________________ दर्शनाचारातिचारप्रायश्चित्तम् माम्लपायोग्यं वाऽऽदत्ते / इह क्रमाद्-यथाक्रममागाढयोगस्य सर्वभङ्गे षड्लघु / देशभङ्गे चतुर्गुरु / अनागाढयोगस्य सर्वभङ्गे चतुर्गुरुकाः / देशभङ्गे चतुर्लघुका इति ज्ञानाचारातिचार-प्रायश्चित्तमुक्तम् / अधुना दर्शनाचारातिचारप्रायश्चित्ताधिकारः / तत्र दर्शनं-देवगुर्वादितत्त्वसम्यश्रद्धानलक्षणमतः प्रथम देवगुर्वाद्याशतिनाविषयं प्रायश्चित्तमाहजिणजिणहरठवणगुरू गुरु-आवलियाण तिविहऽवन्नाए / लहु-गुरु-लहुगा ठवणा-यरियावलि-नासि लहुगुरुगा // 36 // व्याख्या-जिना-जिनबिम्बानि जिनगृहाणि-जिनप्रासादाः स्थापनागुरवो-ऽक्षाद्या गुरवःप्रत्यक्षा आचार्यप्रभृतयः आवलिका-जपमाला / एतेषां त्रिविधाऽवज्ञायां-त्रिविधाशातनायां जघन्यमध्यमोत्कृष्टभेदायां यथाक्रमं लघुगुरुलघुकाः। जिनबिम्बादीनां जघन्याशातनायां लघुमासः। मध्यमाशातनायां गुरुमासः / उत्कृष्टाशातनायां चत्वारो लघुका इत्यर्थः / स्थापनाचार्यावलिकानाशे लघुगुरुकोस्थापनाचार्यनाशे लघुमासः, जपमालानाशे गुरुमास इति भावः / कचित्पुनरेवं-ठवणायरिआवलिआनासे गुरुगो अ आयामम् / अथ दर्शनाचाराऽतिचारप्रायश्चित्तमाहसंकाइसु तिसु देसे गुरुगा मूलं तु सव्वहिं होइ / दिट्ठीमोहे अपसंसणे अथिर अकरणे लहुगा // 37 // व्याख्या- इह दर्शनाचाराऽतिचारोऽष्टधा / तद्यथा-शङ्का-ऽऽकाङ्क्षा विचिकित्साऽमूढदृष्टिरुपबंहा स्थिरीकरणं वात्सल्यं प्रभावना चेति / तत्र संशयकरणं शङ्का / सा द्विधा-देशतः सर्वतश्च / तत्र देशतः तुल्येऽपि जीवत्वे कथमेके भव्या अपरे त्वभव्या ? इत्यादि / सर्वतस्तु प्राकृतभाषानिबद्धमिदं श्रुतं, न ज्ञायते किं सर्वज्ञेन प्रणीतं आहोश्वित् कुशलमतिना केनापि परिकल्पितमिति 1 / अन्याऽन्यदर्शनग्रहणमाकाङ्क्षा / साऽपि देशत एक किश्चित् कुतीर्थिकमतमाकाङ्क्षति / यथा-अस्मिन्नपि खल्वहिंसैव धर्मों मोक्षश्च फलमुच्यते / सर्वतः सर्वाणि-शाक्या-ऽऽजीवक-कपिल-बोटिको-लूक-वेदतापसादिकुमतान्याकाङ्क्षति, कृषीबल इव सर्वधान्यवपनानि कदाचित् किश्चित् फलतीति धिया 2 / विचिकित्सा-आत्मनः फलं प्रत्यनाश्वासो, यथा-आसीत्तादृशानुष्ठायिनां पुरातनानां महासत्त्वानां मोक्षः, अस्मादृशानां त्वस्नानकेशलुश्चनादिकं कष्टमेव मन्दसत्त्वत्वात् क मोक्षसम्भव ? इति देशतः स्तोकोऽनाश्वासः / सर्वतस्तु सर्वथाऽनाश्वासः / यद्वा-' विदक् ज्ञाने ' विदन्तीति किब्लोपे विदः-साधवः तेषां जुगुप्सा / देशतोऽहो ! मलदुर्गन्धा इमे मुनयो यद्यष्णोदकेन स्नायुस्तदा को दोषः ? स्यादित्यादि / सर्वतस्तु मण्डल्या नन्दिपात्रे मिथः संसृष्टभोजिनोऽमी गुप्तिगृहवासिन इव महामलीमसाङ्गवाससः प्रागदत्तदानत्वेनाऽऽजन्म भिक्षाचरा इत्यादि 3 / मूढदृष्टिः-परतीर्थिनां राजादिकृतां पूजा मन्त्राद्यतिशयान् वा दृष्ट्वा, तदाऽऽगमान् वा श्रुत्वा मतिव्यामोहो देशतः स्तोकः / सर्वतस्तु सर्वथा 4 / उपहा-प्रशंसा। सा ज्ञानदर्शन-तपः-संयम-वैयावृत्त्याधुद्यतानां साध्वादीनामुत्साहवृद्धिहेतुः प्रशस्ता, मिथ्यादृशां-शाक्यचरकादीनां त्वसावप्रशस्ता 5 / स्थिरीकरणं-सीदतश्चारित्रादिषु स्थैर्यहेतुः प्रशस्तम् , असंयमविषये पुनस्तदप्रशस्तम् 6 / वात्सल्यम्-आचार्यग्लोनप्राघुर्णकतपस्विसेहासहबालवृद्धादीनामाहारोपध्यादिना समाधि