________________ लघुमृषासूचकदृष्टान्ताः कोऽपि साधुर्दिवा घूर्णन्निद्रयाऽन्येन साधुना / उक्तो निद्रासि किं भद्र ! न निद्रामीति सोऽवदत् / / 1 / / प्रापैवं निह्नवात् शुक्लमासार्ह स लघु मृषाम् / यत्र यत्रेहगापत्तिस्तत्र तत्र लघुर्मषा / / 2 // 1, साधुः कार्येण केनापि प्रस्थितः कोऽपि वर्षति / भणितः साधुनान्येन किं व्रजस्यार्य ! वर्षति / / 3 / / बभाषे प्रस्थितः साधुर्नाऽहं गच्छामि वर्षति / इत्युक्त्वाऽपि परं वर्षत्येव प्रस्थितवाँस्ततः // 4 // साधुनोचे मृषा वक्षि सोऽवोचद् वच्मि नाऽनृतम् / वृष्टिरााय सा नेयं नन्वेते वर्षविग्रुषः / / 2 / / 2, साधुः कार्याद्गतः कोऽप्याऽऽश्रयमागत्य जल्पति / निर्यात भुञ्जते विप्रास्तत्राऽस्माभिरपीयते / / 6 / / प्रस्थिताः साधवोऽदित्वाऽऽयाताः प्रच्छन्ति तं क ते ? / भिक्षाटनेऽपि नो दृष्टाः स ऊचे स्वस्ववेश्मसु // 7 // 3, कोऽप्यूचे मण्डलीकाले एहि भुङ्क्वेति केनचित् / सोऽब्रवीद् यूयमनीत प्रत्याख्यातमहो ! मया // 8 // इत्युदीर्याऽपि मण्डल्यामश्नाति स्म तदैव सः / किमेतदिति पृष्ठोऽथ व्याचक्रे वक्रगीरिदम् // 9 // ननु प्राणातिपाताद्या सर्वाप्यविरतिर्मया / प्रत्याख्यातैव सावद्या वितथं किमिहास्ति तत् ? // 10 // 4, याता चैत्यादिकार्येण त्वं न यासीति केनचित् / कोऽप्युक्तो मुनिरूचे तं व्रज त्वं न बजाम्यहम् / / 11 / / ततस्तस्मिन् गते सोऽपि सद्य एव तमन्वगात् / पृष्टस्तेनाथ नेत्युक्त्वा किं गच्छस्यथ सोऽभणत् / / 12 / / न त्वं जानासि सिद्धान्तं गम्यमानं गतं खलु / प्रश्नकाले स्थितोऽभूवमधुनाऽहं गतिक्रियः / / 13 / / 5, पृष्टो निनसुना कोऽपि पर्यायं यतिरूचिवान् / ममाऽस्य च दशाब्दानि निनंसुस्तं ततोऽगदत् / / 14 / / अहं नवाऽब्दपर्यायस्तत् त्वां वन्दे निषीद भोः!। अथाऽऽचख्यौ स वन्यस्त्वं नाहं वन्द्योऽस्मि ते मुने! // 15 // तेनोक्तं हेतुना केन सोऽभाणीद् भद्र ! शाठ्यतः / पञ्चाऽस्य पञ्च मेऽब्दानि मेलयित्वा दशाऽवदम् // 16 // 6, कार्याद् बहिर्गतः कोऽपि विलोक्य ग्रहणं रवेः। अधीयतो यतीनूचेऽद्भुतं भो ! भोजनक्षणः / / 17 / / उत्थिताः साधवः प्रात्त-पात्राः पृच्छन्ति कुत्र सः / गगनेऽदर्शयत्तेषां राहुणा प्रसनं रवेः // 18 // 7, भणति स्माऽऽगतः कोऽपि विधाय प्रथमालिकाम् / अद्य सङ्घडिका बहव्यो मिक्षाकालेऽथ साधवः / / 19 / / पप्रच्छुः क क गेहे ता? बभाषे च च्छलेन सः / एकेन्द्रियादयो जीवाः सङ्खण्ड्यन्ते गृहे गृहे / / 20 / / 8, कोऽप्यूचे क्षुळकं दृष्ट्वाऽऽश्रयासन्ना मृतां शुनीम् / यथा क्षुल्लक ! माता ते मृताऽतो रोदिति म्म सः / / मा रोदीरस्ति जीवन्ती रुदन्तं च तमाह सः। अथ तं क्षुल्लकोऽन्ये च स्माहुबॅषे कथं द्विधा ? // 22 / / स उवाचाऽस्य शुन्येषा कदाऽप्यम्बाऽभवद् यतः। जीवाः सर्वे भवेऽनादौ बभूवुः सर्वनात्रकैः / / 23 / / 9, उद्याने कोऽपि पार्श्वस्थान् दृष्ट्वाऽऽगत्याऽवदन् मया / भोः ! पारिहारिका दृष्टा-स्तच्छ्रत्वाऽमोदि साधुभिः कीदृशास्ते महात्मानः परिहारतपस्विनः / गतास्तत्राथ तान् द्रष्टुं तोवत् पश्यन्ति लैङ्गिकान् / / 25 / / पृच्छन्ति स्म ततस्तं ते स ददात्युत्तरं शठः / अभक्ष्यादिपरीहाराः किं नैते पारिहारिकाः? // 26 // 10, कोऽप्याख्यच्चित्रमत्र स्त्री तुरङ्गममुखोक्ष्यते / साधुभिर्दर्शयेत्युक्तः शठो दर्शयतेऽर्वतीम् // 27 // पृष्टः केनापि कोऽप्याऽऽय! मिक्षाचर्यां गमिष्यसि ? / यास्याम्यवश्यं तेनोक्ते स तं यानादेहि भोः ! / / स प्रत्यूचे न गच्छामि यावद्वेला न जायते / वेलायां तु गमिष्याम्यवश्यं दिवि शिवेऽथवा / / 29 / / 12,