________________ दीक्षाया अयोग्याः पृच्छति तदा मासगुरु / तृतीयदिवसेऽप्यप्रच्छने च चत्वारो लघुमासाः। चतुर्थेऽपि दिवसे यदि न पृच्छति * तदा चतुर्गुरु / पश्चमादिष्वपि दिवसेष्वप्रच्छने तदेव चतुर्गुरु / सोऽपि पृष्टः सन् यदि ब्रूते-कथयिष्यामि तदा तस्यापि प्रथमदिवसे मासलघु, द्वितीयदिवसे मासगुरु, तृतीयदिवसे चतुर्लघु, चतुर्थदिवसेऽप्यकथने. चतुर्गुरु, पञ्चमादिष्वपि तदेव चतुर्गुरु / अथवा प्रथमदिवसे श्रान्त इति कृत्वा न पृष्टस्तत आचार्यः शुद्धः, कारणवशेनाऽप्रच्छनात् / द्वितीयदिवसे न पृच्छति मासगुरु, तृतीये न पृच्छति चतुर्लघु, चतुर्थे दिवसे चतुर्गुरु / एवं तेनोपसम्पद्यमानेन पृष्टेनाऽपृष्टेन वा आख्यातं यदहममुकेन कारणेन समागत इति / तत आगतश्चिन्तनीयः शुद्धोऽशुद्धो वा / अत्र चत्वारो भङ्गाः / तद्यथा-निर्गमनमप्यशुद्धमागमनम-, प्यशुद्धं 1, निर्गमनमशुद्धमागमनं शुद्धं 2, निर्गमनं शुद्धमागमनमशुद्धं 3, निर्गमनमपि शुद्धमागमनमपि शुद्धं 4 / तत्र निर्गमनं पूर्वोक्तैरेकाकि-गुरुत्यागादिभिर्वक्ष्यमाणैश्चाधिकरणादिभिर्दोषैरशुद्धम् / आगमनं तु बजिकादिषु प्रतिबन्धेनाशुद्धम् / तत्रापि प्रतिबन्धनिमित्तं प्रायश्चित्तं सूत्रानुसारतो वक्तव्यम् / चतुर्थभास्तु निर्दोष इत्यादि / एतद्वक्तव्यता विस्तरतो निशीथादिमहाग्रन्थेभ्योऽवसेया / एवं ज्ञानाशुपसम्पन्निमित्तागतशिष्यदोषविषयं प्रायश्चित्तमुक्तम् / अथ नवप्रव्रजितशिष्याऽविध्युपस्थापनाविषयमोह= अप्पत्ते अकहित्ता जीवाजीवे अ बंधमुक्खं च / उवठावणि चउगुरुगा विराहणा जा भणिअपुब्धि / / व्याख्या-उपस्थापना तावत् प्रबजितस्य स्यात् / प्रव्रज्या च योग्यानामेव देया, न स्वयोग्यानाम् / यत उक्तं-' पवावणारिहा खलु जाईकुलरूवविणयसंपन्ना / तब्धिवरीअगुणा खलु हुंति अपव्वाषणाजुग्गा' // अथ चैतेऽष्टचत्वारिंशदयोग्याः प्रव्रज्यायाः। - अद्वारस पुरिसेसुं वीसं इत्थीसु दस नपुंसेसु / पव्वावणा अणरिहा अनला अह इत्तिआ भणिआ॥ बाले वुड्ढे नपुंसे अ जड्डे कीबे अ वाहिए। तेणे रायावगारी अ उम्मत्ते अ अदसणे // .... दासे दुढे अ मूढे अ अणत्ते जुंगिए इअ / उबद्धये अ भयए सेहनिप्फेडिआइआ // गुब्विणी बालवच्छा अ पव्वावेउं न कप्पइ / एएसिं तु परूवणा कायव्वा दुपयसंजुत्ता' / एतेषां लेशतोऽयमर्थः-पुरुषेषु मध्येऽष्टादश, स्त्रीषु विंशतिः, नपुंसकेषु दश, एतेऽष्टचत्वारशत् प्रजाजनाया अनर्हाः / अनला-अयोग्या एतावन्तो भणिताः, तद्यथा-बालः सप्ताष्टौ वर्षाणि यावदनाभिधीयते / सप्ततिवर्षेभ्य उपरि वृद्धः / अन्ये त्वाहुः-अर्वागपीन्द्रियादिहानिदर्शनात् षष्टिवर्षेभ्योऽप्यपरि वृद्धोऽभिधीयते / न स्त्री, न पुमान् नपुंसकम् / जडस्तु विधा-भाषया शरीरेण करणेन च / भाषाजहः पुनरपि विधा-जल-मूको, मन्मनमूक, एलकमूकः / तत्र जलनिमग्न इव युडबुडायमानो यो वक्ति स जलमूकः / यस्य वदतः खल्यमानमिव वचनं स्खलति, स मन्मनमूकः / यस्त्वेलक इवाव्यक्तं मूकसया शब्दमात्रमेव करोति, स एलकमूकः / यः पथि भिक्षाटने वन्दनादिषु वाऽतीव स्थूलतयाऽशक्तो भवति, स शरीरजहः / करणं-क्रिया तस्यां जडः करणजडुः समितिगुप्तिप्रतिक्रमणप्रत्युपेक्षणासंयमपालनादि-क्रियां पुनः पुनरुपदिश्यमानामप्यतीव जड़तया यो ग्रहीतुं न शक्नोति, स करणजडू इत्यर्थः / या स्त्रीमि गैनिमन्त्रितोऽसंवृताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्ट्वा, शब्दं च मन्मनालापादिकं तानां श्रुत्वा