________________ साधु-चर्या हृदयमाच्छादयति / भाषमाणश्च पुनः पुनः सविभ्रम भ्रयुगमुत्क्षिपति / केशबन्धन-प्रावरणादिकं च स्त्रीवत् करोति / योषिदाभरणादिपरिधानं बहु मन्यते / स्नानादिकं च प्रच्छन्नं समाचरति / पुरुषसमाजमध्ये च सभयं शङ्कितस्तिष्ठति / स्त्रीसमाजे तु निःशङ्कितः प्रमदोचितं च रन्धनखण्डनपीषणादिकं कर्म प्रविधाति इत्यादि महिलास्वभावत्वं पण्डकलक्षणम् / अपरं च स्वरवर्णभेदः / उपलक्षणत्वाद् गन्धरसस्पर्शाश्च स्त्रीपुरुषापेक्षया विलक्षणास्तस्य भवन्तीत्यर्थः। मेंढूं-पुरुषचिह्नं महद्भवति / मृद्वी च वाणी ललनोया इव सञ्जायते / योषित इव सशब्दं मूत्रमभिजायते फेनरहितं च तद्भवति / एतानि षट् पण्डकलक्षणानि 1 / वातिको नाम यस्य मोहकर्मोदयेन सागरिकं सविकारं जातं सत् स्वभावस्थं न स्याद् यावदनाचारं नाऽचरति 2 / क्लीबः-क्लीब्यते इति क्लीबो गुणनिष्पन्ननामा, यस्य मैथुनाभिप्राये अङ्गादानं विकारं भजति बीजबिन्दूँश्च गलति / यदि निरुणद्धि तदा कालान्तरेण तृतीयः स्यात् 3 / यस्य तु वृषणौ श्वयतः-शोफं भजतः स कुम्भी / स च द्विधा-वातदोषेण यस्य सागारिकं वृषणौ वा श्वयति स जातिकुम्भी-रोगीत्यर्थः / यस्य पुनर्मोहोत्कटतया सागारिकं वृषणौ वाऽसेवमानः श्वयति, स वेदकुम्भी 4 / यस्य प्रतिसेवमानं दृष्ट्वा ईर्ष्याऽभिलाष उत्पद्यते, स ईर्ष्यालुर्वेदोस्कटः स्त्रीमलभमानस्तृतीयः स्यात् 5 / वेदोत्कटतया अभीक्ष्णप्रतिसेवनासक्तो गृहचटक इव शकुनी भवति।यो मैथनमासेवमानो बीजनिसर्गे जाते जिह्वया श्वान इव तदेव लेढि, स तत्कर्मसेवी सोऽप्यसेवकस्तृतीयः स्यात् 7 / यस्य शुक्लपक्षे शुक्लपक्षे अतीव मोहोद्भवः स्यात् द्वितीयपक्षे त्वल्पः / अथवा शुक्लपक्षे कृष्णपक्षे वा पक्षं यावदतीवोदयः स्यात् तावन्मात्रमेव च कालमल्पोदयः स पक्षिकापक्षिकः 8 / यः सागारिकं जिघ्रति तन्मलित्वा हस्तं जिघ्रति, तद्गन्धं च शुभं मन्यते, स सौगन्धिकः 9 / यः सागा. रिकं स्त्रीसागारिकेऽनुप्रवेश्य तिष्ठति, स आसिक्तः, सोऽपि मोहोत्कटतयातीव व्यसनी निरुद्धबस्तिः कालान्तरेण तृतीयः स्यात् 10 / एते पण्डकादयो दश नपुंसका नगरमहादाहसमानकामाध्यवसाय सम्पन्नत्वात् घ्याद्यासेवामाश्रित्यातीवाशुभाध्यवसायवत्त्वाच दीक्षाऽनर्हाः। शेषाः पुनः षट् वर्द्धितादयो नपुंसका निशीथोक्तविशेषलक्षणसम्भवे प्रव्रज्यायोग्याः। तेषामिदं स्वरूपम्-आयत्यां राजान्तःपुरमहलकपदप्राप्यादिनिमित्तं यस्य बालत्वेऽपि छेदं दत्त्वा वृषणौ गालितौ भवतः, स वर्द्धितकः / यस्य तु जातमात्रस्याङ्गष्टाङ्गलिमिर्मईयित्वा घृषणौ द्राव्येते, स चिप्पितः / एतयोश्चैवं कृते सति किल नपुंसकवेदोदयः सम्पद्यते / कस्यचितु मन्त्रसामर्थ्यादन्यस्य त्वौषधिसामर्थ्यात् पुरुषवेदे स्त्रीवेदे वा समुपहते सति नपुंसकवेदः समुदेति / अपरस्य तु मदीयतपःप्रभावान्नपुंसको भवत्विति ऋषिशापादन्यस्य तु देवशापात्तदुदयो जायते इति / एतेषामष्टचत्वारिंशतः प्रव्रज्यानर्हाणामुत्सर्गापवादपदाभ्यां प्ररूपणा प्रकल्पे प्रदर्शिता विस्तरेण सा तत एवावसेया / एतेभ्योऽपरे सर्वेऽपि जातिकुलविनयादिगुणसम्पन्ना बहुक्षीणप्रायकांशाः प्रव्रज्याया योग्या मन्तव्याः / यश्च प्रव्रज्यार्थमुपस्थितो भवति, स एवं पृच्छचते-कोऽसि त्वं ? किं निमित्तं प्रव्रजसि ? किञ्च ते वैराग्यमिति पृष्टो यदि शुद्धोऽवगतः, ततस्तस्याग्रे साधुचर्या एषा कथ्यतेयावजीवं गोचरचर्यया मिक्षामटित्वाऽचित्तस्यैषणाविशुद्धस्याहारस्य भोजनं कर्तव्यम् / तदपि बालवृद्ध शक्षकादि-संविभागेन / नित्यं चतुष्कालं स्याध्यायो विधातव्यः / यावज्जीवं देशतः सर्वतश्चाऽस्नानम् / ऋतुबद्धे काले भूमौ शय्या, वर्षा रात्रे फलकादिशयनं / दिवसे न स्वतव्यं, रात्रौ तृतीये यामे निद्रामोक्षः / भवादश शीलासहस्रा धरणीयाः / लोचादिकाः शा अनेके कार्याः / एवमुक्ते यदि स सर्वमभ्युपा