________________ अपात्रशिष्यस्वरूपम् यित्वा द्वादशभ्यो वा वर्षेभ्य ऊवं निष्कारणं गणाद् गणं सङ्क्रामति यदि, तदा गाणङ्गणिकः स्यात् / कारणे तु ज्ञानदर्शनचारित्राणामन्यतरस्मिन् पुष्टालम्बने समुत्पन्ने मध्ये द्वादशवर्षमन्तःषण्मासं वा गणाद्गणं सङ्कामन्नपि न प्रायश्चित्तभाग भवति / अथ दुर्बलचारित्रः यो धृतिवीर्यपरिहीणो दर्शनज्ञानादिपुष्टालम्बनं विनो मूलगुणोत्तरगुणविषयानपराधान् प्रतिसेवते, कथं / पञ्चकादि यावच्चरमम् / इह पश्चकशब्देन यत्र प्रतिसेविते रात्रिंदिवपञ्चकमापद्यते स सर्वजघन्यश्चरणापराधः परिगृह्यते / आदिशब्दादशरात्रिंदिवादिप्रायश्चित्तस्थानानि यावच्चरमं सर्वोत्कृष्टचरणापराधलक्षणं पाराश्चिकप्रायश्चित्तस्थानं स एष दुर्बलचारित्रः / उक्तं च___ 'मूलगुणे उत्तरगुणे पडिसेवइ पणगमाइ जा चरिमं / धिइवीरिअपरिहीणो दुब्बलचरणो अणटोए' / / एवंविधस्य छेदश्रुतार्थदाने दोषबाहुल्यं / यदुक्तम् 'पंचमहव्वयभेओ छक्कायवहो अ तेणणुन्नाओ। सुहसीलविअत्ताणं कहेइ जो पवयणरहस्सं' / / तेनाऽऽचार्येण पञ्चमहाव्रतभेदः षट्कायवधश्चानुज्ञातः , ये सुखशीलाऽव्यक्तानां-सुखं शरीरशुश्रूषादिकं शीलयन्तीति सुखशीलाः पार्श्वस्थादयः / अव्यक्ताः श्रुतेन वयसा च / सुखशीलाश्चाव्यक्ताश्चेति द्वन्द्वस्तेषां / यद्वा-सुखे-शरीरसौख्ये शीलं-स्वभावो व्यक्तः-परिस्पष्टो येषां ते सुखशीलव्यक्तास्तेषाम् / अथवा सुखंमोक्षसौख्यं तद्विषयं यत् शीलं-मूलोत्तरगुणानुष्ठानं ततो विगतो यत्न-उद्यम आत्मा वा येषां ते सुखशीलवियत्नाः सुहशोलव्यात्मानो वा तेषामुभयत्रापि पार्श्वस्थादीनामित्यर्थः / प्रवचनरहस्यं छेदग्रन्थार्थतत्त्वं कथयति / एवं दुर्बलचारित्रो व्याख्यातः / अथाऽऽचार्यपरिभावी-कश्चित् कुशिष्यः सूचया असूचया वा आचार्य परिभवति / सूचा नाम स्वव्यपदेशेन परस्वरूपसूचनं, यथा-कोऽपि वयसा परिणतः साधुबलकमाचार्य ब्रवीति / अद्यापि डहरा-बालका वयं किं नामास्माकमाचार्यपदस्य योग्यत्वमिति / असूचास्फुटमेव परदोषोद्घट्टनं, यथा भो आचार्य ! त्वं तावदद्यापि डहरो मुग्धः क्षीरकण्ठो वर्तसे / अतः कीदृशं भवत आचार्यत्वमिति / योऽकुलीन आचार्यस्तमुद्दिश्य भणति ' अहो ! उत्तमकुलसम्भूता अमी योग्या एवाऽऽचार्यपदस्य, वयं तु हीनकुलोत्पन्नाः कुतोऽस्माकं सूरिपदयोग्यता / यद्वा-धिक कष्टं यदकु. लीनोऽप्ययमाचार्यपदे निवेशित इति / एवं मेधावी मन्दमेधसम् , ईश्वरप्रव्रजितो दरिद्रप्रव्रजितं, बुद्धिसम्पन्नो मन्दबुद्धिं, लब्धिसम्पन्नो मन्दलब्धिम् आचार्य सूचया असूचया च परिभवतीत्याचार्यपरिभावी / उक्तं च____ 'डहरो अकुलीणुत्ति अ दुम्मेहो दमगमंदबुद्धी अ। अवि अप्पलाभलद्धी सीसो परिहवइ आयरिशं'। रायणिअपारिभासीतिपाठे तु रात्निको-रत्नाधिको रत्नैः-ज्ञानदर्शनचारित्ररूपैः परमपुरुषार्थप्रापणप्रवणश्वरति-व्यवहरतीतीकणि रात्निको-रत्नाधिक आचार्यादिस्तं प्रत्यवज्ञावचनादि परिभाषत इत्येवंशीलो गनिकपरिभाषी। अथ वामावर्त्तः-यः शिष्य आगच्छेति भणितः सन् व्रजति, व्रति भणितः सन् शीघ्र समालीयते / एवमन्यदपि कार्य यद्यथा भण्यते तत्तथा न करोति, स वामावर्त्तः / उक्तं च 'एहि भणिओ उ वच्चइ वच्चसु भणिओ दुअं समलिअइ / जं जह भणइ तं तह अकरितो वामवट्टो अ' / / अथ पिशुन:-अलीकानीतराणि वा परदूषणानि भाषमाणः प्रीतिं शून्यां करोतीति वक्ष्यमाणलक्षणः /