________________ पति-जीतकरूपे सच तेषां प्रतिजागरकः। अथवा पश्चात्तत्र गच्छे एको ग्लानोऽधुनोत्पन्नरोगः, स च तस्य बिन्ताकारी। यदि वा एको बहुरोगी, बहुरोगी नाम चिरकालं बहुभिर्वा साधारण रोगैर्जाप्यशरीरः, स च तस्य वर्तापकः / यदि वा पश्चात्तनाचार्यपरिवारः सर्वोऽपि मन्दधर्मा-निर्धर्मा न गुर्वाज्ञां करोति, केवलं तद्भयात् किमपि करोति / तथा गुरुणा समं प्राभृतं-कलहं कृत्वा समागतः। अथवा प्राभृतकारिणस्तस्य शिष्याः तस्यैव गुणेन प्राभृतं न कुर्वन्ति / तस्यैव वा संयतहिमिर्वा सह प्राभृतमस्ति / यदि वा पश्चात्तत्र गुरोः केनापि सह प्राभृतमस्ति / स च क्रमेणापनयनतो गुरोः साहाय्यकारी / एवं प्राग वर्तमाने यदि समागतः स्यात् / इदमुक्तं भवति-पश्चादेकाकिनम् , अपरिणतम् , अल्पाधारं, स्थविरं, गुरुं परिवार वा ग्लानं, बहुरोगिणं, निर्द्धर्मपरिवारं वा आचार्य विमुच्य प्राभृतं वा कृत्वा यदि समागतो भवेत्तर्हि स न प्रतिग्राह्यः / केवलमयमुपदेशस्तस्मै प्रदातव्यस्तमेवाह-- , एआरिसं विउसज विप्पवासो न कप्पई / सीसपडिच्छायरिए पायच्छित्तं विहिजई.॥२९॥ व्याख्या-एतादृशमेकाक्यादि स्वरूपं गुरुमन्यं वा ग्लानादिकं व्युत्सृज्य-परित्यज्य विशेषेण प्रकासोऽन्यत्र गमनं विप्रवासो भद्र ! तव न कल्पते / बहुगुणाधारो भवान् कथमीदृशं कृतवान् / / सस्मादद्यापि प्रायश्चित्तं प्रतिपद्य पश्चाद्गच्छ / स च समागतस्तस्य प्राक्तनाचार्यस्य शिष्यो वा स्यात् प्रतीच्छको वा / एवमागतमुपसम्पद्यमानं योऽप्याचार्यः प्रतीच्छति सोऽपि प्रायश्चित्तभाक् / ततः शिष्यप्रतीच्छकाचार्याणां प्रायश्चित्तं विवक्षुरिदमाह- सीसपडिच्छायरिए' इत्यादि / शिष्ये प्रतीच्छके आचार्ये च प्रायश्चित्तं विधीयते / प्रायश्चित्तदानविधिरुच्यत इति भावः / प्रतिज्ञामेव निर्वाहयति-- एगे गिलाणि पाहुडि तिण्ह वि गुरुगाओ सीसमाईणं / सेसे सीसे गुरुगा लहुग पडिच्छे गुरू सरिसं / / व्याख्या-एकस्मिन् एकाकिनि गुरौ, ग्लाने वा तत्र गच्छे तिष्ठति, प्राभृते वा केनापि सहाऽधिकरणे सति यदि समागतः शिष्यः, प्रतीच्छको वा आचार्येण वा तथा समागतः सन् यदि प्रतीच्छितः तदा शिष्यादीनां-शिष्य-प्रतीच्छका-ऽऽचार्याणां त्रयाणामपि गुरुकाश्चत्वारो गुरुमासाः / यः पुनरन्यः शेषो-ऽपरिणता-ऽल्पाधार-स्थविर-बहुरोग-मन्दधर्म-परिवारलक्षणस्तस्मिन् शेषे यदि समागतः शिष्यस्तस्य प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः / अथ प्रतीच्छकः समागतः तर्हि तस्य लघुकाश्चत्वारो लघुमासाः / 'गुरू सरिसमिति गुरोरपि सदृशं प्रायश्चित्तं, किमुक्तं भवति-यदि शिष्यं प्रतीच्छति ततः प्रायश्चित्तं चत्वारो गुरुमासाः / अथ प्रतीच्छकं तर्हि चत्वारो लघुका इति / अथवा प्राभृते इदं प्रायश्चित्तम् - सीसपडिच्छे पाहुडि छेओ राइंदिआणि पंचेव / आयरिअस्स उ गुरुगा दोवेए पडिच्छमाणस्स // 31 // व्याख्या-यदि प्राभृते-गुरोः शिष्यस्य वा केनापि सहाधिकरणे वर्तमाने शिष्यः प्रतीच्छको वा समागतस्तदा तस्य शिष्यस्य प्रतीच्छकस्य वा प्रायश्चित्तं पश्च रात्रिंदिवानि पर्यायस्य छेदः / आचार्यस्य पुनावप्येतौ प्रतीच्छतः-प्रतिगृह्णतः प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः / तथा यः समनोज्ञ उपसम्पदनार्थमागतस्तं यद्याचार्यः प्रथमदिवसे न पृच्छति, यथा-कुतः आगतः 1 , कुत्र वा गमिष्यसि 1 , किं निमित्तं वा समागतः ? इति / ततस्तस्यैवमप्रच्छने प्रथमदिवसे मासलघु / द्वितीयदिवसेऽपि यदि न