________________ यति-जोतकल्पे शीलमस्येत्यसत्प्रलापी 1, असभ्यं-सभायाः ‘धम्मत्थसत्थकुसला सभासया जत्थ सो सभा नाम / जा पुण अविहिपलुट्टा बुहेहिं सा भण्णए मेली // ' इत्युक्तलक्षणाया योग्यं यद्वचनं तत् सभ्यं, तद्विपरीतमसभ्य दास-चण्डाल इत्यादिकं ग्राम्यवचनं, कर्कशं कटुकं निष्ठुरं जकारमकारादि वा तत् प्रलपितुं शीलमस्येत्यसभ्यप्रलापी 2, किमिदं पूर्वापरविरुद्धं किं वा इहपरलोकबाधकमित्याद्यविमृश्य यद् वदति तद्वचनमसमीक्षितं तत्प्रलपनशीलोऽसमीक्षितप्रलापी 3, कार्यस्य विनाशं दृष्ट्वा कश्चिद् भणति-यथामया पूर्वमेव विज्ञातमिदं कार्यमेवं भविष्यति / यथा केनचित् साधुना पात्रं लेपितं, ततो रूढं सत् कुतोऽपि प्रमादतो भग्नं, ततः कश्चिदात्मनो दक्षत्वं ख्यापयन् ब्रवीति-यदेवेदं परिकर्मयितुमारब्धं तदेव मया ज्ञातं, यथेदं निष्पन्नमपि भक्ष्यते / एष एवंविधोऽदेशकालेऽनवसरे प्रलपनशीलोऽदेशकालप्रलापी 4 / भावचञ्चलः पुनर्यत् श्रुतमारब्धं तस्य पारमप्राप्तः सन्नपरापरश्रुतद्रुमाणां सूत्रार्थलवपल्लवान् स्वरुच्या ग्रहीतुं शीलमस्येति पल्लवग्राही / एषां गतिचञ्चलादीनामाज्ञादयो दोषाः संयमात्मविराधना च / तत्र संयमविराधना गतिचञ्चलस्य त्वरितं गच्छतः पृथिव्यादीनां कायानामुपमर्दनम् , आत्मविराधना प्रपतनप्रस्खलनदेवताछलनादिका / एवं स्थानचञ्चलादिष्वप्युपयुज्याऽऽत्मसंयमविराधने वक्तव्ये / कारणेन तु गतिचञ्चलत्वाद्यपि न दोषाय, यथा-स्तेनश्वापदभयेन द्रुतमपि गच्छेन्न दोषः / ग्लानो वा कश्चिदागाढस्तस्यौषधानयननिमित्तं शीघ्रमपि गच्छेन्न च प्रायश्चित्तमाप्नुयात् / उन्मत्तयक्षाविष्टादिः स्थानचञ्चलत्वमपि कुर्यान्न च प्रायश्चित्तमाप्नुयादनात्मवशत्वात् / वादिनो बुद्धिं पराभवितुमलीकमपि ब्रूयात, यथा-रोहगु. प्तेन पोट्टशालपरिव्राजकमतिव्यामोहनार्थं जीवा, अजीवा, नो जीवाश्चेति त्रयो राशयः स्थापिताः। तथा पण्डकादेः शैक्षस्य व्युत्सर्जने विधेये तन्निर्भर्त्सयनसभ्यमपि भणेत् येनोद्वेजितः स्वयमेव गणान्निष्क्रम्य गच्छेत् / आचार्या वा कुतश्चित् प्रमादस्थानान्नोपरमन्ते ततोऽदेशकालप्रलापित्वमपि कुर्यात् / यथा क्षमाश्रमणा ! अमुकः संयतो अमुकश्च श्रावको मम पुरत इदं भणति, यथा-त्वदीया गुरवः पावस्थीभवन्तः सम्भाव्यन्ते / एतच्च मया पूर्वमपि विज्ञातमासीत् , यथा-क्षमाश्रमणानामेवमाचरतामपवादो भविष्यति / एवमुक्ते तेऽश्लोकभयेनैवोपरमन्ते / बालो वा केलिकन्दर्पादि कुर्वाणो वार्यमाणोऽपि न निवर्त्तते ततोऽनूहितमपि यदपि तदपि भाषित्वा वारणीयः / प्रत्यनीकादयो वा खरपरुषादिभाषणैरुपशमयितव्याः / तथा कस्याप्याचार्यस्यापूर्व सूत्रमर्थो वा विद्यते तस्योभयस्यापि तत्पादिनधीयमानस्य व्यवच्छेदो भवति / अतः पूर्वारब्धं शास्त्रमर्धपठितमपि मुक्त्वा तदुभयमप्यध्येतव्यमिति यथाक्रमं गतिस्थानभाषाभावचञ्चलेषु द्वितीयपदम् / एवं चलचित्तश्चतुर्धा प्रोक्तः / यदुक्तम्'गइठाणाभासभावे लहुगो मासो उ होइ इक्केि / आणाइणो अ दोसा विराहणासंजमायाए / / दावदविओ गइचंचलो थाणचवलो इमो तिविहो / कुड्डादस किं फुसइ भमइ व पाए व विच्छुभइ / / भासाचवलो चउहा असत्ति अलिअं असोभणं वावि / असभाजुग्गमसभं अणूहिउं तंतु असमिक्खं / / कजविवत्तिं दद्रुण भणइ पुवि मए उ विनायं / एवमिणं तु भविस्सइ अदेसकालप्पलावी अ॥ जं जं सुअमत्थो वा उद्दिट्ट तस्स पारमप्पत्तो। अण्णण्ण सुअदुमाणं पल्लवगाही उ भावचलो' / इति चलचित्तो ब्याख्यातः / अथ गाणङ्गणिकस्तस्येदं स्वरूपम्-' उपसंपन्नः साधुः कारणाभावे पण्मासानपूरयित्वा यद्यकस्माद् गणात् परं गणं सङ्क्रामति, षण्मास्याः परतो वो यावत् द्वादश वर्षाण्यपूर