________________ 164 यति-जीतकल्पे द्वावप्येतौ लिङ्गपाराञ्चिकौ / तृतीयविषयदुष्टस्यातिशयी लिङ्गं दद्यान्नान्यः / अनतिशयी तु तस्यापि लिङ्गपाराश्चिकमेव दत्त इत्यर्थः / अत्राह शिष्यः-सामान्यत्रोसेवकः साधुः किं न पाराश्चिकः ? उच्यतेबह्वपाया राजाद्यग्रमहिष्यः / तत्सेवने कुलगणसङ्घाचार्याणां प्रस्तार:-संहाररूपो निर्विषयता वा स्यात् / इतरत्रीषु पुनर्बतभङ्ग एव दोषः / दोषवतः एव चैकम्यापाय इति तस्य मूलम् || व्याख्यातो दुष्टपाराञ्चिको, मूढपाराञ्चिकमाहथीणद्धिमहादोसो अन्नुन्नासेवणापसत्तो अ। चरमठाणावत्तिसु बहुसो अ पसज्जए जो अ॥२९१।। व्याख्या-स्त्यानर्द्धिः-दर्शनावरणीयकर्मभेदरूपस्य निद्रापञ्चकस्य पञ्चमो भेदः / यदुदयेऽतिसक्लिष्टपरिणामाद्दिनदृष्टमर्थमुत्थाय प्रसाधयति केशवार्द्धबलश्च जायते / तदनुदयेऽपि च स शेषपुरुषेभ्यस्त्रिचतुर्गुणबलो भवति / इयं च प्रथमसंहननिन एव भवति / अयमेव च महान् देषो यस्य स त्यानर्द्धि महादोषः / अयं च मूढः प्रमत्तश्च कथ्यते / एते च पुद्गल-मोदक-हस्तिदन्त कुम्भकार-वटशाखासाधवः पश्च स्त्यानर्द्धयामुदाहरणानि / तद्यथा एकः कौटुम्बिको ग्रामे मांसमेवात्त्यनेकधा / श्रुत्वा धर्म स केषाश्चित् समीपे व्रतमग्रहीत् / / 1 / / विचरंश्च कचिद् ग्रामे महिषं पिशितार्थिमिः / विभिद्यमानमद्राक्षीत् ततोऽभूत्तत्र सस्पृहः / / 2 / / सोऽन्युच्छिन्नतदाकाङ्क्षो भुक्तो यातो बहिर्भुवम् / सूत्रस्य पौरुषीं चान्त्यां चक्रे सुप्तस्तथा निशि / / 3 / / जातस्त्यानचिरेषोऽथ गत्वा महिषमण्डलम् / हत्वकं भुक्तवान् शेष-मेत्य सद्मोपरि न्यधात् // 4 // इदृग् दृष्टः प्रगे स्वप्न इत्यालोचितवान् गुरोः / दिशो विलोकने तच्च मुनिमिमांसमीक्षितम् / / 5 / / सोऽथ स्त्यानर्द्धिमान् ज्ञात्वा लिङ्गपाराञ्चिकः कृतः / साधुभिक्षां भ्रमन् कोऽपि मोदकान् वीक्ष्य कुत्रचित् // 6 // चिरमैक्षिष्ट गृद्धस्तान-लब्ध्वाऽशेत तन्मनाः / जातस्त्यानर्द्धिरुत्थाय गत्वा तद्भवनं निशि // 7 // मित्त्वा कपाटमत्ति स्म मोदकानुतानथ / पात्रे भृत्वाश्रये प्राप्तः प्रातः स्वप्नं न्यवेदयत् / / 8 / / दृष्टाः पादोनपौरुष्यां ते पात्रप्रतिलेखने / लिङ्गपाराश्चिकः सोऽपि ततो गुरुभिरादधे / / 9 / / एकः साधुर्गतो मिक्षां त्रासितः करिणा ततः / पलायितः कथमपि तस्मिन् रुष्टश्च सुप्तवान् / / 10 / / जातस्त्यानर्द्धिरुत्थाय गत्वा व्यापाद्य तं गजम् / आनीय दन्तमुसले विन्यस्योपाश्रयोपरि // 11 // पुनः सुप्तः प्रगे स्वप्नं व्याचक्रेऽथ तपोधनैः / दृष्ट्वा दन्तान् स विज्ञातो लिङ्गपाराश्चिकः कृतः // 12 // गच्छे महति कस्मिंश्चित् प्रावाजीत कुम्भकारकः / सुप्तः स्त्यानर्द्धिभाग रात्रौ मृत्तिकाभ्यासतः स तु / / ___ समीपस्थितसाधूनां छेदं छेदं शिरांस्यधीः / एकान्ते न्यक्षिपत्तानि शिर्षाणि च वपूंषि च // 14 // शेषा अपमृता भूयः सुप्तः स्वप्नं प्रगेऽवदत् / मृतान् वीक्ष्याथ साधून स लिङ्गपाराश्चिकः कृतः॥१५॥