________________ पञ्चधा उपसम्पद् 13 कृतेष्वपि यद्यालोचनाप्रायश्चित्तयोग्यता भवति तर्हि किमपि न कर्त्तव्यं, व्रतमादाय प्रथममेव सर्वैरपि अनशनं कोर्यम् / गुरुराह-तन्न, एवं सति तीर्थोच्छेदः स्यात् कः केन प्रतिबोधयिष्यते ? किञ्च न खलु मालिन्याशङ्कया वस्त्राणि न परिधीयन्ते / अपरिधाने हि विवस्त्रतया सर्वेषां पशुरूपतापत्तिः ततः परिधीयन्त एन / जातमालिन्यानि च जलेन प्रक्षाल्य निर्मली क्रियन्ते / एवं चारित्रमपि करणीययोगकरणे सञ्जातातिचारलेशमलमालोचनाप्रायश्चित्तजलेन विशोध्य निर्मलीकार्यम् / अतिचारलेशवतोऽपि तच्छुद्धये भवत्वालोचना, परं निरतिचारस्य किम् ? इत्याहकारणविणिग्गयस्स य सगणाओ परगणागयस्स वि अ। उवसंपया विहारे आलोअण निरइआरस्स // व्याख्या-कोरणेन-अशिवदुर्भिक्षराजादिप्रत्यनीकत्वग्लानोत्तमार्थिकाऽऽराधनादिना गुर्वादेशाद् विनिर्गतः कारणविनिर्गतस्तस्य निरतिचारस्याऽप्यविराधितसमितिगुप्तिकस्याऽप्यालोचना भवति / सा च द्विधा-ओघतो विभागतश्च / तत्र यः कारणविनिर्गतः पक्षाऽभ्यन्तरे समागच्छति / आगतमात्रश्चेर्यापथिकी प्रतिक्रम्य समुद्देशवेलाया अर्वागेवाऽऽलोचयति तस्याऽप्योघालोचनामात्रं भवति / यथा 'अप्पा मूलगुणेसुं विराहणा अप्प उत्तरगुणेसुं / अप्पो पासत्थाइसु दाणग्गहसंपओगोहा' / अल्पशब्दोऽभाववाची, तेन मूलगुणेषु विराधना अल्पा-न काचित् , उत्तरगुणेष्वप्यल्पा-न काचित् / पावस्थाऽवसन्नादिषु दानग्रहाभ्यां सम्प्रयोगः-सम्पर्कः सोऽप्यल्पः-सोऽपि नासीदित्यर्थः / इयमोघालोचना / यस्तु पक्षाभ्यन्तरागतोऽपि समुद्देशानन्तरमालोचयति यो वा पक्षात् परतः समागतः समुद्देशाद गप्याऽऽलोचयति, तयोनिरतिचारयोरपि विभागालोचना-विशेषालोचना सुव्यक्तनिश्शेषनिजानुष्ठितनिवेदनरूपा / यस्तु तक्षशिलायां धर्मचक्रस्य, मथुरायां स्तूपस्य, पुरिकायां जीवत्स्वामिप्रतिमायास्तीर्थकृज्जन्मनिष्क्रमणज्ञाननिर्वाणभूमीनामयोध्यादीनां दर्शनार्थं स्वजनगोकुलविवाहादि सङ्खडकाप्रेक्षार्थं यत्र विशिष्टाहारोपधी लभ्येते तत्र तल्लिप्सया रम्यदेशदिदृक्षादिना वा गुर्वनादेशाद् विनिर्गतोऽकारणविनिर्गतस्तस्य सातिचारत्वेन बृहत्तरप्रायश्चित्तशोध्यत्वान्नोलोचनामात्रेण शुद्धिः / तथा स्वगणात-साम्भोगिकरूपादेकमण्डलीभोजिनः परगणाद् विसंभोगिकाद् अमण्डलीभोजिनः उभयतोऽपि संविग्नाऽसंविग्नरूपादागतस्यापि च निरतिचौरस्य -- उवसंपय 'त्ति / उपसम्पद्यमानस्य, सा चोपसम्पत् पञ्चधा-श्रुतग्रहणायाऽन्यमाचार्यमुपसम्पद्यमानस्य श्रुतोपसम्पत् / 1 / सुखं दुःखं वा मया भवद्भिः सह सोढव्यमिति सुखदुःखोपसम्पत / 2 / अत्र क्षेत्रे तिष्ठतो मम युष्मदीया निश्रेति क्षेत्रोपसम्पत् / 3 / मार्गे व्रजतो मम यौष्माकी निश्रेति मार्गोपसम्पत् / 4 / विनयं कर्तुं गच्छान्तरमुपसम्पद्यमानस्य विनयोपसम्पत् / 5 / भाष्यकृताऽप्युक्तम् - 'उवसंपय पंचविहा सुअ सुहदुक्खे अ खित्तमग्गे अ / विणओवसंपयावि अ पंचविहा होइ नायव्वा' / / एतासामन्यतरामुपसम्पदं प्रथममाददानस्य विभागालोचना भवति / 'विहार 'त्ति / विहारे कृते निरतिचारस्याऽप्यालोचना भवति / अयं भावः-एकाहात् पक्षाद् वर्षाद् वो यदा साम्भोगिकाः स्पद्धंकपतयो गीतार्थाऽऽचार्या मिलन्ति, तदा निरतिचारा अप्यन्योऽन्यस्य विहारालोचनां स्वस्वविहारक्रमानुष्ठितप्रकाशरूपां ददतीति / व्याख्यातं प्रथममालोचनाएं प्रायश्चित्तं / सम्प्रति प्रतिक्रमणाईमुच्यते-येषु स्थानेषु स्खलितस्य मिथ्यादुष्कृतयोग्यता भवति तान्याह