________________ यति-जोतकल्पे सम्पादनं प्रशस्तं, गृहस्थपार्श्वस्थाधुपष्टम्मरूपं तु तदप्रशस्तम् 7 / प्रभावना च तीर्थकरप्रवचनादिविषया प्रशस्ता, कुतीथि कविषयो त्वप्रशस्ता 8 / इह चोपबहादीनां प्रशस्तानामकरणेऽतिचारता, अप्रशस्तानां तु करणे / देशसर्वभेदश्वोपबृंहादीनामपि शङ्कादीनामिव ज्ञेयः / इति दर्शनाचारातिचारस्याष्टौ भेदाः / तत्र शङ्कादिषु-शङ्का-काक्षा-विचिकित्सासु तिसृषु देशतो गुरुकाश्चत्वारः, सर्वतः पुनः शङ्कादिषु तिसृष्वपि मूलं-सर्वपर्यायछेदो भवति / तपोऽर्हप्रायश्चित्ताधिकारेऽपि मूलमत्र लाघवार्थमभ्यधायि / दृष्टिमोहेमूढदृष्टौ अप्रशंसने-ज्ञानदर्शनतपः-संयमादिगुणानामनुपहायाम् अस्थिरीकरणे च-चारित्रादिषु सीदतां स्थैर्यानापादने चत्वारो लघुकोः प्रायश्चित्तम् / अथाऽवात्सल्यप्रायश्चित्तं विषयविभागेनाऽऽहगुरुमाऽऽयरिअगिलाणाऽवच्छल्ले लहुग खवगपाहुणए / गुरुगो अ बालवुड्डे सेहे अ महोअरे लहुओ॥ व्याख्या-इह साधुना सर्वेषां साधर्मिकाणां साध्वादीनामाहारवस्त्रपात्रभेषजौषधपादशौचाऽ. भ्यङ्गनविश्रामणादिभिः सर्वस्थाम्ना वात्सल्यं कर्त्तव्यं, गुरुग्लानादीनां तु विशेषतः / तेषां तदकरणे प्रायश्चित्तं, यथा-आचार्यग्लानाऽवात्सल्ये-आचार्यग्लानयोर्वात्सल्याऽकरणे प्रत्येकं चत्वारो गुरुकाः। क्षपकः प्राघुर्णकयोः-क्षपकः-तपस्वी विकृष्टतपष्कारी प्राघुर्णको-ग्रामान्तरादागतस्तयोर्वात्सल्याऽकरणे चत्वारो लघुकाः / बालवृद्धयोरवात्सल्ये गुरुको मोसः। शैक्षे-अभिनवप्रव्रजिते महोदरे च-बहुभोजिनि वात्सल्याऽविधाने लघुको मासः / चशब्दात् सामान्यतः साधर्मिकवात्सल्याऽकरणे लघुमासः / अथाऽप्रभा. वनाप्रायश्चित्तमाहसामन्नेणं गुरुगा ससत्तिए अप्पभावणे अहवा / गुरुवसभभिक्खुथेरे खुड्डे गुरुगाइ मिन्नतं // 39 // व्याख्या-इह यद्यपि प्रवचनं शाश्वतत्वात्तीर्थकरभाषितत्वात् सुरासुरनरनमस्कृतत्वाद् वा स्वयमेव दीप्यते तथापि गुणाधिकपुरुषाः स्वस्य दर्शनशुद्धये प्रवचनं प्रभावयन्ति, ते च प्रवचनप्रभावका अतिशय्यादयः / उक्तं च 'अइसेसिइड्ढिधम्मकहिवाइआयरिअ खवगनेमित्ती / विज्जा रायगणसंमया य तित्थं पभाविति / अस्या अक्षरगमनिका-अतिशयी-अवधि-मनःपर्यायज्ञानयुक्तोऽतिशय्यध्ययनो वा / ऋद्धिग्रहणात् राजामोत्यादिः ऋद्धिमान् दीक्षाग्रोहकः / आमोषध्यादि-ऋद्धिप्राप्तो वो / धर्मकथी-आक्षेपणीविक्षेपणी-निवेदनी-संवेदनीकथाभियों धर्ममाख्याति / वादी-वादलब्धिसम्पन्नः / आचार्यः स्वपरसिद्धान्तप्ररूपकः / क्षपकः-तपस्वी / नैमित्तिकः-अष्टाङ्गनिमित्तवेत्ता / विद्याग्रहणात् विद्यासिद्धः / राजगणसंमताश्च / राजसंमता मन्त्र्यादयः , गणसंमता महत्तरादयः, चशब्दाद् दानश्राद्धादिपरिग्रहः / एते तीर्थ-प्रवचनं प्रभावयन्ति / शक्तौ सत्यामेतस्याऽप्रभावने च प्रायश्चित्तं, तद्यथा-सामान्येन-अविशेषेण स्वशक्तौ-स्वसामर्थ्य सत्याम् अप्रभावने प्रवचनस्य चत्वारो गुरुकाः। अथवा पूर्वोक्ताः प्रभावकाः / एतेषां पञ्चानामाचार्यादीनामन्तर्गता अतस्तद्विभागेन दर्शयति-गुरुवृषभभिक्षुस्थविरक्षुल्लेषु गुरुकादि भिन्नान्तं प्रायश्चित्तम् / आचार्यस्य प्रवचनाऽप्रभावने चतुर्गुरुकाः / उपाध्यायस्य चतुर्लघुकोः / भिक्षोपेरुमासः। स्थविरस्य लघुमासः / क्षुल्लस्य भिन्नमास इत्यर्थः /