________________ पाराश्चिकस्वरूपम् 163 विषयदुष्टे च चत्वारश्चत्वारो भङ्गा भवन्ति / तत्रैवं कषायदुष्टे भङ्गचतुष्टयं-सपक्षकषायदुष्टः परपक्षकषायदुष्टश्चेत्येको भङ्गः / सपक्षकषायदुष्टो, न परपक्षकषायदुष्ट इति द्वितीयः। न सपक्षकषायदुष्टः, परपक्षकषायदुष्ट इति तृतीयः / उभाभ्यामपि न दुष्ट इति चतुर्थः / शुद्धो भङ्गः / उक्तं च__ दुविहो अ होइ दुबो कसायदुट्ठो अ विसयदुट्ठो अ / दुविहो कसायदुट्ठो सपक्खपरपक्ख चउभङ्गो // तत्र सपक्षकषायदुष्टे चत्वायुदाहरणानि-सासवनाले, मुहणतए अ, सिहरिणि, उलूगच्छी / सोसवनालं ति सर्षपभर्जिका / साधुः कोपि गतो भिक्षा लब्ध्वा. सर्षपभर्जिकाम् / रुच्यां सुसंस्कृतां गृद्धोऽप्याचार्याणामढौकयत् // 1 // भुक्ता सर्वापि साचायः साधुश्चाक्रोशयत् स तान् / ततस्तैः क्षमितोप्युच्चै-रूचे भक्ष्यामि ते रदान् // 2 // गुरुणाऽचिन्ति मामेष मा वधदसमाधिनो / स्वगणेऽन्यमथाचार्य कृत्वा चागाद् गणान्तरे // 3 // मृतश्चानशनात्तत्र सोऽथ दुष्टोऽवदन् मुनीन् / गुरवः क्वागमन्नूचु-न विद्मोऽन्यतोऽथ सः // 4 // ज्ञात्वा तत्राऽगमत्तांश्चापृच्छत् सोधून गुरुः क मे। तैरूचेऽद्य मृतस्त्यक्तं श्मशानेऽस्ति च तद्वपुः / / गत्वा तत्राथ तद्दन्तान् स भनक्ति च वक्ति च / खादिष्यसि पुनः किं मे रच्यां सर्षपभर्जिकाम् // अन्यः कोऽपि मुनिलब्ध्वा मुखानन्तकमुज्ज्वलम् / गुरोरढौकयत्तच्चा-ददे तैः सोऽपि रुष्टवान् // 7 // " तदेवार्पयतोऽप्यस्य नाददे किं पुनर्निशि / तल्लास्यसीति जल्पन् स गुरुं गाढं गलेऽग्रहीत् / / 8 / / संमूढो गुरुरप्येनं ततो द्वावपि तौ मृतौ। साधुना केनचित्क्वापि लब्धा शिखरिणी शुभा / / 9 / / तथा निमन्त्रितस्तेन गुरुस्तां निखिलां पपौ। तं सोऽथाश्मानमुद्गीर्य हिंसन्नन्यैर्व्यवार्यत // 10 // तथाप्यनुपशान्ते च तस्मिन्ननशनं गुरुः / स्वगच्छ एव विदधे नोन्यं गच्छं जगाम सः // 11 // अस्तंगतेऽपि कोऽप्यर्के सीव्यन् गुरुभिरौच्यत / उलूकाक्षोऽसि मिक्षो ! त्वं स रुष्टो गुरुमूचिवान् // 12 // तदैवं वदतो द्वे अ-प्यक्षिणी उद्धराम्यहं / अथासौ गुरुणा गाढं क्षमितोऽपि न शान्तवान् // 13 // ततो रजोहृतेर्लोह-मयीमाकृष्य कीलिकाम् / रोषाध्मातः स दुष्टात्मा समुद्दधेऽक्षिणी गुरोः // 14 // ___ एते चत्वारोऽपि सोधवो दुष्टत्वाल्लिङ्गपाराश्चिकाः। परपक्षकषायदुष्टस्तु राजवधक उदायिनृपमारकवत् / विषयदुष्टे चैवं भङ्गचतुष्टयं-स्वलिङ्गी स्खलिङ्गीनों साध्वी सेवते 1, स्वलिङ्गी गृहिलिङ्गां नियं 2, स्वलिङ्गी अन्यलिङ्गिनी परिव्राजिकादिकाम् 3, अन्यलिङ्गी चान्यलिङ्गामिति 4, शून्योऽयं भङ्गः / तत्राद्यो विषयदुष्टः पावाणं पावयरो दिदिब्भासे वि सो न कायव्वो / जो जिणमुदं समणिं नमिऊण तमेव धरिसेइ // द्वितीयविषयदुष्टस्तु बहुशः-पौनःपुन्येन प्रकाशो-लोकविदितः राजाप्रमहिषीप्रतिसेवकः / अग्रमहिपोग्रहणोदन्यापि या काचिदिष्टा राज्ञस्तत्सेवकश्च, चशब्दायुवराजसेनापत्याद्यप्रमहिषीसेवकश्च /