________________ 19 कायोत्सर्गः प्रायश्चित्तम् गामिनी, तिर्यग्गामिनी च, अन्त्या वा नदीं छिन्दती याति / नदीसन्तारो-नद्युत्तारणं, स चतुर्धा-तत्र जङ्घार्द्धदध्नोदकः सङ्घट्टः 1, नाभिद्वयसोदको लेपः 2, तदूर्ध्व जलो लेपोपरिः 3, बोहुभ्यामुडुपाद्यैर्वा चतुर्थः / सर्वेष्वेतेषु प्रायश्चित्तं कायोत्सर्गः / तथाभत्ते पाणे सयणासणे य अरहंतसमणसिज्जासु / उच्चारे पासवणे पणवीसं हुंति ऊसासा // 19 // - व्याख्या-भक्ते-भक्तविषये, पाने-पानविषये, शयनासनयोः-शयनीयविष्टरयोर्वा प्रार्थनाय / अर्हतां श्रमणानां च शय्या अर्हच्छ्रमणशय्यास्तासु चैत्योलयोपाश्रयरूपासु एतेषु हस्तशतात्परतो गमनागमनयोः , उच्चारे प्रश्रवणे हस्तशतमध्येऽपि त्यक्ते सति हस्तमात्रेऽपि रेल्लके जाते कायोत्सर्गे क्रियमाणे पञ्चविंशतिरुच्छवासा भवन्ति / इतः पाश्चात्यायां 'गमणागमणे 'त्यादिगाथायां सामान्येन कायोत्सर्गः प्रायश्चित्तमुक्तम् / ततश्च किंविषयः कायोत्सर्गः कियदुच्छ्वासपरिमाणः कार्य इति प्ररूपणार्थ गाथात्रयमाहहत्यसयबाहिराओ गमणागमणाइएसु पणवीस / पाणिवहाई सुमिणे सयमठ्ठसयं चउत्थम्मि // 20 // देसिअराइअपक्खिअ-चाउम्मासवरिसेसु परिमाणं / सयमद्धं तिनि सया पंचसयठुत्तरसहस्सं // 21 // उद्देससमुद्देसे सत्तावीसं तहा अणुन्नाए / अठेव य ऊसासा पठवणपडिक्कमणमाई // 22 // ____ व्याख्या-पूर्वार्द्ध कण्ठ्यम् / नवरमादिशब्दोच्चतुर्विधनौ-नदीसन्तारे च पञ्चविंशत्युच्छवासमानः कार्यः / प्राणिवधादि स्वप्ने-करणकारणानुमतिमिः स्वप्नमध्ये प्राणिवधादौ कृते सति ‘शत 'मिति शतोच्छ्वासमानम् , 'अष्टशतं चतुर्थ' इति चतुर्थे मैथुनस्वप्नेऽष्टशतम्-अष्टोत्तरशतोच्छ्वासमानं कायोत्सर्ग कुर्यादित्यर्थः / तथा-इह यथासङ्ख्यमुच्छवासपरिमाणं ज्ञेयम् / देवसिकप्रतिक्रमणे पश्चिमकायोत्सर्गत्रिकस्याऽऽद्य द्वौ चतुर्विशतिस्तवौ चिन्त्येते / शेषद्वयोस्त्वेकैकः / स च पश्चविंशतिपदात्मकः पञ्चविशत्योच्छवासः समाप्यते / ततश्चतुर्विशतिस्तवचतुष्टयेनोच्छ्वासशतें भवति / रात्रिकप्रतिक्रमणे त्वाद्यकायोत्सगद्वयेऽप्येकैक-चतुर्विशतिस्तवचिन्तनात् 'अद्धं 'ति शतार्द्ध-पश्चाशदूच्छ्वासा भवन्तीत्यर्थः / पाक्षिककायोत्सर्ग ते द्वादश चिन्त्यन्ते, ततो द्वादशगुणिताः पञ्चविंशतिस्त्रीणि शतानि भवन्ति / चातुर्मासककायोत्सर्गे ते विंशतिश्चिन्त्यन्ते, ततो विंशतिगुणाः पञ्चविंशतिः पञ्चशतानि जायन्ते / वार्षिकप्रतिक्रमणकायोत्सर्गे च चत्वारिंशचतुर्विशतिस्तवाश्चिन्त्यन्ते, ततश्चत्वारिंशद्गणाः पञ्चविंशतिः सहस्रमुच्छ्वासानां भवति / तस्योपरि च बहुः कालो निर्विघ्नो गत इति मङ्गलार्थमष्टोच्छ्वासमानः पञ्चपरमेष्ठिनमस्कारश्चिन्त्यते, ततोऽष्टोत्तरसहस्रं भवति / उद्देशः-सूत्रवाचनादानम् / समुद्देशोऽर्थदानम् / अनुज्ञो परं प्रति सूत्रार्थदानानुमतिः। तथेत्यनुक्तसमुच्चये / तेन श्रुतस्कन्धाङ्गपरावर्तनोत्तरकालं च सप्तविंशत्युच्छ्वासः कायोत्सर्गः / तत्र सप्तविंशतिपदात्मकस्य चतुर्विशतिस्तवस्य चिन्तनीयत्वात् / तथा प्रस्थापनप्रतिक्रमणादिषु / प्रस्थापनं स्वाध्यायस्य, प्रतिक्रमणं कालस्य, तयोः करणे, आदिशब्दानुयोगप्रारम्भविसर्जनयोः दुनिमित्तस्वप्नशकुनादिप्रतिघातार्थं च कायोत्सर्गेऽवोच्छ्वासाः। नमस्कारचिन्तनेनाऽष्टोच्छ्वासः कायोत्सर्गः कार्य इत्यर्थः / गतं व्युत्सर्गार्हम् / तपोऽहमभिधीयतेउद्देसज्झयणसुअखंधंगेसु. कमसो पमाइस्स / कालाइक्कमणाइसु नाणायाराइआरेसु // 23 //