________________ प्रथमवतातिचारप्रायश्चित्तम् अथाऽप्रशस्तोपबृहोदिकरणे प्रायश्चित्तमाहमिच्छत्तीर्ण उववृह-भत्ति-थिरकरण-वच्छलाईसु / खुड्डगभिक्खू-वसभाऽऽयरिए लहुगुरुलहुगगुरुगा // व्याख्या-मिथ्यात्विना-कुतीर्थप्रवृत्तजनानाम् उपबृहा-प्रशंसा, भक्तिः-सेवा, स्थिरीकरण वात्सल्यम् , आदिशब्दात् प्रभावना च / एतेषु क्षुल्लकभिक्षुवृषभाऽऽचार्याणामनुक्रमेण लघुगुरुलघुकगुरुकाः / क्षुल्लकस्य लघुमासः, भिक्षोर्गुरुमासः, उपाध्यायस्य चतुर्लघु, आचार्यस्य चतुर्गुरु इत्यर्थः / इति दर्शनाचारातिचारप्रोयश्चित्तमभिहितम् / साम्प्रतं चारित्राचारातिचारप्रायश्चित्तमाहसमिईसु अ गुत्तीसु अ लहुगो ओहेण असमिइ अगुत्ते / आणाइविराहणया विसेसओ भणिही उवरि // 41 // व्याख्या-इह समितयः पञ्च-ईर्यासमितिः, भाषासमितिः, एषणासमितिः, आदाननिक्षेपसमितिः , पारिष्ठापनिकासमितिः / गुप्तयस्तिस्रः-मनोगुप्तिः, वचनगुप्तिः, कायगुप्तिः। तत्र जन्तुजातरक्षानिमित्तं युगमात्रभूमिकान्तरदत्तदृष्टेरव्याक्षिप्तचित्तस्य प्रतिपदं चक्षुषा विशोधयतः साधोः संयमोपकरणाद्यर्थं या गमनक्रिया सा ईर्यासमितिः / मृदुमधुरानवद्यहितमितवचनभाषणं भाषासमितिः / सूत्रानुसारेण रजोहरणवस्त्रपात्राऽशनपाननिलयौषधान्वेषणम् एषणासमितिः। धर्मोपकरणानां प्रतिलेखनाप्रमार्जनापूर्वकमेव ग्रहणमोचनमादाननिक्षेपसमितिः। मूत्रमलश्लेष्मपुरीषादीनां विवेकाह-संसक्तभक्तपानादीनां वा जन्तुविरहिते स्थण्डिले विधिना परिष्ठापनं. पारिष्ठापनिकासमितिः। सावधमनःसङ्कल्पगोपनं मनोगुप्तिः / सावधवचनरोधनं मौनेन वाऽवस्थानं वाग्गुप्तिः। कायव्यापारनिवारणं कायगुप्तिः / ननु समितिगुप्योः कः प्रतिविशेषः ? , उच्यते-समितिापाररूपा गुप्तिस्तु व्यापाराव्यापाररूपा / यदुक्तं‘समितीण य गुत्तीण य एसो भेओ उ होइ नायब्वो। समिई पयारहवा गुत्ती पुण उभयरूवा उ / / समिओ नियमा गुत्तो गुत्तो समिअत्तणंमि भइअव्यो / कुसलवयमुदीरितो जं वयगुत्तो वि समिओ वि / / समिई पयाररुवा गुत्ती पुण हुंति उभयहवा उ / कुसलवयमुदीरितो तेणं गुत्तो वि समिओ वि // गुत्तो पुण जो साहू अप्पविओरोइ नाम गुत्तीए / सो न समिओ त्ति वुच्चइ तीसे उ विआररूवत्ता' / एतासु पञ्चसु समितिष्वसमिते तिसृषु गुप्तिष्वगुप्ते च ओघेन-सामान्येन मासलनुकः / आज्ञाभङ्गादयो दोषा आत्मसंयमविराधना च स्यात् / विशेषतः पुनश्चारित्राचारातिचारप्रायश्चित्तं पञ्चमहोब्रतादिक्रमेण उपरिष्टाद् भणिष्यते / तत्र प्रथममहाप्रतातिचारप्रायश्चित्तं त्रयोदशगाथामिः प्रतिपादयतिपुढवाइएसु घट्टणमगाढगाढपरिआवणुद्दवणे / मिन्नं लहु-गुरु-चउलहु अणंति लहुगुरुलहुगगुरुगा // घ्याख्या-पृथिव्याविषु-षष्ठीसप्तम्योर) प्रत्यभेदात् पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां मनाक स्पर्शन-सट्टनम् / अत्राह-मनु पृथिव्यादीनां चतुर्णा घटते सट्टनम्, अष्कायस्य तु कथं सङ्घट्टनं सम्भवति ? तस्य द्रवरूपत्वेन स्पर्शमात्रेऽपि विनाशसम्भवात् / उच्यते-घटादिस्थस्याऽकायस्यापि मना