि च साधूनां नवीनाङ्करविराधना यावन्ति दिनानि स्यात् तावन्ति चतुर्गुरूणि भवन्ति / तथा षट्पद्यालयो-यूकागृहं सूची-सूचिकालयस्तयोर्माशे प्रत्येक दशकं प्रत्यासत्तेश्चतुर्गुरुकाणाम् / आऊतेऊविज्जुप्फुसणे उकोसमज्झिमजहन्ने / चउलहु-गुरु-लहुमासो चउगुरुवग्धार सुहुमे अ॥४४॥ ___व्याख्या-अप्तेजोविद्युताम्-अकायतेजःकायविधुदुद्योतानां स्पर्शने-संस्पर्श उत्कृष्टमध्यमजघन्ये-उत्कृष्टे मध्यमे जघन्ये च क्रमेण चतुर्लघुः, गुरुमासः, लघुमासश्च / 'वग्घार'त्ति / वग्धारि-या अविच्छिन्नधारा वृष्टिः, यस्यां वा वर्षाकल्पो नीनं वा च्योतति, वर्षाकल्पं वा भित्त्वान्तःकायमायति या वृष्टिः / तत्र सूक्ष्मे च महिकोरूपेऽप्काये गमने चतुर्गुरु / इगनइबहुसंघट्टे गुरुगो लहुगो अ एगसंघट्टे / लेवे लेवोवरि-कुंभ-तुंब-दइओडगे लहुगा // 45 // व्याख्या-इह जलमार्गेण गच्छतां साधूनां संयमात्मविराधनादयोऽनेके दोषाः सम्भवन्ति / अतः कारणाभावे तन्मार्गेण न गन्तव्यं, कारणेन तु यतनया गन्तव्यम् / तत्र चायं विधिः-नादिजलं तावद् द्विधा स्ताघमस्ताघं च / यत्र नासिका न ब्रुडति तत् स्ताघं, यत्र तु नासिका ब्रुडति तदस्ताघम् / तत्र स्ताघजलं सङ्घट्टलेपलेपोपरिभिर्गम्यते / अस्ताघजलं तु कुम्भतुम्बादिभिः / यत्र-यस्मिन् जले उत्तरतां पादतलादारभ्य जङ्घाया अर्द्धं ब्रुडति, स सङ्घट्टः / तस्यैव सङ्घट्टस्योपरि यावन्नाभिरेतावद्यत्र प्रविशति, स लेपः। ततः परं नाभेरारभ्योपरि सर्वमपि लेपोपरिभण्यते / नदी चोत्तरतां त्रयः पन्थानः / तद्यथा-सङ्क्रमः स्थलं नोस्थलं च / तत्र सङ्क्रम एकाङ्गिको वा स्यादनेकाङ्गिको वा / एकालिको य एकेन फलकादिमा कृतः / अनेकाङ्गिकोऽनेफलकादिनिर्मितः / सण्डेवका अपि सङ्क्रमभेदा एष / तर