________________ यति-जीतकल्पे संज्झागयं रविगयं विडेरं सग्गहं विलंबि च / राहुहयं गहमिन्नं च वज्जए सत्त नक्खत्ते / / तत्र लोकश्रीटीकाकारव्याख्या सूर्ययुक्तादनन्तरं नक्षत्रं सन्ध्यागतं / रविर्यत्र चारवशाद्वर्त्तते तद् रविगतं / यस्मिन्नक्षत्रे ग्रहो वक्रमुपयाति युद्धं वा विधत्ते तद्विड्डेरं / भौमादिक्रूरग्रहेरेवोपयुक्तं नक्षत्रं सग्रहं / सूर्यास्तकालेयन्नक्षत्रमुदेति तद्विलम्बितं / राहुणा मुखेनाक्रान्तं पुच्छेन वा तद् राहुहतं / अन्ये त्वाहुयस्मिन्नक्षत्रेग्रहणमासीत्तद्यावद् रविणा न युक्तं तावद् राहुहतमिति / यन्मध्यं ग्रहो विभिद्य निर्गच्छति तद्ग्रहभिन्नं / केचित्त्वेवं ब्रुवते जंमि रविनक्खत्ते ततो संज्झागयं तु चउदसमं / विडडेरं बीइज्ज होइ चउत्थं विलंबि च / / आलोचनानन्तरं च जघन्येन मासमुत्कर्षतः षण्मासादिकमनवस्थाप्यतपः प्रपद्यमाने आलोचनादायकः कायोत्सर्ग करोति / 'एअस्सायरिअम्स अणवटुप्पतवस्स निरुवसग्गनिमित्तं ठामि काउस्सग्गं अन्नत्थूससिएण' मित्यादि वोसिरामीति यावत् / चतुर्विशतिस्तवमनुचिन्त्य पारयित्वा चतुर्विशतिस्तवमुच्चार्याऽऽचार्यों वक्ति एस तवं पडिवज्जइ न किंचि आलवइ मा य आलवह / अत्तचिंतगस्स उ वाघाओ भे न कायव्यो। एष युष्मानालापयिष्यति युष्माभिरपि नालाप्यः / एष सूत्राी शरीरवाता वो न प्रक्ष्यति युष्माभिरपि न पृच्छयः / खेलमल्लकमात्रकादिकं वा नास्य ग्राह्यमर्पणीयं वा / उपकरणं परस्परं न प्रतिलेख्यं / भक्तपानं परस्परं न ग्राह्यं / सङ्घाटकेऽस्य न मिलनीयं / अनेन सहकमण्डल्यां न भोक्तव्यं / किमप्यनेन सार्द्ध न कार्य कार्यमिति / अधुना गाथारार्थः-प्रतिपन्नानवस्थाप्यतपाः शैक्षादीनपि वन्दते, न चासौ वन्द्यते / परिहारतपश्च-पारिहारिकसाधूनां तपः ग्रीष्मे चतुर्थषष्ठाष्टमानि / शिशिरे षष्ठाष्टमदशमानि / वर्षावष्टमदशमद्वादशानि जघन्यमध्यमोत्कृष्टानि / पारणके च निर्लेपभक्तमित्येवंरूपं सुदुश्चरं तपश्चरति / संवासःसहवासो गच्छेनास्य एकक्षेत्रे एकोपाश्रये एकस्मिन् पार्श्व शेषसाध्वपरिभोग्यप्रदेशे कल्पते, नालपनादीनि शेषाणीत्येष सङ्खपतोऽनवस्थाप्यविधिः // उक्तमनवस्थाप्याहं साम्प्रतं पाराञ्चिकमाह - तित्थयरपवयणे सुअं आयरिशं गणहरं महडिअं। आसायंतो बहुसो आभिनिवेसेण पारंची // 289 // व्याख्या- तीर्थकरादीन आशातयन्-हीलयन् आशातनापाराश्चिको भवति / प्रतिसेवनापाराश्चिकमाहजो उ सलिंगे दुट्ठो कसायविसएहिं रायवहगो अ / रायग्गमहिसिपडिसेवओ अ बहुसो पगासो अ॥ व्याख्या-इह प्रतिसेवनापाराश्चिकनिधा-दुष्टो मूढोऽन्योन्यं कुर्वाणश्च / यदाह पडिसेवणपारंची तिविहो सो होइ आणुपुव्वीए / दुढे अपमत्ते आनायवे अन्नमन्ने अ / / यश्च दुष्टः। स द्विधा-कषायतो विषयतश्च / पुनरेकैको द्विधा / सलिङ्ग त्ति / समानलिङ्गे-सपक्षे श्रमणश्रमणीरूपे, चकारात् परलिङ्गे च परपक्षे गृहस्थेऽन्यतोर्थिक वा / ततश्च सपक्षपरपक्षाभ्यां कषायदुष्टे