________________ यति-जीतकल्पे सभेदान् कर्मबन्ध-भेदहेतूंश्चाकथयित्वा / उपलक्षणत्वादनधिगते जीवाजीवादी तथा षड्जीवनिकायरक्षाविषयपरीक्षाया अभावे / इदमुक्तं भवति येन षड्जीवनिकायाध्ययनं पठितं, न च तस्यार्थः भुतः / अथ श्रुतः, परं नावगतः। अवगतोऽपि न श्रद्धानविषयीकृतः। यश्च षड्जीवनिकायरक्षाविषये न परीक्षितः तस्योपस्थापने क्रियमाणे उपस्थापयितुः प्रायश्चित्तं चत्वारो गुरुकाः। न केवलमेतत् प्रायश्चित्तं किन्त्वाज्ञादयो दोषाः / विराधना या पूर्वभणिता सा चेयम्-उपस्थापितो भिक्षादौ किल कल्पिको भवति / ततस्तस्य मिक्षादिप्रेषणे षण्णां जीवनिकायानां विराधना अपरिज्ञानात् / ततस्तन्निष्पन्नमपि प्रायश्चित्तं उपस्थापयितुरुपढौकते / स च महावतानामयोग्योऽत्र मालया दृष्टान्तो, यथा-स्थाणौ शूलाप्राये पञ्चवर्णः . सुगन्धपुष्पमाला समारोप्यमाणा न शोभते / एवमयोग्येऽपि पञ्चमहाव्रतमाला न शोभते / एवं सूत्रार्थाप्राप्तोपस्थापनाविषयं प्रायश्चित्तमुक्तम् / अथ सूत्रार्थाऽऽशातनाविषयं तदाहसामण्णेणं सुत्तासायणि चउलहुग चउगुरू अत्थे। लहुगुरुलहुगा वा तदुवगरणवन्नासु तिविहासु // व्याख्या-सामान्येन-ओघेनाऽऽगाढाऽनागाढाद्यविशेषेण सूत्राऽऽशातनायां सूत्र-परमाप्तप्रणीताऽऽगमरूपं तस्याऽऽशातनायोमविधिपाठादिरूपायां चतुर्लघुकाः प्रायश्चित्तम् / अर्थ-अर्थविषयायामाशातनायामविधिश्रवणादिरूपायां चतुर्गुरवः / तदुपकरणावज्ञासु त्रिविधासु / तस्य ज्ञानस्योपकरणानि पुस्तकपट्टिकादीनि, तेषामवज्ञास्वाशातनासु त्रिविधासु जघन्यमध्यमोत्कृष्टभेदासु यथाक्रमं लघुगुरुलघुका वा / जघन्यावज्ञायां लघुमासः, मध्यमावज्ञायां गुरुमासः, उत्कृष्टावज्ञायां चतुर्लघव इत्यर्थः / अत्र वाशब्दः समुच्चये पूरणे वा / अथाविधिसूत्रार्थग्रहणादिविषयं प्रायश्चित्तमाहभूअपमजणुओग-काल-अविसजणाइसु अ भिन्नं / अक्खनिसिजअविहि चउ-गुरु असमायारि लहु सेसे // व्याख्या-भूः-भूमिः सूत्रमण्डल्यर्थमण्डल्योः प्रक्रमात् भोजनमण्डल्याश्च स्थानं, तस्या अप्रमार्जने अनुयोगकालाविसर्जनादिषु च / अनुयोगकालयोरविसर्जनम्-अप्रतिक्रमणम् , आदिशब्दात् सम्पूर्ण श्रुतस्कम्धपरावर्त्तनानन्तरं कायोत्सर्गाकरणं, तेषु भिन्न-भिन्नमासः। अक्षनिषद्याऽविधौ। अनुयोगकालेऽक्षाणामस्थापने गुरुयोग्याऽक्षयोग्यनिषद्ययोरकरणे चतुर्गुरवः / शेषे-अविधौ अनुयोगग्रहणशेषविध्यकरणे असमाचारीनिष्पन्नो लघुमासः / तद्यथा-अनुयोगप्रारम्भे गुरूणां वन्दनकाऽदाने कायोत्सर्गाकरणे च लघुमासः। अथ श्रुतोपचारयोगस्य भङ्गे प्रायश्चित्तमाहआगाढाणागाढस्स सव्वभंगे अ देसभंगे अ / जोगस्स कमा छल्लहु चउगुरुचउगुरुगचउलहुगा // 35 // व्याख्या-योगो द्विधा-आगाढोऽनागाढश्च / उभयोरपि सर्वभङ्गोऽयं-यदाऽऽचामाम्लं न करोति विकृती(क्ते / देशभङ्गस्तु-योगसमाप्तौ विकृतीभुक्त्वा पश्चाद्विकृत्यादानकायोत्सग करोति, स्वयमेव. वा गुरोरसमक्षं विकृत्यादानकायोत्सर्ग करोति, स्वयमेव वा गुरोरसमक्षं विकृत्यादानकायोत्सर्ग कृत्वा भुक्ते / अभणितोऽपि वा गुरून् भणति-सन्दिशत विकृत्यादिकायोत्सर्ग करोमि, एकपात्रके विकृतिमाचा