________________ अपात्राणां सूत्रार्थदाने प्रायचितम् * अव्वत्ते अप्पसे लहुगा लहुगा य हुंति अप्पत्ते / लहुगा य हुति तितिणि रसतितिणि हुंतऽणुग्धाया // ___ व्याख्या-अव्यक्तः-तरुणधर्मा तस्य, तथा -- अप्पत्ते 'त्ति / अपात्राणामेकादशसङ्ख्याकानां सूत्रार्थी यदि ददाति तदा चत्वारो लघुकाः। 'लहुगा य हुंति अप्पत्ते 'त्ति / अप्राप्त-आद्यदृष्टभावस्तस्य ददाति चत्वारो लघुकाः। अत्रैव विशेषमाह- लहुगा य हुंति तितिणि ' इत्यादि / तिन्तिणिकस्य-शिक्षातिन्तिणिकस्य उपधितिन्तिणिकस्य शय्यातिन्तिणिकस्य ददाति चत्वारो लघवः। आहारतिन्तिणिकस्य पुनर्विशेषमाह-रसतितिणि हुंतऽणुग्घाया' इति / रसतिन्तिणिकस्य-व्याख्यातो विशेषप्रतिपत्तेराहारतिन्तिणिकस्य ददाति चत्वारोऽनुद्घाता-गुरव इत्यर्थः / अयमुत्सर्गनिश्चयः-* मरिज सह विज्जाए कालेणं आगए विदू / अप्पत्तं च न वाइज्जा पत्तं च न विमाणए' // कारणैः पुनरपवादपदेनैतानपि वाचयन्न प्रायश्चित्तभाग् भवति / तच्चापवादपदं निशीथादिमहाग्रन्थेषु विस्तरेणाभिहितं तत एवावसेयम् / इह तु प्रन्थगौरवभयानोच्यते / एवं पूर्वमुद्दिष्टानामव्यक्ताऽपात्राऽप्राप्तानां विभागेन प्रायश्चित्तं प्रतिपादितम् / अथ पूर्वोक्तपिशुनविषयं प्रसङ्गागतं विशेषमाह- .. पीईसुमणि पिसुणे गुरुगाइ चउण्ह जाव लहुगो उ / अहवा संतासंते लहुओ लहुगा गिहेसु गुरुगा // व्याख्या-पीईसुन्नणि 'त्ति / अलीकानि इतराणि वा परदूषणानि भाषमाणः प्रीति शून्यां करोतीति पिशुनो, नैरुक्ती शब्दनिष्पत्तिः / स च यद्याचार्यस्य पैशुन्यं करोति तदा चतुर्गुरु, उपाध्यायस्य करोति चतुर्लघु, भिक्षोः करोति मासगुरु, क्षुल्लकस्य करोति मासलघु इति कल्पचूर्ण्यभिप्रायः / निशीथचूर्ण्यभिप्रायेण तु यद्याचार्यः पैशुन्यं करोति तदा चत्वारो गुरवः , उपाध्यायः करोति चत्वारो लघवः, मिक्षुः करोति मासगुरु, क्षुल्लः करोति मासलघु / अमुमेवा) सञ्जिघृक्षुराह-'गुरुगा' इत्यादि / चतुर्णामाचार्योपाध्यायभिक्षुक्षुल्लकरूपाणां पैशुन्यकरणं विषयभूतानां कर्तृभूतानां वा यथाक्रमं गुरुकादयो यावल्ल'घुको मासः प्रायश्चित्तम् / अथवेति प्रकारान्तरोपन्यासे / सामान्यतः संयतः संयतेषु पैशुन्यं करोति / तत्रासद्दूषणविषये पैशुन्ये चत्वारो लघवः / सद्वृषणविषये लघुको मासः / एते एव प्रायश्चित्ते गृहिषु गुरुके अवसातव्ये, तद्यथा - गृहस्थेषु असद्भिदोषैः पैशुन्यं करोति चत्वारो गुरवः / सद्भिः करोति गुरुमासः / एवं प्रासङ्गिकं प्रतिपादितम् / सम्प्रति ज्ञानाधुपसम्पन्निमित्तमागतः शिष्यो यदोषः प्रतीच्छनीयो न स्यादिति तानाहएगे अपरिणए वा अप्पाहारे अ थेरए / गिलाणे बहुरोगी अ मंदधम्मे अ पाहुडे // 28 // ___ व्याख्या-यदि एक-एकाकी पश्चादाचार्यः। यदि वा अपरिणतः-कथमपि गृहीतैरकल्पिकैर्वमादिमिः सहितः / अथवा तस्याचार्यस्य पार्श्व ये तिष्ठन्ति, ते अपरिणता-आहारवस्त्रपात्रशय्यास्थण्डिकानामकल्पिकास्तैः सहितः, स च कल्पिकवस्त्राद्युत्पादने लब्धिमान् / अथवा स आचार्योऽल्पाधार:. अल्पस्य सुत्रस्यार्थस्य आधारः सूत्रार्थनैपुणविकलः शङ्कितसूत्रार्थों वा, सूत्रार्थकथननिपुणं तमेव शिष्य पृष्ट्वा शेषसाधुभ्यो वाचनां ददाति / यदि वा आचार्यः परिवारो वा स्थविरो-जरसा वृद्धशरीरोऽजङ्गमः ,