________________ 160 यति-जीतकल्पे निर्दयो यः प्रहरति / एते त्रयोऽप्यनवस्थाप्याः क्रियन्ते / यदि वा आचार्यादीन् कोऽपि हिनस्ति ततस्त-मा रणेनापि तान् रक्षेत् / यदाह आयरिअस्स विणासे गच्छे अहवा वि कुलगणे संघे / पंचिंदिअवोरमणं पि काउं नित्थारणं कुज्जा / / एवं तु करितेणं अव्वुच्छित्ती कया उ तित्थंमि / जइ वि सरीरावाओ तहविह आराहओ सो उ / / यस्तु समर्थोऽप्यागाढे प्रयोजने न प्रगल्भते स विराधकः // तथाअभिसेओ सव्वेसु वि बहुसो पारंचिआवराहेसु / अणवठ्ठप्पावत्तिसु पसज्जमाणो अणेगासु // 283 // व्याख्या- इहाभिषेक-उपाध्यायः / स येषु येष्वपराधेषु पाराश्चिकमापद्यते तेषु बहुशः पाराश्चिकापराधेषु कृतेषु सर्वेष्वपि शुद्धिनिमित्तमनवस्थाप्यः क्रियते / यथा मिक्षोरनवस्थाप्यपाराश्चिके अपि प्राप्तस्य मूलमेव परमं प्रायश्चित्तं भवति / एवमुपाध्यायस्याप्यनवस्थाप्यमेव परमम् / तथा अनवस्थाप्यापत्तिषु अने.. कासु / अनवस्थाप्यापत्तिहेतवो येऽनेकाऽतिचारास्तेषु प्रसजन्-प्रसक्तो भवन्नुपाध्यायोऽनवस्थाप्यः क्रियते / / स चानवस्थाप्यः क्रियमाणः कस्मिन् कस्मिन् विषये क्रियत ? इत्याहकीरइ अणवठ्ठप्पो सो लिंगक्खित्तकालओ तवओ। लिंगेण दव्वभावे भणिओ पव्वावणाणरिहो // व्याख्या-क्रियते तथाविधापराधकारित्वान्महावतेषु लिङ्गे वा नाऽवस्थाप्य इत्यनवस्थाप्यः / स चतुर्धा-लिङ्गतः क्षेत्रतः कालतस्तपोविशेषतश्चेति / लिङ्गं द्विधा-द्रव्ये भावे च / तत्र द्रव्यलिङ्गं रजोहरणादि, भावलिङ्गं महाव्रतादि / अत्र चतुर्भङ्गी-द्रव्यलिङ्गेन भावलिङ्गेन चानवस्थाप्यः इत्येको भङ्गः / द्रव्यलिङ्गेनाऽनवस्थाप्यो, न भावलिङ्गेनेति द्वितीयः / भावलिङ्गेनानवस्थाप्यो, न द्रव्यलिङ्गेनेति तृतीयः / उभाभ्यामपि नानवस्थाप्य इति चतुर्थः / इह द्रव्यलिङ्गेन भावलिङ्गेन चानवस्थाप्यः प्रथमभङ्गस्थः प्रव्राजनान) भणितः // लिङ्गानवस्थाप्यादि चातुर्विध्यमेव विवृण्वन्नाह - . अप्पडिविरओसन्नो न भावलिंगारिहोणवठ्ठप्पो / जो जत्थ जेण दूसइ पडिसिद्धो तत्थ सो खित्ते // व्याख्या-अप्रतिविरतः-साधर्मिकान्यधार्मिकस्तैन्यात् प्रदुष्टचित्तत्वेनानिवृत्तः सपक्षपरपक्षप्रहरणोद्यतश्च निरपेक्षोऽनुपशान्तवैरो यः स द्रव्यभावलिङ्गाभ्यामनवस्थाप्यो-ऽनवस्थाप्य प्रथमभङ्गवर्ती क्रियते / हस्तालम्बदायी अर्थादानकारी वाऽवसन्नादिकश्च तत्तदोषानिवृत्तौ न भावलिङ्गाहः / अयं भावः-स द्रव्यलिङ्गी भवति. न भावलिङ्गमर्हति / भावलिङ्गमपेक्ष्यानवस्थाप्यतृतीयभगवर्ती भवतीत्यर्थः / द्वितीय - चतुर्थभङ्गौ पुनर्न सम्भवत इति / क्षेत्रतोऽनवस्थाप्यो यो यत्र क्षेत्र येन कर्मणा दृष्यते स तद्दोषकरण निवृत्तोऽपि तत्र क्षेत्रे प्रतिषिद्धो-महाव्रतेषु स्थापने निराकृतः / यथार्थादानकारी तत्रव क्षेत्रे महाव्रतेषु न स्थाप्यते / यतः पूर्वाभ्यासात्तं लोको निमित्तं पृच्छेत् / स च तं निमित्तज्ञानजमृद्धिगोवं सोढमक्षमः कदाचित् कथयेत् / ततोऽन्यत्र नीत्वोपस्थाप्यः / उत्तमार्थप्रतिपन्नस्य पुनस्तत्रापि-स्वस्थानेऽपि स्थितस्य महाव्रतारोपः कार्य एव / / उक्तौ लिङ्गक्षेत्रानवस्थाप्यौ कालतपोऽनवस्थाप्यावाह- .