________________ तदुभयं प्रायश्चित्तम् व्याख्या-आभोगेनापि-परिस्फुटबुद्धथापि अविस्मृत्यापीत्यर्थः / तनुकेषु-स्तोकेषु स्नेहभयशोकबाकुश्यादिषु / तत्र स्नेहो मातापितृस्वजनेषु भाक्तिकश्रावकजनेषु वा, भयं सप्तविधम्-इहपरलोकाऽऽदानाऽकम्मादाऽऽजीवमरणाऽश्लोकरूपम् , शोकः-सचित्ताचित्तमिश्रद्रव्याणामिष्टानां वियोगेनाऽनिष्टानां संयोगेन, बाकुश्यं-बकुशत्वं कश्मलचारित्रत्वं, ग्लानत्वादिकारणं विनाऽपि हस्तपादादिक्षालनशीलत्वेन, आदिशब्दात् पार्श्वस्थाऽवसन्नसंसक्तकुशीलत्वानि गृह्यन्ते / कन्दर्पहासविकथादिकेषु / कन्दर्पः प्राग व्याख्यातः हासादयः प्रतीताः, आदिशब्देन कषायविषयानुषङ्गा गृहीताः। ततः सर्वेष्वप्येतेषु तनुकेषु कृतेषु ज्ञेयं-ज्ञातव्यं प्रतिक्रमण-प्रतिक्रमणाऱ्याऽऽख्यं प्रायश्चित्तम् / अत्राह शिष्यः-ननु कन्दर्पहासविकथा. कषायविषयानुषङ्गाः प्राग्गाथायोमपि प्रतिक्रमणाहप्रायश्चित्तयोग्यत्वेनोक्ताः किं पुनरिहोच्यन्ते ? / गुरुराह-सहसाकाराऽनाभोगाभ्यां पूर्वगाथात्रयातीचारस्थानानि ज्ञेयानि एकवाक्यत्वात् / इह त्वाऽऽभोगेनोऽपि कन्दर्पाद्यास्तनुकाः कृताः प्रतिक्रमणार्हप्रायश्चित्तशोध्या भवन्तीति न पौनरुक्त्यमिति / उक्तं प्रतिक्रमणार्हम् / इदानीमुभयाहमुच्यतेसंभमभयाउरावइ सहसाणाभोग-णप्पवसओ वा / सव्ववयाईआरे तदुभयमासंकिए चेव // 13 // व्याख्या-सम्भ्रमः-संक्षोभः करिसरित्पूरशार्दूलदवानलादेः / भयं चौरबन्दिकम्लेच्छादेः / आउरत्ति / भावप्रधानत्वान्निर्देशस्य आतुरत्वं-पीडितत्वं क्षुत्पिपासाद्यैः / आपञ्चतुर्धा-द्रव्यक्षेत्रकालभावः / तत्र द्रव्यापत् कल्पनीयाऽशनादिद्रव्यदुर्लभता 1 / क्षेत्रापत् प्रत्यासन्नग्रामनगरादिरहितमल्पं च क्षेत्रं 2 / कालोपद् दुष्कालादि 3 / भावापत् ग्लानत्वादि 4 / ततः सम्भ्रमभयातुरापद्भिः कारणैः , सहसाकारानाभोगौ प्राग व्याख्यातो, ताभ्यां च / अनात्मवशकः-परवशः , वाशब्दाद् भूदाद्याविष्टश्च तस्य सर्वव्रतातिचारे सति, ते चैवमतीचाराः-हस्तिसम्भ्रमाद्यैः पलायमानः पृथिवीजलानलानिलहरितद्वित्रिचतुष्पञ्चेन्द्रियाँश्चरणघातादिना ताडयन् पादपाद्यारोहणेन प्राणातिपातविरतिं विराधयेत्, मृषाविरतिं कूटसाक्ष्या'दिना, अदत्तविरति अप्रभोः स्तैन्येनाऽशनादि ददतो ग्रहणेन, मैथुनविरतिमतिक्रमादिना, परिग्रहविरतिं मूर्छादिनो, रात्रिभोजनविरतिं दिवागृहीतादिभङ्गकैः / अध्वकल्पो दूरतममार्गे व्रजतां घृतमिश्रकणिक्कोद्याऽऽदानरूपः तं विदध्यात् , लेपकृतं क्षीरान्नादि तदुत्सर्गतो न ग्राह्यम् कचित्तद् भुञ्जीतेत्याद्या मूलगुणविषयाः / एवमुत्तरगुणेष्वपि ज्ञेयाः। इत्थमतिचारजाते साते सति, तथा आशङ्किते चैव-यदतीचारस्थानं कृतमकृतं वेति निश्चेतुं न शक्नोति तस्मिँश्च दर्शनज्ञानचारित्रतपःप्रभृतिसर्वपदविषये तदुभयंतदुभयाई प्रायश्चित्तम् / एकं गुरोरालोचना, द्वितीयं गुरुसन्दिष्टेन मिथ्यादुष्कृतदान प्रतिक्रमणाख्यिमित्येतदुभयं शुद्धिकरं / किञ्चदुचिंतिअ दुब्भासिअ दुचिट्ठिअ एवमाइअं बहुसो। उवउत्तो वि न याणइ जं देवसिआइ अइआरं // व्याख्या-दुश्चिन्तितं च कोङ्कणार्यकवद् दवदानचिन्तना, दुर्भाषितं वा असद्भूतोद्भावनं, दुश्चेष्टितं च धावनादि, दुश्चिन्तित-दुर्भाषित-दुश्चेष्टितम् / एवमादिकम् अन्यदप्येवंप्रकारं दुष्प्रतिलेखितदुष्प्रमार्जितादि, बहुशो-ऽनेकशः उपयुक्तोऽपि-उपयोगवानपि यद् देवसिकातिंचारादि, आदिशब्दाद्