________________ यति-जीतकल्पे मिन-लहु-गुरु-लहुगा णगाढि पयवुढिगाढि अत्थे अ। अपत्तापत्तावत्त-वायणुद्देसणाइसु अ॥२४॥ व्याख्या-इह तपोऽहप्रायश्चित्ते ज्ञानदर्शनचारित्रतपोवीर्याचारपञ्चकसत्कमतीचारचक्रमालोच्यम् / तत्राऽऽद्यो ज्ञानाचारस्यातिचारो ज्ञानाचारातिचारः सोऽष्टविधः , तद्यथा-अकाले अस्वाध्यायिके वा स्वाध्यायकरणं कालातिचारः / 1 / श्रुतमधिजिगांसोर्जातिमदावलेपेन गुरुषु विनयो-वन्दनादिरुपचारस्त स्याऽप्रयोजनं हीलनं वा विनयातिचारः / 2 / श्रुते गुरौ वा बहुमानो-हार्दः प्रतिबन्धविशेषस्तस्याकरणं बहुमानातिचारः / 3 / उपधानं आचामाम्लादितपसा योगविधानं तस्याकरणमुपधानातिचारः / 4 / यत्पार्श्व श्रुतमधोतं तं निहनुते -अपलपति, अन्यं वा युगप्रधानमात्मनोऽध्यापकं निर्दिशति, स्वयं वाऽधीतमित्याचष्टे, एष निवाभिधानोऽतिचारः / 5 / व्यज्यतेऽर्थोऽनेनेति व्यञ्जनमागमः-सूत्रं तन्मात्राक्षर बिन्दुभिरूनमतिरिक्तं वा करोति, संस्कृतं वा विधत्ते, पर्यायैर्वाऽभिदधाति, यथा-धम्मो मंगलमुक्किमित्यादिस्थाने पुण्णं कल्लाणमुक्कसं दया संवरनिजरेति व्यञ्जनातिचारः / 6 / आगमपदार्थस्याऽन्यथा परिकल्पनमातिचारः, यथा-आचारसूत्रे अवन्त्यध्ययनमध्ये 'आवंती केयावंती लोगंसि विप्परामुसंतीति। यावन्तः केचन लोकेऽस्मिन् पाखण्डिलोके विपरामृशन्तीति प्रस्तुतेऽर्थेऽन्योऽर्थः परिकल्प्यते-आवंति-जनपदे केयाघटीमाला वांता-पतिता तां लोकः परामृशति कूपे' 17 / यत्र च सूत्रार्थों द्वावपि विनाश्येते स तदुभयातिचारो, यथा-धम्म मंगलमुक्कट्ठा अहिंसा गिरिमत्थए / देवावि तस्स नस्संति जस्स धम्मे सया मसी / 8 / अयं च महीयान् अतिचारो, यतः सूत्रार्थोभयनाशे चारित्रनाशः, तन्नाशे मोक्षाभावः, तदभावे दीक्षावैयर्थ्यमिति / एष चाष्टविधोऽपि ज्ञानाचारातिचारो द्विधा-ओघतो विभागतश्च / तंत्र विभागत उद्देशकाऽध्ययनश्रुतस्कन्धाङ्गेषु विषये प्रमादिनः-प्रमादपरस्य कालातिक्रमणोदिष्वष्टसुज्ञानाचारातिचारेषु क्रमशःक्रमेण तपो-भिन्नं लघुगुरुलघुका अनागाढे दशवकालिकादिश्रुते उदेशकातिचारेऽकालपाठादिके भिन्नमासः. अध्ययनातिचारे मासलघु, श्रुतस्कन्धातिचारे मासगुरु, अङ्गातिचारे चत्वारो लघव इत्यर्थः / आगाढे तूत्तराध्ययन-भगवत्यादिके एतेष्वेवातिचारस्थानेषु पदवृद्धिः कार्या, लघुमासादि चतुर्गुरुकान्तमित्यर्थः / अर्थे च-अर्थश्रवणेऽप्युद्देशकालातिक्रमणादिष्वतीचारेषु लघुमासादि चतुर्गुरुकान्तमेव तपो भवति, अप्राप्ताऽपात्राऽव्यक्तवाचनोद्देशनादिषु च / यत्र व्रतपर्याये यत् श्रुतमधीयते तदाश्रित्य तं व्रतपर्यायमनासादयन्नप्राप्तः / श्रुताध्ययनपर्यायश्चायम्'तिवरिसपरिआयस्स उ ओयारपकप्पनाम अज्झयणं / चउवरिसस्स उ सम्मं सूअगडं नाम अंगति / / दसकप्पववहारो संवच्छरपणगदिक्खिअस्सेव / ठाणं समवाओ वि अ अंगेए अट्ठवासस्स // दसवासस्स य विवाहो इक्कोरसवासयस्स इमे उ / खुडिअविमाणमाई अज्झयणा पंच नायव्वा / / बारसवासस्स तहा अरुणववायाइ पंच अज्झयणा / तेरसवासस्स तहा उट्ठाणसुआइआ चउरो / एगूणवीसगस्स उ दिट्ठीवाओ दुवालसममंगं / संपुन्नवीसवरिसो अणुवाई सव्वसुत्तस्स // जं केवलिणा भणिशं केवलनाणेण तत्तओ नाउं / तस्सन्नहा विहाणे आणाभंगो महापावो' / अपात्रमयोग्यः तितिणिकचलचित्तगाणंगणिकादिः / अव्यक्तो-वयसा लघुः श्रुते चाऽत्यल्पश्रुतः / चशब्दोऽतुक्तसमुच्चये। एतेषामप्राप्ताऽपात्राऽव्यक्तानां वाचनां-श्रुतपाठनरूपां यो ददाति उद्देशसमुद्देशानुज्ञा