________________ अनवस्थाप्यस्वरूपम् 159 नाहं शुद्धयामि प्रायश्चित्तस्य बहुत्वात् तस्मिन्नपरिणामे मूलम् / तथा यो धृतिदुर्बलतया पुनःपुनः प्रतिसेवते तस्मिन्नस्थिरे-धृत्यवष्टम्भरहिते मूलम् / तथा अबहुश्रुतो-ऽगीतार्थः / अथवाऽनवस्थाप्यं पाराञ्चिकं वा आपन्नस्तस्य वाऽबहुश्रुततया तहानायोग्यता तस्मिन्नप्यबहुश्रुते मूलं दातव्यमिति।अभिहितं मूलाई प्रायश्चित्तम् / / अधुनाऽनवस्थाप्याहं तदाहउक्कोसं बहुसो वा पउद्दचित्तो वि तेणिअं कुणइ / पहरइ जो अ सपक्खे निरवेक्खो घोरपरिणामो॥ व्याख्या-उत्कृष्ट-उत्कृष्टवस्तुविषयं बहुशो वा-पौनःपुन्येन प्रदुष्टचित्तो वा-सक्क्लिष्टमनाः क्रोधलोभादिकलुषितमानसो यः स्तन्यं-साधर्मिकस्तैन्यं अन्यधार्मिकस्तैन्यं करोति / तत्र साधर्मिकाः साधवस्तेषां सत्कस्य द्रव्यतः सचित्तस्य शिष्यादेः / अचित्तस्योत्कृष्टोपध्यादेः / मिश्रस्योपधिसहितस्यशिष्यादेश्चौयं कुर्वन् / क्षेत्रतोऽन्यसंयतावगृहीतक्षेत्रे तदनुज्ञां विनाऽवतिष्ठमानः / कालतो दिवा वा रात्री वा / भावतो रागेण वा द्वेषेण वा / अन्यधार्मिकाः शाक्यादयो गृहस्था वा तेषां सत्कस्याहारोपधिशय्यादेः स्तैन्यं कुर्वाणेऽनवस्थाप्यः क्रियत इत्युत्तरगाथाऽवयवेन योगः / उत्तरार्द्धन च अत्र हत्थायालो गृहीतः / स च त्रिधा / अत्थायाणं दलमाणे हत्थालंब दलमाणे हत्थायालं दलमाणे अ / क्रमेणेषां व्याख्याअर्थादानं-द्रव्योपादानकारणमष्टाङ्गनिमित्तं तद्ददानः-प्रयुञ्जान इत्यर्थः / तत्र कथानकं वणिजावुज्जयिन्यां द्वौ प्रायः पृष्ट्वा गुरून् सदा / पणायमानौ पण्यौघः परमामृद्धिमीयतुः / / औज्झद् गुरूणां जामेयो भोगार्थी व्रतमन्यदा / ततस्तैः कृपयोचे स विनार्थैः किं करिष्यसि 1 // तथाहि वणिजौ तौ त्वं भणाऽथ मे प्रयच्छतम् / गुर्वादेशात्ततः सोऽपि गत्वा तौ भणति स्म तत् / 3 / अथैकः स्माह भोः ! कस्मा-दस्माकं द्रव्यसञ्चयः / शकुनी रूपकान् भद्र ! कुत्रापि हदतेऽत्र किम् / / 4 / अढौकयद् द्वितीयस्तु तस्याग्रे द्रविणं बहु / ऊचे चेदं गृहाण त्वं यथेच्छं सोऽपि चाग्रहीत् / / द्वितीयेऽब्दे स तैर्द्रव्य-प्रदः पृच्छन्न भण्यते / क्रीणीहि तृणकाष्ठादि स्थापयेश्च पुराद बहिः / 6 / द्वितीयकस्तु तैरुक्तः क्रीत्वा स्नेहं गुडं कणान् / वस्त्रकर्षासकाष्ठादीन् पुरमध्ये निघेहि भोः / 7 / वर्षारम्भे समस्तेषु च्छादितेष्वथ वेश्मसु / दग्धं सर्व पुरं जज्ञे तृणकाष्ठमहर्घता / 8 / प्राज्यं तदार्जयद् वित्तं गुरुजामेयवित्तदः / दग्धं सर्व द्वितीयस्य सोऽथाभ्येत्यावदद् गुरुम् / 9 / किं न ज्ञातमिदं पूज्यो गाढं मुष्टोऽहमैषमः / निमित्त्यूचे निमित्तं नः शकुनो हदतेऽत्र किम् ? / 10 / तथा अन्यथापि वा किश्चित् स्यात् कदाचित्कथश्चन / ततो रुष्टं गुरु ज्ञात्वात्यर्थं क्षमयति स्म सः // 15 // एवंविधार्थोपादानकारी आचार्यः स्वस्य महाव्रतान्यागेपरितुमभ्यर्थयमानोऽपि तद्दोष करणनिवृत्तोऽपि तत्र क्षेत्रे महाव्रतेषु न स्थाप्यते / तथा हस्तालम्ब इव हस्तालग्बस्तं ददानः / अशिवे पुररोधादौ तत्प्रशमनार्थमभिचारमन्त्रादीन प्रयुञ्जान इत्यर्थः / तथा हस्तेन ताडनं हस्तातोलस्तं ददानः / यष्टिमुष्टिलगुटादिमिरात्मनः परस्य च मरणभयनिरपेक्ष सपक्षे, चशब्दात् परपक्षे च घोरपरिणामो