________________ उपत्यापनाविषयो विधि: तस्थ कल्पाकस्य कश्चिन् माननीयः पिता भ्राता वा ज्येष्ठः स्वामी वा कल्पाको भावि पञ्चरात्रेण पञ्चदशरात्रेण वा ततो नास्ति तस्य प्रायश्चित्तम् / माननीयेऽनुपस्थापिते तस्योपस्थापनाया अयोगात् / अथ नास्ति तस्य कश्चिन् माननीयः कल्पाको भावि ततस्तस्याऽऽचार्यस्योपाध्यायस्य वा प्रायश्चित्तम् / अनादेशद्वयम्-एके प्राहुन्धतूरात्रात् परं यद्यन्यानि चत्वारि दिनानि नोपस्थापयति, तत आचार्यस्योपाध्यायस्य च प्रत्येकं प्रायश्चित्तं चतुर्गुरुकम् / अथ ततोऽप्यन्यानि चत्वारि दिनानि लयति, ततः पडलधुकं / ततोऽप्यन्यानि चेञ्चत्वारि दिनानि ततः षड्गुरुकं / ततोऽप्यन्यानि यदि चत्वारि दिनानि ततश्चतुर्गुरुक-छेदः / परमन्यानि चत्वारि दिनानि यदि तर्हि षडलघुक छेदः / ततोऽपि चेदन्यानि चत्वारि सतः षड्गुरुक छेदः / ततः परमेकैकदिवसातिक्रमे मूलानवस्थाप्यपाराश्चितानि / द्वितीयादेशवादिनः प्राहुः-पश्चरात्रात् परं यदि नोपस्थापयति ततश्चतुर्गुरुकं प्रायश्चित्तम् / परं यदि पञ्चदिनानि लङ्घयति ततः षड्लघुकं / ततः परमपि पञ्चरात्रातिक्रमे षड्गुरुकम् / ततोऽपि परं यदि पञ्चदिनानि वाहयति ततश्चतुर्गुरुक छेदः / ततः परमन्यानि चेत् पञ्चादिनानि ततः षडलघुकश्छेदः / ततोऽपि पनराजातिवाहने षड्गुरुक-छेदः / ततः परमेकैकदिवसातिवाहने मूलानवस्थाप्यपाराश्चितानि / अथ दर्पप्रमादध्याक्षेपग्लानत्वकारणैरस्मरन् नोपस्थापयति, तत्र व्यायामवल्गनादिषु व्यापृततया यो निष्कारणोऽनादरः स दर्पः, तेनानुपस्थापने प्रायश्चित्तं चत्वारो गुरुकाः / विकथादीनां पञ्चानां प्रमादा. नामन्यतमेन प्रमादेनानुपस्थापने चत्वारो लघुकाः / सीवनतुन्नस्वाध्यायध्यानपात्रलेपादिदानकायों व्याक्षेपः, तेनानुपस्थापने गुरुको मासः / ग्लानत्वेन त्वनुपस्थापने लघुमासः / अथ राज्ञो युवराजस्यामात्यादेर्वा प्रतिदिवसमागच्छतो धर्मकथा. कथ्यते / परप्रवादी वा कश्चनाऽप्युपस्थितः स वादे निग्रहीतव्य इति तन्निग्रहणाय. विशेषतः शास्त्राभ्यासे, तेन सह वादे वा दीयमाने, यदि पाऽऽचार्यस्यान्यस्य वा साधोर्यो उपस्थाप्यः तस्य वाऽत्युत्कटे ग्लानत्वे जाते व्याकुलीभवनतः स्मरन्नस्मरन् वा यद्यपि नोपस्थापयति तथापि न तस्य प्रायश्चित्तं, कारणतो व्याकुलीभवनात् / अथाऽऽचार्य उपाध्यायो वा यदा स्मरति तदा न साधकं नक्षत्रादिकं, यदा तु साधकं नक्षत्रादिकं तदा बहु व्याक्षेपतो न स्मरति / एवं स्मरन्नस्मरश्च कल्पाकं नोपस्थापयति / तत्र यदि तस्य कश्चिन्माननीयः कल्पाको भावी तदा तदपेक्षया तस्यानुपस्थापनेऽपि न प्रायश्चित्तम् / अथ नास्ति कश्चिन्माननीयः कल्पाको भावी तदा दशदिवसातिक्रमे चत्वारो गुरुकाः / ततः परं दशदिनातिक्रमे षडलघुकम् / ततः परमपि दशदिनातिवाहने षड्गुरुकम् / ततोऽपि दश दिनोतिक्रमे चतुर्गुरुकश्छेदः / ततोऽपि दशदिनातिक्रमे षडलघु*छेदः / ततोऽपि दशदिनातिक्रमे षड्गुरुकछेदः / तत एकैकदिनातिक्रमे मूलोनवस्थाप्यपाराश्चितानि / एष प्रथममादेशो, द्वितीयादेशे पुनस्तपसा छेदेन वाऽनम्यमानेऽथवा धृतिबलेन कायबलेन वा दुर्बले तपस छेदस्य वा दातुमशक्यतया संवत्सरं यावदाचार्यत्वहरणं, गणो ह्रियते इति भावः / एवमुपस्थापनाविषयो विधिर्निशीथादौ विस्तरेणाभिहितः / तदन्यथाकरणे प्रायश्चित्तम् / तच्च-' अप्पत्ते अकहिता' इत्यादि प्रस्तुतगाथयाऽत्र प्रतिपाद्यते / इति सैव साम्प्रतं प्रतन्यते / अप्राप्ते श्रुतेन पूर्वकाले शत्रपरिज्ञाध्ययनपर्यन्तेन सम्प्रति षड्जीवनिकायपर्यन्तेन पर्यायेण वा षण्मासादिकेन / तथा अकथयित्वा जीवाऽजीवान् बन्धं मोक्षं च / उपलक्षणमेतत तेन पृथिव्यादयो जोवाः / धर्माधर्माऽस्तिकायादयोऽजीवा आश्रवो बन्धः पुण्यं पापं संवरो निर्जरा मोक्षश्च / एतान्नवपदार्थान्