________________ यति जीतकल्पे तेषूपयुक्तस्य निरतिचारस्याऽदुष्टभावस्य छद्मस्थस्य-परोक्षज्ञानिनः श्रुतज्ञानानुसारेणैवाऽशेषक्रियाकलापानुष्ठानपरायणस्य यतेर्वि शुद्धिरालोचना भणिता तीर्थकर-गणधरैः / अत्राह शिष्यः-निरतिचारो यतिः करणीयान् योगान् करोति / ततः किमालोचनया विशोध्यम् ? / गुरुराह-सूक्ष्मा आश्रवक्रियोः सूक्ष्मप्रमादनिमित्ता अविज्ञातास्तासामालोचनामात्रेण शुद्धिः / स पुनर्गुरुसन्दिष्टोऽसन्दिष्टो वो कार्यस्याऽऽदौ समाप्तौ वा आलोचयति / करणीययोगान्नामग्राहमाहआहाराइग्गहणे तह बहिआ निग्गमेसु णेगेसु / उच्चारविहारावणि-चेइअजइवंदणाईसु // 6 // व्याख्या-आहारः-अशनपानखाद्यस्वाद्यरूपः , स आदिर्येषां ते आहारादय, आदिशब्दात् शय्यासंस्तारकपादप्रोञ्छनवस्त्रपात्राद्या औधिकौपग्रहिकोपधयः। तथा च-'ओहेण जस्स गहणं भोगो पुण कारणे स ओहोही / जस्स य दुगंपि निअमा कारण सो उवग्गहिओ' // आचार्यग्लानबालदुबलशेक्षक्षपकाऽसहिष्णु-प्रायोग्यौषधादयश्च गृह्यन्ते / तेषां ग्रहणमाहारादिग्रहणं तस्मिन् / तथा बहिर्निंगमेषु अनेकेषु उच्चारविहारोवनिचैत्ययतिवन्दनादिषु / बहिः-वहिस्तात् शय्याया गुरुपार्शद्वा उच्चारा- . . वनौ-सञ्ज्ञाभूमौ विहारावनौ-स्वाध्यायभूमौ चैत्यवन्दनार्थं दूरमासन्नं वा यतीनामपूर्वबहुश्रुत्तसंविग्नानां वन्दनाथं तत्पार्श्व संशयोच्छेदनार्थं वा, आदिशब्दात् श्रावकसन्तानिकाऽवसन्नविहारिश्रद्धासंवर्द्धनार्थम् साधर्मि काणां वा संयमोत्साहनार्थम् / अथवा पीठफलकादिप्रत्यर्पणार्थम् / यद्वा-कुलगणसङ्घानां चैत्यद्रव्यस्य चोपद्रवनिवारणार्थं निर्गमाः स्युस्तेषु / 'तत्थ कुलं विष्णेअं एगायरिअस्स संतई जाओ। तिण्ह कुलाणमिहो पुण साविक्खाणं गणो होइ॥ सङ्घः प्रतीतः, चैत्यं पञ्चचा-यथो वारत्तकमहर्षेः पुत्रः स्वपितरि भक्तिभरोपूरिततया चैत्यगृहं कारयित्वा तत्र रजोहरणमुखवत्रिकाप्रतिग्रहधारिणी पितुः प्रतिमामचीकरत् तदेव तत्साधर्मिकचैत्यं / 1 / मथुरादिस्थानेषु गृहे कृते मङ्गलनिमित्तमुत्तरङ्गेषु प्रथममहत्प्रतिमा प्रतिष्ठाप्यते अन्यथा तद्गृहं पतति तन्मङ्गलचैत्यम् / 2 / शाश्वतचैत्यं नन्दीश्वरादिव्यवस्थितम् / 3 / भक्तिचैत्यं भक्त्या क्रियमाणं जिनायतनं, तद्विधा-साधूनां निश्रया क्रियमाणं निश्राकृतम् / 4 / तदनिश्रया विधीयमानमनिश्राकृतम् / 5 / तस्य द्रव्यं-हिरण्यस्वर्णादिकं काष्ठोपलेष्टकादिकं वा तस्योपद्रवस्तनिवारणार्थम् / अयमभिप्रायःसति सामर्थ्य चैत्यद्रव्योपद्रवमुपेक्षमाणः साधुरपि अनन्तसंसोरितादण्डभाजनं भवति / अतस्तदर्थमपि बहिनिर्गमः करणीययोग एव / किमेतावन्त एव करणीययोगा आहोश्विदन्येऽपि सन्ति ? इत्योहजं चनं करणिज्ज जइणो हत्थसय बाहिरायरि / अविगडिअंमि असुद्धो आलोअंतो तयं सुद्धो / ___ व्याख्या-यच्च पूर्वगाथोक्तकरणीयव्यापारेभ्योऽन्यद् यतेः करणीयं क्षेत्रप्रतिलेखनस्थण्डिलान्वेषणशैक्षनिष्क्रमणाऽऽचार्यसंलेखनादि हस्तशताद् बहिराचरितं, तस्मिन् पूर्वोक्ते च करणीययोगनिवहे अविकटिते-गुरोरप्रकाशितेऽनालोचिते अशुद्धः / समित्याद्यतिचारलेशवान् आलोचयँस्तं करणीययोगनिवहं शुद्धः / आलोचनाख्यप्रायश्चित्तेन समित्याद्यतिचारलेशनिवर्त्तनात् / हस्तशताऽभ्यन्तराचरितं तु किश्चित् प्रश्रवणादिकमालोच्यते किश्चिच्च खेलसिङ्घानजल्लनिवेशनोत्थानविजृम्भणाऽऽकुञ्चनप्रसारणोच्छ्वासनिःश्वासचेष्टादिकं नालोच्यते / अत्राह शिष्यः-करणीययोगेष्वाहोरादिग्रहणार्थेषु यथोक्तविधिना