________________ यति-जीतकल्पे उपलक्षणत्वादपरेऽप्यपात्रभूताः शिष्या ज्ञेया, यथा आद्यऽदृष्टभावः 1 / अकृतसामाचारीकः 2, तरुणधर्मा 3, गर्वितः 4, प्रकीर्णप्रज्ञविद्यः 5, गुरुनिह्नवी 6 / तत्राऽऽवश्यकादि-सूत्रकृताङ्गपर्यन्तेषु ग्रन्थेषु ये भावाः-पदार्था आभधेयास्ते आदिमा भावा येनाऽवगतो न सन्ति, स आद्यऽदृष्टभावः / 1 / ज्ञानोपसम्पदि सूत्रार्थमण्डलीविषयां सामाचारी शास्त्रान्तरविस्तरोक्तां यो न करोति स्म, सोऽकृतसामाचारीकः / 2 / यस्य श्रुतस्य यो यावान् काल:-'तिवरिसपरिआयस्स उ' इत्यादिगाथाकदम्बकप्रतिपादितस्तस्य तावन्तकालमसमापयन् तरुणधर्मा भवति / 3 / गर्वितो यः श्रुतमधीयानः तदवलेपादेव दुर्विनीतो भवन्नुपलभ्यते, तादृशे पुरुषे आचारादि श्रुतजातं स्तोकमात्रमपि नाचक्षीत / यतः-परिकर्तितकर्णहस्तस्य पुरुषस्य कुण्डल-कङ्कणाद्याभरणं दीयमानं न शोभेत / विशेषेणाऽयमयोग्यः / यदुक्तम् - 'मद्दवकरणं नाणं तेणेव उ जे मयं समुवयंति / ऊणगभायणसरिसा अगदो वि विसायए तेसिं' // 4 / योऽर्थमण्डल्यां राहसिकग्रन्थार्थ श्रत्वा उत्थितः सन् अपरिणतानां लेशोदेशतः कथयति / यथा अमुकं प्रलम्बग्रहणादिकमत्र सूत्रेण कल्पनीयतया कथ्यते स प्रकीर्णप्रज्ञः / प्रज्ञाशब्देनेह प्रकर्षण ज्ञायते उत्सर्गापवादतत्त्वमनयेति व्युत्पत्त्या छेदश्रुतान्तर्गता रहस्यवचनपद्धतिरुच्यते, सा प्रकीर्णा-विक्षिप्ता / येन स प्रकीर्णप्रज्ञः। तथा प्रकीर्णविद्यः-यः सर्वमप्यादेरारभ्य पर्यन्तं यावत् छेदश्रुतमुत्सर्गापवादसहितमपरिणतानां कथयति स प्रकीर्णविद्यः, विद्याशब्देन चात्राऽखण्डं छेदश्रुतमभिधीयते / 5 / यः पुनः सूत्रार्थतदुभयानि कस्यचित् पार्श्व गृहीत्वा तमाचार्य निनुते-अपलपति / अपरं कमपि विख्यातगुणमाचार्यमुद्दिशति / अथवा ब्रूयात् मया स्वयमेवाभ्यूह्य श्रुतं निर्णीतं केवलं तैर्वाचनाचार्मम दिग्मात्रमेव दत्तमिति / अत्र परिव्राजकज्ञातं, तच्चेदम्-'एगस्स हाविअस्स छुरघरगं विज्जाए आगासे चिट्ठइ / तं च एगो परिव्वायगो बहूहिं उवासणाहिं आराहिऊण तस्स सगासे विज्जं गिहित्ता अन्नत्थ गंतुं तिदडेणं आगासगएणं अच्छइ / तओ सो लोगेणं पुइज्जइ / अन्नया रन्ना पुच्छिओ-भगवं ! किं विज्जाइसओ उआहु तवाइसओ ? भणइ विज्जाइसओ / कओ आगमिओ त्ति ? भणइ-हिमवंते पव्वए फलाहारनामस्स महरिसिस्स सगासाओ त्ति भणिए तं तिदंडं खडत्ति पडिअं' एस दिळंतो / अयमत्थोवणओ, जहा-'सो पहाविअं विज्जायरिअं निण्हवितो ओहावणं पत्तो' एवं अन्नेवि अप्पगासपि वायणायरिअं निण्हविता इहलोए चेव बहूणं समणसावगाईणं हीलणिज्जा भवंति, देवयाहि अ छलिजंतीति / 6 / अत्र च तिन्तिणिक-चलचित्त-गाणङ्गणिक-दुर्बलचारित्रा-ऽऽचार्यपरिभाषि-वामावर्त-पिशुना-ऽकृतसामाचारीक-गर्वित-प्रकीर्ण-निह्नविन एकादशाऽपात्रभूताः शिष्योः / आदिमादृष्टभावोऽप्राप्तः , तरुणधर्मा पुनरव्यक्तः / अनयोः स्वरूपं प्राक् प्रतिपादितम् / तत्रेदं तात्पर्यम्-अव्यक्तो द्विधा-पर्यायेण श्रुतेन च / तत्र पर्यायो द्विधा-जन्मतः प्रव्रज्यातश्च / तत्र जन्मतो यावत् षोडशवर्षाणि तावदव्यक्तः, प्रव्रज्यातस्तु यावत् त्रीणि वर्षाणि तावदव्यक्तः। प्रकल्पाध्ययनस्य यो वा यस्य श्रुतस्य कालः प्रोक्तस्तमप्राप्तोऽव्यक्तस्तस्य श्रुतस्य / श्रुतेन पुनरावश्यकेऽनधीते दशवैकालिकस्याव्यक्तः / दशवैकालिकेऽनधीते उत्तराध्ययनानामव्यक्तः / एवं सर्वत्र / अत्र पर्यायश्रुताभ्यां चतुर्भङ्गो कार्या / तद्यथा-पर्यायेण श्रुतेन च व्यक्तः प्रथमः, पर्यायेण व्यक्तः श्रुतेन त्वव्यक्तो द्वितीयः, पर्यायेणाव्यक्तः श्रुतेन तु व्यक्तस्तृतीयः , द्वाभ्यामप्यव्यक्तश्चतुर्थः / प्रथमभङ्गे व्यक्तः शेषेषु त्रिष्वपि भङ्गेष्वव्यक्तः / स एव च यथायोगमादिमादृष्टभोवतरुणधर्मतयाऽत्रगन्तव्यः // 25 // अथैषां सूत्रार्थप्रदाने प्रायश्चित्तमाह