________________ अनवस्थाप्यस्वरूपम् जत्तिअमित्तं कालं तवसा उ जहन्नएण छम्मासा / संवच्छरमुकोसं आसायइ जो जिणाईणं // 286 / / व्याख्या-यो यावन्तं कालं दोषान्नोपरमते तावन्तं कालमनवस्थाप्यः क्रियते / तपसा त्वभवस्थाप्यो द्विधा-आशातनानवस्थाप्यः प्रतिसेवनानवस्थाप्यश्च / तत्र जिनादीनां-तीर्थकरसङ्घश्रुताचार्यमहर्द्धिकगणधराणामोशातनं यः कुर्यात् / यथा तीर्थकरैः सर्वोपायकुशलैरपि गृहवासत्यागादिकाऽतिकर्कशा देशना कृताः / यदि च गृहवासो न श्रेयान ततः किमिति स्वयं गृहवासे वसन्ति स्म भोगांश्च भुक्तवन्त ?इत्येवं तीर्थकृतोऽधिक्षिपेत् / सङ्घ च दृष्ट्वाऽवज्ञया वदेत्-हुं हुं दृष्टा मयाऽरण्येऽपि सङ्घाः शृगालश्वानवृ. कचित्रकादीनामिति / श्रुतं चैवमधिक्षिपति / यथा काया वया य ते चिअ पुणोवि ते च्चिअ पमाय अपमाया / मोक्खस्स देसणाए जोइसजोणिहिं किं कजं / / आचार्य च जात्यादिभिरधिक्षिपति / महर्द्धिकाश्च गणभृतो गौतमादयः, यो वा यस्मिन् युगे प्रधानभूतस्तान् , ऋद्धिरससातगौरवप्रसक्ताः कथका इव लोकाऽऽवर्जनोद्यता इत्यादिवाक्यैरधिक्षिपति आशातनातपोऽनवस्थाप्यः / स जघन्येन षण्मासान् उत्कषतः संवत्सरं यावत् तपः कुर्वन् कर्तव्यः / तावतो च तपसा क्षपिताऽऽशातनाजनितकर्मत्वात् तदूर्ध्व महाव्रतेषु स्थाप्यते / प्रतिसेवनानवस्थाप्यश्चोत्तरगाथायां वक्ष्यते // सा चेयम्वासं बारस वासां पडिसेवी कारणा उ सव्वोवि / थोवं थोवयरं वा वहिज मुंचिज वा सव्वं // 287 // - व्याख्या-प्रतिसेवी-प्रतिसेवनानवस्थाप्यः साधर्मिकाऽन्यधार्मिकस्तैन्याभ्यां हस्तातालादिभिश्च भवति / स च जघन्यतो वर्षम् उत्कृष्टतो द्वादश वर्षाणि / तदनन्तरं व्रतेषु स्थाप्यते / स चानवस्थाप्यः संहननादिगुणयुक्त एव क्रियते, अन्यस्य तु मूलमेव दीयते / तथा चोक्तं संघयणविरिअआगमसुत्तत्थविहीइ जो समग्गो अ / तवसी निग्गहजुत्तो पवयणसारे अ गहिअत्थे / तिलतुसतिभागमित्तो वि जस्स असुहो न विजई भावो / निज्जूहणारिहो सो सेसे निज्जूहणा नत्ति / एअगुणसंपउत्तो पावइ अणवट्ठमुत्तमगुणोहो। एअगुणविप्पहीणे तारिसगंमी भवे मूलं // तवसी-तपश्चरणवान् / निग्गहजुत्तो-जितेन्द्रियः / निज्जूहणारिहो-गच्छात्पृथक्करणाहः / अपवादतस्त्वनन्यसाध्यकुलगणसङ्घकार्यकारी / बहुजनसाध्यं च कार्य शृङ्गनादितमुच्यते, तत्साधकश्चायमित्यतः कारणात् सर्वोऽपि-द्विप्रकारोऽपि आशातनाप्रतिसेवनानवस्थाप्यतपो न कारयेदित्यर्थः। यस्त्वनवस्थाप्यतपः प्रतिपद्यते, तद्विधिमोहवंदइ न य वंदिज्जइ परिहारतवं सुदुच्चरं चरइ / संवासो से कप्पइ नालवणाईणि सेसाणि // 288 // व्याख्या-अनवस्थाप्यतपश्चरणकरणकालं यावत्स्वगणं गीतार्थे निक्षिप्याचार्य उपाध्यायो वो प्रशस्तेषु द्रव्यक्षेत्रकालभावेषु / तत्र द्रव्यतो वटादौ क्षीरघृक्षे / क्षेत्रत इक्षुशालिक्षेत्रकुसुमितवनखण्डप्रदक्षिणावर्त्तजलपद्मसरश्चैत्यगृहादिषु / कालतः पूर्वाह्ने / भावतः प्रशस्तेषु चन्द्रताराबलेसु सन्ध्यागतादिनक्षत्रवजमालोचनां प्रयुक्ते-स्वातिचारं प्रकाशयति / सन्ध्यागतादीनि चैतानि