________________ जलमार्गेण गच्छतां विधिः तज्जाता अतज्जाता वा भवेयुः / तत्रैव जातास्तज्जाताः शिलादयः / अन्यतः स्थानादानीय स्थापिता अतज्जाता इट्टालकादयः / नद्या आकुण्टितकूपराकारवलनं नदीकूपरं, जलोपरि कपाटानि मुक्त्वा पालिबन्धः क्रियते स वरणः / एताभ्यां यत्रोदकं परिहृत्य गम्यते तत्स्थलम् / नोस्थलं पुनश्चतुर्विधम्उपलजलम्-अधः पोषाणा उपरि जल 1, वालुकाजलम्-अधो वालुका उपरि जलं 2, शुद्धोदकम् -अधः शुद्धा मही उपरि जलं 3, पङ्कोदकम्-अधः कर्दम उपरि जलम् 4 / एतेषां मध्ये पूर्व निरपायस्थलेन गन्तव्यम् / तदभावे सङ्क्रमेण / तत्राऽप्येकाङ्गिकेन गन्तव्यं, नाऽनेकाङ्गिकेन / एवं स्थिरेण, न चलेन / अपरिशाटिना-न परिशाटिना / सालम्बनेन न निरालम्बेन / सालम्बोऽपि द्विधा-एकतः सालम्बो द्विधा सालम्बश्च / पूर्व द्विधा सालम्बेन, ततः एकतः सालम्बेनाऽपि / तथा निर्भयेन गन्तव्यं, न सभयेन / एतेषामेकाङ्गिकादीनामभावे येऽनेकाङ्गिकादयस्तत्प्रतिपक्षास्तेष्वपि गमनं कर्त्तव्यं / यत्राल्पतरा संयमात्मविराधना / सक्रमाभावे नोस्थलेनाऽपि गन्तव्यम् / तत्र चतुर्विधे नोस्थले पूर्वमाक्रान्तनिष्प्रत्यपायेन उपलजलेन गन्तव्यम् / तदभावे अनाक्रान्तनिरपायेनाऽपि / उपलाद् वालुका अल्पसंहनना, तत उपलजलाभावे वालुकाजलेन गन्तव्यम् / वोलुकायाः शुद्धपृथिवी स्वल्पतरसंहनना, ततो वालुकाजलाभावे शुद्धोदकेन गन्तव्यं / सिकतो जलादावप्याक्रान्तोऽनाक्रान्तादयो विशेषा अवगन्तव्याः / पङ्कजलं तु बहुप्रत्यपायम् अतः सर्वेषामुपलंजलादीनामभावे तेन गम्यते, तम्राऽप्यगाधकर्दमे कण्टकादिरहितेऽपि न गम्यते / अस्ताघजलवत्तस्यापि गन्तुमशक्यत्वात् / एष सर्वोऽपि विधिः सचित्तपृथिव्याम् अचित्तपृथिव्यां पुनरप्कायादीनां संयोगाः कर्त्तव्यास्तद्यथा-पृथिवी सर्वत्राप्यचित्ता परमेकतोऽप्कायः-अन्यतश्च वनस्पतिकायः / तत्र किमकायेन गम्यते किंवा वनस्पतिकायेन ?, उच्यते-अप्काये नियमाद् वनस्पतिरस्ति तस्मात्तेन न गवसे, वनस्पतिना तु गम्यते / तत्रापि परीत्तयोनिकेन स्थिरसंहननेन आक्रान्तेन निष्प्रत्यपायेन / अत्र षोडश भङ्गाः / तद्यथा-प्रत्येकयोनिकः स्थिर आक्रान्तो निष्प्रत्यपायः एष प्रथमो भङ्गः / सप्रत्यपायेन द्वितीया / अनाकान्तेऽप्येवमेव द्वौ विकल्पौ / एवं स्थिरे चत्वारो विकल्पा लब्धाः / अस्थिरेऽप्येवं चत्वारः। एते प्रत्येकयोनिकेनाष्टौ भङ्गा लब्धाः। अनन्तयोनिकेऽप्येवमेवाष्टौ / एवं सर्वसङ्ख्यया वनस्पतिकाये षोडश भङ्गाः / एवमप्कायस्य त्रसैर्दीन्द्रियादिचतुर्विधैः सह संयोगाः कार्याः / तद्यथा-आक्रान्ताः स्थिरा निष्प्रत्यपायाः। एतैत्रिभिः पदैरष्टौ भङ्गा भवन्ति / एते च द्वीन्द्रियादिषु चतुर्वपि प्रत्येकमष्टावष्टौ लभ्यन्ते जाता द्वात्रिंशद् भङ्गाः / सान्तरनिरन्तरविवक्षया च चतुष्षष्टिः संयोगाः। अत्र चाऽऽक्रान्तस्थिरनिरपायैः सान्तरेखसर्गन्तव्यं, नाकायेन / अथ वनस्पतित्रसाणां द्विकसंयोगे किं वनस्पतौ गम्यतामुत सेषु ? उच्यते-त्रसेषु सान्तरेषु गन्तव्यं, न पुनर्वनस्पतौ, तत्र हि नियमेन वसा भवेयुः / पृथिव्यप्कायवनस्पतित्रयसम्भवे कतमेन गम्यताम् ?, उच्यते-पूर्वं पृथिवीकायेन, ततो वनस्पतिकायेन, ततोऽकायेनाऽपि / पृथिव्युदकवनस्पतित्रसलक्षणचतुष्कसंयोगसम्भवे कतमेन गन्तव्यम् ?, उच्यते-पूर्वमचित्तपृथिव्यां प्रविरलत्रसेषु, ततः सचित्तपृथिव्यां, ततो वनस्पतिना, ततोऽकायेनाऽपि गम्यम् / तथा यदि स्थलपथ एव न स्यात् , स्थलपथे वा भिक्षा वसतिर्वा नास्ति, स्तेनश्वापदभयं वा तत्र, ततः स्थलपथं मुक्त्वा पूर्व सङ्घट्टेन गम्यते / तत्रेयं यतना-'एकं पादं जले एकं पादं स्थले-आकाशे कृत्वा गन्तव्यम् / उत्तरन्तं लोकं विलोक्य, प्रातिपथिकमन्यं वा पृष्ट्वा च यस्मिन् पार्श्वे नीचतरमुदकमवगम्यते तत्रोत्तरणीयम् / उत्तरणानन्तरं च नीरे निष्प्रगलिते तीरे ईर्यापथिक्याः कायोत्सर्गः कार्यः इति / एतत् प्रकृतोपयोगित्वाद