________________ 165 पाराश्चिकस्वरूपम् वटस्याधोऽध्वना कश्चिद् भिक्षाचर्यां गतो मुनिः / भृतपात्रो वलन् वेगात् क्षत्तुड्ग्रीष्मार्कतापितः // 16 // तच्छाखायामास्फलितो रुष्टस्तस्यामसौ निशि / स्यानयुदयतो गत्वा भक्त्वा शाखां समागतः / / 17|| __विन्यस्योपाश्रयद्वारे सुप्तः स्वप्नं न्यवेदयत् / प्रातः स्त्यानर्द्धिमान् ज्ञात्वा लिङ्गपाराश्चिकः कृतः॥१८॥ केप्याहुः प्राग वनेभोऽभूत् सोऽथ स्त्यानर्द्धिमान्नरः / सञ्जातप्राग्भवाभ्यासाद्वटशाखां ततोऽभनक् / / 19 / / उक्तो मूढपाराश्चिकः / अन्योन्यकुर्वाणः पाराश्चिकस्तु 'अन्नोन्नासेवणापसत्तो अ' 'अन्योन्यं' पुरुषः पुरुषान्तरेण सह परस्परं मुखपायुप्रयोगतो मैथुनासेवायां प्रसक्तः / तथा चरमस्थानं-पाराश्चिकं तदापत्तिहेतवोऽतिचारास्तेषु बहुशः-पौनःपुन्येन यश्च प्रसजति-प्रसक्तो भवति स पाराश्चिकः क्रियत इत्यर्थः // एतदेवाहसो कीरइ पारचिअ लिंगाओ खित्तकालओ तवओ / संपागडपडिसेवी लिंगाओ थीणगिद्धि अ॥ ___ व्याख्या-पाराञ्चिकश्चतुर्धा-लिङ्गतः क्षेत्रतः कालतस्तपोविशेषतश्च / तत्र लिङ्गपाराश्चिके द्रव्यभावलिङ्गाभ्यां चतुर्भङ्गो / द्रव्यलिङ्गेन पाराञ्चिको भावलिङ्गेन च 1, द्रव्यलिङ्गेन पाराश्चिको, न भावलिङ्गेन 2, भावलिङ्गेन पाराश्विको, न द्रव्यलिङ्गेन 3, उभाभ्यामपि न पारोश्चिक इति चतुर्थः शुद्धः / तत्र सम्प्रकटप्रतिसेवी राजाग्रमहिष्यादिसेवकः स्त्यानर्द्धिमांश्च चशब्दादन्योन्यासेवनाप्रसक्तो राजवधकश्च / लिङ्गतः पाराचिको-द्रव्यभावलिङ्गाभ्यां पोराश्चिकः क्रियत इत्यर्थः / क्षेत्रपाराश्चिकं गाथाद्वयेनाहवसहि-निवेसण-पाडग-साहि-निओगपुर-देस-रजाओ। खित्ताओ पारची कुलगणसंघालयाओ वा॥ जत्युप्पन्नो दोसो उप्पज्जिस्सइ व जत्थ नाऊणं / तत्तो तत्तो कीरइ खित्ताओ खित्तपारची // 294 // व्याख्या-वसतिः प्रस्तावाद् प्रामः / निवेशनम्-एकनिर्गमप्रवेशद्वारो ग्रामयोरन्तराले द्वयादिगृहाणां सन्निवेशः / एवंविधस्वरूप एव ग्रामान्तर्गतः पाटकः / साही-शाखा शाखारूपेण श्रेणिक्रमेण स्थिता ग्रामगृहाणामेकतः परिपाटिः। नियोगपुरं-निश्चिता योगा-दिनकृत्यव्यापारा यस्य स नियोगो-राजा तस्य पुरं राजधानी / देशो-जनपदः / राज्यं-राष्ट्र / यावत्सु देशेष्वेकभूपतेराज्ञा तावद्देशप्रमाणम् / एषां द्वन्द्वस्तस्मात् क्षेत्रात् पाराश्चिकः / कुलगणसङ्घोलयाद्वा कुलगणसङ्घानामाऽऽ-सामस्त्येन यत्र क्षेत्रे लयनं-मिलनं तस्माद्वा / यत्र क्षेत्रे वसतिनिवेशनादिके उत्पन्नो दोषः पाराश्चिककारी उत्पत्स्यते वा यत्र तिष्ठतो दोषस्तद् ज्ञात्वा ततस्ततः क्षेत्रोत्क्षेत्रपाराञ्चिकः क्रियते // कालतपःपाराञ्चिकावाहजत्तिअमित्तं कालं तवसा पाचिअस्स वि स एव / कालोदुविगप्पस्स वि अणवठ्ठप्पस्स जो भणिओ। व्याख्या- 'सूचकत्वात् सूत्रस्य' यो यावन्तं कालमनुपशान्तदोषोऽनुपरतपाराश्चिकापत्तिहेत्वति. चारः स तावन्तं कालं कालपाराश्चिकः / तपसा पाराश्चिको द्विविधः-आशातनापाराश्चिकः प्रतिसेवनापाराश्चिकश्च / आद्यः प्रागुक्तरूपः / प्रतिसेवनापाराश्चिकनिधा-दुष्टः प्रमत्तोऽन्योन्यकुर्वाणश्च / आद्यान्त्य