________________ संवर-निर्जरानिरूपणम् वृत्तः-पात्रबन्धप्रन्थिदानादिक एकदा नवो जातः, ततोऽनुवृत्तः पुरुषान्तरं यावत् , ततः प्रवृत्तः-पुरुषप्रवाहेण / अत एव बहुश आसेवितो महाजनेन-बहुश्रुतनिवहेन / भाष्यकृताप्युक्तं-'वत्तो नामं एक्कसि, अणुवत्तो जो. पुणो बिइअवारे / तइअव्वारपवत्तो सुपरिग्गहिओ महाणेण' // 'बहुसो बहुस्सुएहिं जो वत्तो न य निवारिओ होइ / वत्तणुवत्तपमाणं जीएण कयं हवइ एयं' // एष जीतकल्पः पञ्चमो व्यवहारो भवति ज्ञातव्यः / इह पञ्चसु व्यवहारेषु सत्सु आगमव्यवहारिभ्य एव प्रायश्चित्तमादेयम् , आगमव्यवहारिणो यतिशयिनः सक्लिश्यमानं, विशुद्धथानम् अवस्थितपरिणामं वा ज्ञात्वा श्रुतादधिकं हीनं वा तन्मात्रं वा तावद्ददति यावता शुद्धयति / न श्रुतमनुरुद्धयन्ते / तदभावे श्रुतव्यवहारिभ्यो प्रोमं / ते हि श्रुतमनुवर्तमाना इङ्गिताकारनेत्रक्क्त्रवचनविकारैः भावं-संवेगाद्युपलक्ष्य त्रीन् वारानतीचारालोचनां कारयित्वा परिकुश्चितमपरिकुञ्चितं वा ज्ञात्वा श्रुतोक्तं प्रायश्चित्तं ददति / तथाविधाऽऽसन्नश्रुतधराभावे आज्ञाव्यवहारेण दूरस्थानामपि गीतार्थाऽऽचार्याणां पार्थात् प्रायश्चित्तमानाययितव्यम् / तेषामप्यभावे श्रुतधरपाविधारितप्रायश्चित्तपदेभ्यो धारणाव्यवहारिभ्यो ग्राह्यम् / ते च द्वयेऽपि श्रुतोक्तप्रदत्वात् श्रुतव्यवहारकल्पा एव / सर्वेषां चैषामप्राप्तौ जीतेन व्यवहारः / जीतं-श्रुतोक्तापत्तितो हीनमधिकं वो परम्परयाऽऽचीर्णं तेन व्यवहारः / अयं सर्वत्र यावत्तीथं भवति / एष च ग्रन्थः प्रायश्चित्तप्ररूपणार्थमेवोपक्रान्तस्ततः प्रायश्चिन्तप्राधान्यख्योपनार्थ गाथाद्वयमाहसंवरविणिज्जराओ मुक्खस्स पहो तवो य हो तासि / तवसो अपहाणंगं पच्छित्तं जं च नाणस्स // 2 // सारो चरणं तस्स वि निव्वाणं चरणसोहणत्थं च / पच्छित्तं तेण तयं नेयं मुक्खत्थिणाऽवस्सं // 3 // व्याख्या-संवरणं संवर-आश्रवद्वारप्रविशत्कर्मनिरोधः / आश्रवश्च मिथ्यादर्शनाऽविरतिकषाय-प्रमाद-कायवाङ्मनोयोगाः। तत्र मिथ्यादर्शनं प्रतीतम् / अविरतिः-प्राणातिपातादीनामनिषेधः / कषायाः-क्रोधादयः। प्रमादो-निद्राविकथामधेन्द्रियस्वेच्छाप्रवृत्त्यात्मकः / काययोगों-धावनवल्गनवरण्डाघुल्लङ्घनबाह्वाऽऽस्फालनाद्या अशुभचेष्टाः / वाग्योगोऽङ्गुष्ठपर्वादौ जीव इत्याद्यसद्भूतोद्भावनं 'नवकम्बलो देवदत्त' इत्यादि छलहिंस्रपरुषालीकपैशुन्यवचनादिः / मनोयोगः-परसम्पत्त्यसहनत्वाऽमर्षभयशोकमिथ्याभिसन्धारणरागद्वेषाऽकुशलसङ्कल्पादिः / एतैरैस्तस्य तस्य कर्मणः प्रविशतः सम्यक्त्व-विरतिनिष्कषायत्वा-ऽप्रमत्तत्वशुभयोगत्वाऽङ्गीकरणकपाटदानेन निवारणमित्यर्थः। विशेषेण निर्जरणं विनिर्जरापूर्वोपचितशुभाऽशुभकर्मपरिशाटरूपा / सा पुनः समिति-गुप्ति-श्रमणधर्म-भावना-मूलगुणोत्तरगुणपरीषहो-पसर्गाधिसहनरतस्य भवति / तत्र समितिगुप्तयः प्रतीताः / श्रमणधर्मो दशधा क्षान्त्यादिः / भावना द्वादशधा अनित्यताद्याः। मूलगुणाः पञ्च प्राणातिपातविरत्याद्याः / उत्तरगुणाः ‘पिंडस्स जा विसोही समिइओ भावणा तवो दुविहो / पडिमा अभिग्गहावि अउत्तरगुणमो विआणाहि'।। परीषहाः क्षुदाद्याः-'खुहा पिवासा सीउण्हं दंसाचेलारइथिओ / चरिआ मिसीहिआ सिज्जा अकोसवहजायणा // अलाभरोगतणफासा मलसक्कारपरीसहा / पण्णा अण्णाण सम्मत्तं इस बावीस परीसहा // 2 // उपसर्गाः दिव्याद्याः-'दिव्या माणुस्सया चेव तेरिच्छा य विआहिआ /