________________ 166 यति-जीतकल्पे भेदौ प्रागुक्तरूपौ / प्रमत्तो-मूढः / स पञ्चधा-कषोय-विकथा-मद्ये-न्द्रिय-निद्राख्यैः प्रमादभेदैविस्तरेणाख्येयः। अस्य च तपःपाराञ्चिकस्य द्विविकल्पस्यापि स एव कालः-प्रमाणसमयो यः पूर्वमनवस्थाप्यस्यामिहितः / तस्य चेयं योजना आशातनातपःपाराश्चिकस्य जघन्येन षण्माला उ-कर्षेण वर्ष / प्रतिसेवनापाराञ्चिकस्य तु जघन्येन वर्षम् / उत्कर्षेण द्वादश वर्षाणि / तथा पाराश्चिकमप्यनवस्थाप्यमिव संहननादिगुणवत एव दीयते / तपोऽपि पारिहारिकाख्यमनवस्थाप्यस्येव पाराश्चिकस्यापि भवति / / प्रतिपन्नपाराचिकस्य साधोविधिमाहएगागी खित्तबहिं कुणइ तवं सुविउलं महासत्तो / अवलोअणमायरिओ पइदिणमेगो कुणइ तस्स // व्याख्या-एकाकी महासत्त्वो जिनकल्पिकप्रतिरूपः क्षेत्राद् बहिः स्थितः सुविपुलं पारिहारिकतपोरूपं तपः करोति / स च यत्र यत्र क्षेत्र आचार्यों विहरति ततस्ततः क्षेत्रादर्द्धयोजनं परिहत्य बहिः तिष्ठति / बहिः स्थितस्य च तस्याचार्यः प्रतिदिवसमवलोकनं करोति / सूत्रार्थों पौरुष्यो द्व अपि दस्त्वा तस्य समीपं याति / अर्थपौरुषीमदत्त्वा वा याति / अथवा द्वे अप्यदत्त्वा याति / अथाचार्यो दुर्बलः तत्समीपं गन्तुमक्षमः कुलगणादिकार्येण वा व्यापृतः ततो गोतार्थं शिष्यं तत्र प्रेषयति / तत्र आचार्य- . स्याचार्यप्रेषितस्य वा शिष्यस्य तत्समीपं गच्छतस्तत्समीपादागच्छतो वाऽपान्तराले साधवो भक्तं पानं चोपनयन्ति / पाराञ्चिकसाधुस्तु यद्यग्लानस्तदो स्वयमेव भक्तपानादिकमानयति / प्रतिलेखनामुदत्तनादिकं च करोति / अथ ग्लानः ततः तस्याचार्योऽन्यो वा साधुभक्तपानाधुपनयति / प्रतिलेखनामुद्वर्तनादिकं च करोति / सूत्रार्थेषु चाचार्योऽन्यो वा तस्य पृच्छायोमुत्तरमपि ददाति / एवमेतत्संक्षेपतः पाराश्चिक भणितम् / / पुनरनवस्थाप्यपाराश्चिकयोर्विशेषस्वरूपमाहअणवठ्ठप्पो तवसा तवपार'ची अ दो वि वुच्छिन्ना / चउद्दसपुव्वधर'मि धरति सेसाउ जा तित्थं // व्याख्या-तपोऽनवस्थाप्यस्तपःपाराश्चिकश्च चतुर्दशपूर्वधरे श्रीभद्रबाहुस्वामिनि द्वावपि व्यवच्छिन्नौ। शेषास्तु लिङ्गक्षेत्रकालानवस्थाप्यपाराञ्चिका यावत् तीर्थ धरन्ति-अनुव्रजन्ति भवन्तीत्यर्थः / / अथ साम्प्रतं केषां साधूनां कियन्ति प्रायश्चित्तानि भवन्तीति गाथाद्वयेन दर्शयन्नाहसामाइअसंजयाणं पच्छित्ता छेयमूलरहिअट्ठा / थेराण जिणाणं पुण तवअंतं छव्विहं होइ // 298 // व्याख्या-सामायिकसंयतानां स्थविराणां-स्थविरकल्पिकानां छेदमूलरहितानि शेषाण्यष्टौ प्रायश्चित्तानि भवन्ति / जिनानां-जिनकल्पिकानां पुनः सामायिकसंयतानां तपःपर्यन्तं षड्विधं प्रायश्चित्तं भवति / / छेओवट्ठावणिए पायच्छित्ता हवंति सव्वे वि / थेराण जिणाणं पुण मूलंतं अट्टहा होइ // 299 // व्याख्या- छेदोपस्थापनीये संयमे वर्तमानानां स्थविराणां सर्वाण्यपि प्रायश्चित्तानि भवन्ति / जिनकल्पिकानां पुनर्मूलपर्यन्तमष्टधा भवति / एते गाथे 'दसविहमालोअणे' त्योदिगाथावृत्तौ पञ्चचारित्रविषयप्रायश्चित्तदर्शनाधिकारे पूर्वं व्याख्याते अपि सम्प्रति चारित्रद्वयसद्भावोत् तद्विषयप्रायश्चित्त - प्रतिपादकत्वेन सूत्रान्तर्गते कृते इति पुनर्व्याख्याते // एवं दशविधमपि प्रायश्चित्तं क्रमेण प्रदर्शितम् / /