________________ तिन्तिणिकादि: अपात्रम् वा करोति तस्य चतुर्गुरवः / तथा प्राप्तपात्रव्यक्तानां च यो वाचनां न ददाति उद्देशादींश्च न करोति तस्यापि चतुर्गुरवः / अथाप्राप्ताव्यक्तयोः स्वरूपं सुखावसेयमिति तदनभिधायाऽपात्रस्वरूपं सूत्रकृदेवाहतितिणिए चलचित्ते गाणंगणिए अ दुब्बलचरिते / आयरिअपारिभासी वामावट्टे अपिसुणे य // 25 / / ___व्याख्या-तिन्तिणिकः चलचित्तः गाणङ्गणिकश्च दुर्बलचरित्रः आचार्यपरिभाषी आचायपरिभावी वा, वामावर्त्तश्च पिशुनश्च / तत्र तिन्तिणिको द्विधा-द्रव्यतो भावतश्च / तत्र यदग्नौ प्रक्षिप्तं तिम्बु रुकदारुवद् दह्यमानं सत् त्रटत् त्रटदिति करोति तत् द्रव्यतिन्तिणिकं भावतिन्तिणिकः पुनर्यो गुर्वादिभिः कृताकृतेषु किंभणितो नोदितो वा सम्पूर्णदिवसमपि त्रटत्-त्रटायते / मम संमुखमिदमिदं च जल्पितमेभिरिति झपन्नास्ते इतिभावः / आहारोपधिशय्याविषयोऽपि भावतिन्तिणिकः स्यात् / स च रसतिन्तिणिकोऽपि भण्यते। तत्राहारतिन्तिणिको द्विविधो-बहिःसंयोजनया अन्तःसंयोजनया च / तत्र क्षीरदध्यादि लब्ध्वा कलमशाल्योदनादिना रसगृध्नुतया यदुपाश्रयाद् बहिः संयोजयति सा बहिःसंयोजना / अन्तःसंयोजना पुनरुपाश्रयमध्ये स्यात् , सा त्रिविधा-भाजने हस्ते मुखे च / तत्र भाजने यत्र कलमशाल्योदनस्तत्र दुग्धध्यादि प्रक्षिपति, हस्ते मण्डकादिना गुडशर्करादि हस्तस्थितं वेष्टयित्वा मुखे प्रक्षिपति / मुखविषया तु पूर्व मुखे मण्डकादि प्रक्षिप्य शर्कराखण्डादि प्रक्षिपति / एवंविधां द्विविधामप्याहारसंयोजना लोभाभिभूततया कुर्वन् यदा यदा संयोजनीयवस्तुयोगं न लभते तदा तदा तिन्तिणिकत्वं करोती. त्याहारतिन्तिणिक उच्यते / एवमुपधिशय्यातिन्तिणिकावपि ज्ञेयो, यतः-उपधेरपि संयोजना द्विविधाबहिरन्तश्च / तत्रं बहिःसंयोजना-उत्कृष्टं कल्पं लब्ध्वा चोलपट्टकमप्युत्कृष्टमुत्पादयति, और्णिकं वा कल्पं सुन्दरं लब्ध्वा तदनुरूपमेव सौत्रिकमुत्पोदयति, उत्पाद्य च तदुभयपरिभोगेन संयोजयति / अन्तःसंयोजना पुनः विभूषार्थं श्वेतकम्बल्यां कृष्णदवरकसीवनिकां ददातीत्यादि / शय्या -प्रतिश्रयस्तस्या अपि संयोजना द्विधा-बहिरन्तश्च / तत्र बहिःसंयोजना-अकपाटमुपाश्रयं लब्ध्वा कपाटाभ्यां संयोजयति / अन्तःसंयोजना-शोभार्थं प्रतिश्रयं गोमयमृदादिना लिम्पति सेटिकया वा धवलयति / अथवा शय्याशब्देन संस्तारक उच्यते / ततश्च सुन्दरतरं संस्तारकं प्राप्य यदुत्तरपट्टमपि तदनुरूपमुत्पाद्य परिभुङ्क्ते, सा बहिःसंयोजना / यत् पुनः सुकुमारस्पर्थिं विभूषार्थं वा सुन्दरया भङ्ग्या संस्तारकं प्रस्तृणाति सा अन्तः संयोजना / तदेवमुपध्योदिविषयां संयोजनां कुर्वाणो विवक्षितवस्तुयोगाभावे तिन्तिणिको भवति / 'हा! नास्त्यमुकं वस्तु अत्र स्थण्डिलप्राये संनिवेशे' इत्यादि जल्पतीत्यर्थः / उक्तं च'तिंबुरुअदारुअंपि व अग्गाहिअंतिडितिडेति दिवसंपि / अह दव्वतिन्तिणो भावओ अ आहारुवहिसिज्जा / / अंतोबहिसंजोअण आहारे बाहि खीरदहिमाई / अंतो उ होइ तिविहा भायण हत्थे मुहे चेव / / एमेव उवहिसिज्जा गुणोवगोरी उ जस्स जं होइ / सो तेण जोअयंतो तदभावे तिंतिणो होइ' / एवं तिन्तिणिको व्याख्यातः / अथ चलचित्तः, स च चश्चल उच्यते / स च चतुर्धा-गतिचञ्चलः स्थानचञ्चलो भाषाचञ्चलो भावचञ्चलश्च / तत्र द्रुतद्रुतगामी गतिचञ्चलः / स्थानचञ्चलत्रिविधः-यो निषन्नः सन् पृष्ठवाहुकरचरणादिभिः कुड्यस्तम्भादि असकृत् स्पृशति 1, यो वा निषन्न एवेतस्ततो भ्राम्यति 2, पादौ वो पुनःपुनः सङ्कोचयति प्रसारयति वा 3, स स्थानचञ्चलः। भाषाचञ्चलश्चतुर्धा-असत्प्रलापी 1, असभ्यप्रलापी 2, असमीक्षितप्रलापी 3, अदेशकालपलापी 4 / तत्राऽसत्-अलीकमशोभनं वा प्रलपितुं