________________ यति-जीतकल्पे गच्छति, तदा तस्य सूत्रोक्तविधिनो प्रव्रज्या प्रदेया / ततस्तस्य प्रोसुक आहारो दीयते / स च भिक्षां न हिण्डाप्यते किन्त्वहिण्डमान एव ग्रहणशिक्षामासेवनशिक्षां च ग्राह्यते / ग्रहणशिक्षा नाम पाठः / आसेवनाशिक्षा-सामाचारीशिक्षणम् / यदा च द्विविधामपि शिक्षा ग्राहितोऽधीतषड्जीवनिकायाध्ययनम्व स स्यात् तदा तस्याग्रे तदर्थः कथ्यते / ततोऽधिगतोऽर्थोऽनेन सम्यक श्रद्धानविषयीकृतश्च यदि तदानीं तस्येत्थं परीक्षा क्रियते, यथा-उच्चारप्रश्रवणादिपरिष्ठापनार्थमस्थण्डिलं सचित्तपृथिवीकायात्मकं दयते / यदि तत्र न परिष्ठापयति स्थाननिषदनादि च न करोति, तदा ज्ञायते सम्यक् परिणतोऽस्य धर्म इति / एवमप्कायविषये नदीतटाकाादकसमीपे परीक्षा / तेजःकाये साऽग्निवसतौ प्रदीपमवष्वष्कय उत्ष्वष्कय वा / तथा वातविषये धर्मात्ततॊ भण्यते-तालवृन्तादिना बातोदीरणां कुरु, अभिधारणं वा कुरु, यदि न करोति तदा परिणतः / हरितकाये त्रसेषु च पृथिव्यामिव परीक्षा कार्या / एवं गोचरगतोऽपि पृथिव्यादिभिः कायैः परी श्यते, तद्यथा-सरजस्केनोदकाण वा हस्तेन मात्रकेण वा भिक्षा ग्राह्यते, इत्यादि परीक्षया त्रिविधत्रिविधेन, षड़जीवनिकायपरिहारी स यद्यवगम्यते तदा व्रतारोपणयोग्यः / ततो द्रव्यादौ प्रशस्ते तस्य आचार्येणास्मनो वामपार्श्वे स्थापितस्य व्रतारोपणरूपोपस्थापना यथाविधि विधेया / ततो दिग् निबध्यते द्विविधा, त्रिविधा वा। तत्र साधोद्विविधा / तद्यथा-आचार्यस्योपाध्यायस्य च / प्रतिन्यास्त्रिविधा / तद्यथाआचार्यस्योपाध्यायस्य प्रवर्त्तिन्याश्च / तथा-उपस्थापनानन्तरं तपः कार्यते / तच्चाऽभक्तार्थमाचारलं. निर्विकृतिकं वा / तथा द्वौ पितापुत्रौ प्रबजितौ यदि द्वावपि युगपत् प्राप्तौ, तर्हि युगपदुपस्थाप्यते / अथ पुत्रः सूत्रादिभिरप्राप्तः स्थविरस्तु प्राप्तस्तर्हि तस्योपस्थापना विधेया / यदि पुनः पुत्रः प्राप्तः, स्थविरस्त्वप्राप्तः तर्हि यावदुपस्थापनादिवसः शुद्धः समेति तावत् स्थविरः प्रयत्नेन शिक्ष्यते, यदि तावताः प्राप्तो भवति, ततो द्वोवपि युगपदुपस्थाप्यते / अथाऽऽदरेण शिक्ष्यमाणोऽपि,न प्राप्तस्तदा स्थविरेणानुज्ञाते. सति क्षुल्लक उपस्थाप्यते / अथ स्थविरो न मन्यते, तदा प्रज्ञापना कर्तव्या राजादिदृष्टान्तेन / स चैवम्ला '.एगो राया रजपरिभट्ठो सपुत्तो अन्नरायाणमोलग्गिउमाढत्तो। सो रायो पुत्तस्स तुट्ठो। तं से पुत्तं. रजि ठाविउमिच्छह / किं सो पिआ नाणुजाणइ ? / एवं तव जइ पुत्तो महब्बयरज्जं पावह सा किन मनसि ? / एवं प्रज्ञापितेन स्थविरेणानुज्ञाते क्षुल्लकस्योपस्थापना कर्तव्या / अथ स यद्येवं प्राप्यमानो नेच्छति तदा पञ्च दिवसान् यावत्तिष्ठन्ति / ततः पुनरपि प्रज्ञाप्यते / तथाऽप्यनिच्छायां पुनरपि : पश्चाहं तिष्ठन्ति / पुनः प्रज्ञाप्यते तथाऽप्यनिष्टौ भूयः पञ्चाहमवतिष्ठन्ते / एवं यदि त्रिपञ्चाहकालेन : स्थविरः प्राप्तो भवति, तदा युगपदुपस्थापना / अतः परं स्थविरेऽनिच्छत्यपि क्षुल्लक उपस्थाप्यते / अथाऽहङ्कारी सन्नहं पुत्रादवमतरो भविष्यामीति विचिन्त्य कदाचिदुन्निष्कामेत् / गुरोः क्षुल्लकस्य चोपरि प्रद्वेषं गच्छेत् / एवं स्वरूपे ज्ञाते त्रयाणां पञ्चाहानामुपर्यपि क्षुल्लकः प्रतीक्षाप्यते यावत्तेनाऽधीतमिति / एवं राजाऽमात्ययोः, राज्ञा च सह श्रेष्ठिसार्थवाहयोरपि वक्तव्यम् / एवं संयतीमध्ये मातादुहिनोईयोः, महादेव्यमात्यपन्योः, श्रेष्ठिसार्थवाहपत्न्योन्ध निरवशेषं वाच्यम् / ते चोपस्थाप्यमाना गुरोर्वामपार्श्वस्था. एकोऽनेको वा गजदन्तवदवनता भवन्ति / तत्र यदि ते गुरुसमीपमग्रतो वाऽभिसरन्ति तदा गज्छस्य, वृद्धिर्ज्ञातव्या / यथाऽन्येऽपि बहवः प्रव्रजिष्यन्ति / अथ पश्चाद् बहिर्वाऽपसरन्ति तदा स उपस्थाप्यमानोऽन्यो वा उन्निष्क्रमिष्यति अपद्रविष्यति बेति निमित्तम् / तथो-आचार्य उपाध्यायो वा सरन, माधुरयमुपस्थापना) जात इति जानानश्चतूरात्रमध्ये पञ्चरात्रमध्ये वा तन्नोपस्थापयति तत्र यदि