________________ 0 यति-जीतकल्पे आयसंवेअणीआ य उवस्सग्गा चउव्विहा' // तत्र दिव्या हास्यात् 1 प्रद्वेषात् 2 विमर्शात्- मयाऽपि प्रारब्धो ध्यानादेष न चलिष्यती'यादिकात् 3 पृथग्विमात्राः-हास्येन प्रारब्धाः प्रद्वेषण निष्ठां यान्तीत्यादि संयोगजाः 4 / मानुष्या-हास्यात् 1 प्रद्वेषात् 2 विमर्शाद्-' एष शत्रुपुत्रादिवय॑न् ममानर्थाय तदेनमुच्चाटयामी 'त्यादिकात् 3 कुशीलप्रतिसेवनार्थाश्चतुर्थव्रतलोपनार्थं स्वैरियादिकृताः 4 / तैरश्चा-भयात् 1 प्रद्वेषोत् 2 ओहारहेतोः 3 अपत्यलयनसंरक्षार्थाः 4 / आत्मसंवेदनीया-घट्टनात्-चक्षुःप्रविष्टरेण्वादिमदनात 1 स्तम्भनात-पादाद्यङ्गानां चिरं स्तब्धत्वेन धरणात 2 श्लेषणात-तेषामेव वातादिना चिरं सङ्कोच्य धरणात् 3 पतनात्-स्थाण्वाद्यास्फोलनेन भूमौ निपतनात् 4 / एते प्रत्येकं चातुर्विध्यात् षोडशेति / ते च संवरनिर्जरे द्विविधे-सर्वतो देशतश्च / तत्रान्त्यगुणस्थानके शैलेशीप्रतिपन्नस्य व्युच्छिन्नक्रियत्वादाद्यसमये एव सर्वसंवरः / द्विचरमसमये तु द्विसप्ततेः चरमसमये वाऽऽयुषा सह त्रयोदशानामुत्तरप्रकृतीनां निर्जरणात सर्वनिर्जरा / शेषकाले देशसंवरो देशनिर्जरा च / ते संवरनिर्जरे मोक्षस्य पथः / कोऽर्थः ? संवरनिर्जराभ्यां नवकर्माऽनादानेन पुरातनकर्मक्षपणेन च मोक्षे गम्यते / तयोश्च संवरनिर्जरयोस्तपः पथः। कोऽर्थः ? तपः कुर्वतां संवरविनिर्जरे भवतः। तपसश्च ।चशब्दोऽप्यर्थे / तपसोऽपि प्रधानमङ्गं प्रायश्चित्तम् आभ्यन्तरतपोभेदत्वात् तेन तज्ज्ञेयमेवेति द्वितीयगाथान्तेन योगः। तथा यच्च सामायिकादिबिन्दुसारान्तस्य ज्ञानस्य सारः-सारभूतं चरणम् , तस्याऽपि सारो निर्वाणं, परं च तच्चरणं ज्ञानदर्शनान्वितं प्रायश्चित्तेन शोधितं सत् निर्वाणसाधकं भवति, तेन कारणेन निर्वाणसाधकस्य चरणस्य शोधनार्थं चकाराज्ज्ञानदर्शनातिचारशुद्धयर्थं च तत् प्रायश्चित्तं मोक्षार्थि नाऽवश्यं ज्ञेयम् / तद्भेदानाहतं दसविहमालोअणपडिकमणोमयविवेगवुस्सग्गे / तवछेयमूलअणवठ्ठया य पारंचियं चेव // 4 // व्याख्या-अन्वयः सुगमः। भावार्थ ब्रमः-तत् प्रायश्चित्तं दशविधम्-आलोचनार्दादि / तत्राऽऽलोचनाहम्-आ-मर्यादया-'जह बालो जंपंतो कज्जमकजं च उज्जु भणइ / तं तह आलोइज्जा मायामयविप्पमुक्को अ' // इत्येवंरूपयाऽऽलोचनं-गुरोः पुरतः प्रकाशनं तावन्मात्रेणैव यस्य पापस्य शुद्धिस्तदाऽऽलोचनाई, तद्विशोधकं प्रायश्चित्तमप्युपचाराद् आलाचनाहम् / एवं सवष्वप्युपचारा दृष्टव्यः / 1 / यन् मिथ्यादुष्कृतमात्रेणैव शुद्धयति, न गुरोरालोच्यते तत् प्रतिक्रमणाहम् / 2 / यच्च प्रतिसेव्य गुरोरालोच्यते, गुरूपदेशेन च विशुद्धयर्थं मिथ्यादुष्कृतं दीयते तत्तदुभयाहम् / 3 / यस्य चानेषणीयग्रहणादेवि धिना परित्यागेनैव शुद्धिस्तद् विवेकाहम् / 4 / कायचेष्टानिरोधोपयोगमात्रेणैव यहःस्वप्नादिकमिव शुद्धथति, तव्युत्सर्गार्हम् / 5 / यत्र प्रतिसेविते निर्वि कृत्यादि पाण्मासिकान्तं तपो दीयते, तत्तपोऽहम् / 6 / यथा शेषाङ्गरक्षार्थ व्याधिदूषितमङ्गं छिद्यते, एवं व्रतशेषपर्यायरक्षार्थमतीचारानुमानेन दूषितः पर्यायो यत्र छिद्यते, तत् छेदाहम् / 7 / यस्यां चाऽऽसेवनायां सर्वपर्यायमपनीय पुनर्महाव्रतारोपणं क्रियते तन् मूलाहम् / 8 / यत्र प्रतिसेविते उपस्थापनाया अप्ययोग्यत्वेन यावदनाचीर्णविशिष्टतपास्तावदनुप (नव) स्थाण्यः क्रियते पश्चाचीर्णतपाः पुनर्महाव्रतेषु स्थाप्यते, तदनवस्थाप्याहम् / 9 / लिङ्गक्षेत्र-- कालतपोभिर्बहिष्कृतः तपसा अपराधस्य पारं-तीरमश्चतीत्येवं साधुकारी ततो दीक्ष्यते यः स पाराश्चो, पाराच्येव पाराश्चिकः, येन कर्मणा पाराश्चिकः क्रियते तत् पाराञ्चिकाहम् / 10 / एष सझेपतो भावार्थः / विस्तरस्तु दशानामपि प्रायश्चित्तानां स्वस्वविषयनिरूपणायां ज्ञेयः / इह प्रायश्चित्तानि दश,