________________ आलोचनाप्रायश्चित्तनिरूपणम् साधवश्च पुलाक -बकुश-कुशील-निर्ग्रन्थ-स्नातकभेदात् पश्च / तत् कस्य तानि कियन्ति भवन्ति ? इत्युच्यते-' आलोअणा पडिकमणे मीसविवेगे तह विउस्सग्गे / तत्तो तवे अ छठे पच्छित्त पुलाकि छप्पेए / / बउसपडिसेवगाणं पायच्छित्ता भवंति सव्वेवि / थेराण भवे कप्पे जिणकप्पे अट्ठहा होइ / / आलोअणा विवेगो वा निअंठस्स दुवे भवे / विवेगो उ सिणायस्स एमआ पडिवत्तिओ' // एतासां व्याख्या-पुलाकादीनां स्वरूपं च व्याख्याप्रज्ञप्तेरवसेयम् / आलोचना 1 प्रतिक्रमणं 2 मिश्रं 3 विवेकः 4 तपः 5 व्युत्सर्गः 6 एतानि षट् प्रायश्चित्तानि पुलाके / तथा बकुश-प्रतिसेवकयोः-बकुशस्य प्रतिसेवनाकुशीलस्य च सर्वाण्यपि दशापि प्रायश्चित्तानि भवन्ति / तौ च बकुश-प्रतिसेवनाकुशीलौ स्थविराणां कल्पे भवतः / जिनकल्पे, उपलक्षणमेतत् यथालन्दकल्पे च / नवरं जिनकल्पे यथालन्दकल्पे च तयोः प्रायश्चित्तमष्टधा भवति, अनवस्थाप्य-पाराश्चिकयोरभावात् / आलोचनाप्रायश्चित्तं विवेकप्रायश्चित्तमित्येते द्वे प्रायश्चित्ते निर्ग्रन्थस्य भवतः / स्नातकस्य केवल एको विवेकः / एवमेताः पुलाकादिषु प्रतिपत्तयः / सामायिकसाध्वादीनां पञ्चानां यानि यस्य भवन्ति, तान्यप्युच्यन्ते 'सामाइअसंजयाणं पच्छित्ता छेअमूलरहिअट्ठ। थेराण जिणाणं पुण तवमंत छव्विहं होइ'। सामायिकसंयतानां स्थविराणां-स्थविरकल्पिकानां छेदमूलरहितानि शेषाण्यष्टौ प्रायश्चित्तानि भवन्ति / जिनानां जिनकल्पिकानां पुनः सोमायिकसंयतानां तपःपर्यन्तं षड्विधं प्रायश्चित्तं भवति / 'छेओक्टावणिए पायच्छित्ता हवंति सव्वेवि / थेराण जिणाणं पुण मूलंतं अट्टहा होइ' // छेदोपस्थापनीये संयमे वर्तमानानां स्थविराणां सर्वाण्यपि प्रायश्चित्तानि / जिनकल्पिकानां पुनर्मूलपर्यन्तमष्टधा भवति / 'परिहारविसुद्धीए मूलंता अट्ट हुँति पच्छित्ता / थेराण जिणाणं पुण छव्विह छेदाइवज्जं च ' // परिहारविशुद्धिके संयमे वर्तमानां स्थविराणां मूलान्तानि अष्टौ प्रायश्चित्तानि भवन्ति / जिनानां पुन छेदादिवर्ज षडविधं / ' आलोअणा विवेगो अ तइअं तु न विज्जई / सुहुमे अ संपराये अहक्खाए तहेव य'॥ सूक्ष्मसम्पराये यथाख्याते च संयमे वर्तमानानां आलोचना विवेक इत्येवं रूपे द्वे प्रायश्चित्ते भवतः / तृतीयं तु न विद्यते / -- यथोद्देशं निर्देश' इति सविषयप्रथमप्रायश्चित्तनिरूपणायाहकरणिज्जा जे जोगा तेसुवउत्तस्स निरइआरस्स / छउमत्थस्स विसोही जइणो आलोअणा मणिआ॥ व्याख्या-करणीया-अवश्यकर्त्तव्या ये योगाः-प्रत्युपेक्षणादिक्रियारूपाः श्रुतोपदिष्टा अहोरात्रानुष्ठेयाः, संयमहेतवो यदि वा योमाः कायवाङ्मनोरूपाः / तथाहि-' नित्यालीनालीनाङ्गः कूर्मवन्मुनिपुङ्गवः / तिष्ठेत् , प्रयोजनाभावे काययोगोऽयमीरितः // तत्र आ-ईषल्लीन आलीनः / बहुतरं लीनः प्रलीनः / भाष्ये तु 'अल्लीणा नाणाइसु पइ पइलीणाओ हुंति पल्लीणा / कोहाई वा पलयं जेसि गया ते पलीणाउ' // तथा-'भूमावघर्षयन् पादं यद्वा रीयेत कार्यतः / अग्रपादादिना देशे कीटिकाद्याकुळे पुनः' / / हितं मितं प्रियं सत्य-मनवद्यं विमृश्य च / यन्मुनिर्वक्ति वाग्योमः सैष तद्वामवर्जनात् / / / मनोयोगः पुनरयं मनसः कुशलस्य यत् / उदीरणं निरोधश्चा- कुशलस्य पुनः सदा //