________________ यति-जीतकल्पे मासचउमासछक्के अंगुलचउरो तहेव छक्कं तु / एए छेअविभागा नायव्वा अहक्कमेणं तु' // इहाङ्गलशब्देन माससङ्केतः। ततश्च पश्चके-दिनपञ्चके छेद्ये अङ्गलषड्भागच्छेद्य इति व्यपदिशन्ति / भवन्ति हि त्रिंशदिनमानस्य मासस्य षड्भागे छेो पञ्च, दशरात्रे छेद्ये त्रिभागः, पञ्चदशसु छेद्येष्वर्द्ध, विंशतौ छेद्यायां त्रिभागोनमङ्गलं, पञ्चविंशतौ छेद्यायां षड्भागोनमङ्गुलं छेद्यमिति / एकद्वित्रिचतुष्पश्चषडोदिमासेषु छेथेषु तत्सङ्ख्योन्यङ्गलानि छेद्यानीति निर्दिशन्ति / एते छेदविभागाः क्रमेण ज्ञातव्याः / सर्वपर्यायच्छेदेनाप्यशुद्धौ गच्छन्तु साधवो व्रतस्य मूलम्-अष्टमप्रायश्चित्तभाजो भवन्तु / तस्याऽप्ययोग्यतायां अव्यापृता वा गच्छेयुरव्योपाराः सन्तिष्ठन्तु-अनवस्थाप्यारे भवन्त्वित्यर्थः / तेनाऽप्यशुद्धौ अद्वितीया वा विहरन्तु-एकाकिनः सन्तो दशमप्रायश्चित्ताऽऽसेविनो भवन्तु इति / दर्पिकासेवनाप्रायश्चित्तान्युक्तानि / कल्पिकासेवनायोः प्राह __'बिइअस्स य कज्जस्सा तहि चउवीसयं निसामित्ता / आउत्तनमुक्कारा भवन्तु एवं भणिज्जाहि॥ द्वितीयस्य कार्यस्य कल्पिकासेवनाख्यस्य दर्शनादिपदगोचरामासेवनां शिष्येण कथितां श्रुत्वा गुरुराह-आयुक्ताः-संयमोद्यमविधायिनः पञ्चपरमेष्ठिस्मरणपरा भवन्तु सूरयोऽप्रायश्चित्तेन इति भावः। नवरं-'कारणपडिसेवावि हु सावज्जा निच्छए अकरणिज्जा' / किं सर्वथा ? नेत्याह-'बहुसो वि आरइत्ता' कर्तव्येतिशेषः / अधारणिज्नेसु अत्थेसु ' अत्यागाढकारणेष्वित्यर्थः / 'जइवि अ समणुण्णाया' प्रक्रमात् सावधप्रतिसेवा। तहवि अ दोसो न वज्जणे दिट्ठो 'दढधम्मया हु एवं नाभिक्खनिसेव निद्दयया'|| 'एअं नाऊण तहिं जहोवएसेण देइ पच्छित्तं / आणाइए स भणिओ ववहारो धीरपुरिसेहिं' एवं द्रव्यक्षेत्रकालभावसंहननधृतिबलादिकं तस्य प्रतिसेवकस्य ज्ञात्वा यथोपदेशेन, गूढपदैः प्रायश्चित्तं ददाति / कोऽर्थः ? तस्य शिष्यस्याऽग्रे कथयित्वो लिखित्वा वा समर्थ्य प्रेषयति / एष आज्ञाव्यवहारः / धारणाव्यवहारस्तु संविग्नेन गीतार्थेणाऽऽचार्येण द्रव्यक्षेत्रकालभावपुरुषप्रतिसेवना अवलोक्य यत्रापराधे यत् प्रायश्चित्तं दत्तं तद् दृष्ट्वाऽन्योऽपि तेष्वेव द्रव्यादिषु तादृश्येवाऽपराधे तदेव प्रायश्चित्तं ददाति / एष धारणाव्यवहारः। अथवा वैयावृत्त्यकरस्य गच्छोपग्रहकारिणः स्पर्द्धकपतेर्वा प्रवर्तकस्य संविनस्य देशदर्शनसहायस्य वाऽनेकशः कृतकार्यस्य समस्तछेदश्रुतदानाऽयोग्यस्य सानुग्रहो गुरुः कानिचिदुद्धतानि प्रायश्चित्तपदानि कथयति / स तान्यवधार्योद्धृतपदालोचनां ददाति स धारणाव्यवहारः। उक्तं च __ 'गोअत्थेणं दिन्नं सुद्धि अवधारिऊण तह चेव / दितस्स धारणा सा उद्धिअपयधरणरूवा वा।। एते चत्वारो व्यवहाराः / पञ्चमस्तु जीतव्यवहारः-येष्वपराधेषु पूर्वमहर्षयो बहुना तपःप्रकारेण शुद्धिं कृतवन्तस्तेष्वपराधेषु साम्प्रतं द्रव्यक्षेत्रकालभावान् विचिन्त्य संहननादीनां च हानिमासाद्य तदुचितेन केनचित्तपःप्रकारेण यां गीतार्थाः शुद्धिं निदि शन्ति तत् समयभाषया जीतमुच्यते / अथवा यद्यत्र गच्छे सूत्रातिरिक्तं कारणतः प्रायश्चित्तं प्रवर्तितम् , अन्यैश्च बहुभिरनुवर्तितं तज्जीतं, तस्य जीतस्य व्यवहारो जीतव्यवहारः / स चायम्fine 'वत्तणुवत्तपवत्तो बहुसो आसेविओ महाणेण / एसो हु जीअकप्पो पंचमओ होइ नायव्वो'।