________________ यति-जीतकल्पे प्रतिसेवितं तथापि तत् स्थापनारोपणाप्रकारेण संहन्यमानं परिशति / तथा चाह- सेण पर' मित्यादि / तत उक्तरूपात् षण्मासादिकान् मानात् 'पर'मित्यव्ययं ये मासास्ते स्थापनारोपणाप्रकारेण संहन्यमानाःसंघात्यमानाः परिशटन्ति / तावन्मात्रेण च प्रायश्चित्तप्रतिपत्तारः शुद्धयन्ति शुद्धस्वभावत्वात् / भगवतां तीर्थकृतोमाषा सम्यगनुष्ठेया स्थापनारोपणाराशिज्ञानसद्भावे इत्थमुक्तम् / / यदा तु स्थापनारोपणाराशिर्न ज्ञायते तदा कस्मान् मासात् कियदिनानि गृह्यन्ते ? इतिकथनार्थमाह - अहवाऽऽगयमासहिए असीइसए लद्धमासमासदिणे / मासगुणे सेसदिणीकयसहिए दिज असिइसयं // व्याख्या-अथवेति प्रकारान्तरोपन्यासे / तदेव प्रकारान्तरं दर्शयति / तथाहि-यदा स्थापनारोपणाराशिर्न ज्ञायते विस्मृतत्वादिना तदा आगतमासा-ये आलोचकशिष्यमुखास् प्रतिसेविता मासाः श्रुताः तरेव मासैरशीतशतस्य-षण्मासदिनसङ्ख्यारूपस्य भागो हियते, हृते च भागे यल्लब्धं तत मासात् मासात ग्राह्यमानम् / एकैकस्मान् मासात्तावन्ति दिनानि गृह्यन्ते इत्यर्थः / इह यदुद्वरित ते दिनभागा अवबोद्धव्याः ! ततस्तानि प्रतिमासग्राह्यदिनानि मासगुणानि प्रतिसेवितमासगुणितानि क्रियन्ते / शेषाश्च ये दिनभागास्तेप्यागतमासैस्तैरेव गुणयित्वा भागं हृत्वा दिनानि कार्याणि / ततस्तानि पूर्वागतदिनरात्रौ प्रक्षिप्यन्ते, जातमशीतं दिनशतं पाण्मासिकमित्यर्थः / यदा स्थापनारोपणाराशि वगम्यते तदाऽनेन करणप्रकारेणैवं पाण्मासिकं कृत्वा दद्यादिति भावः / यथा श्रुतमासाः 13 एभिरस्मात् 180 राशेर्भागे हृते लब्धास्त्रयोदश उद्वरितं 11 ते लब्धास्त्रयोदश श्रुतमासैस्त्रयोदशभिर्गुणितो जातं 169 ते च शेषा एकादश तैः श्रुतमासस्त्रयोदशभिर्गुणिता आतम् 143 / अस्य च तरेव त्रयोदशभिर्भागे हृते लब्धा एकादश / एतेषां च 169 पूर्वराशौ प्रक्षेपे जातमशीतं शतम् 180 / एवं सप्रपञ्चं तपःपायश्चित्तं प्रदर्शितम् / / एतच्च सकलं स्थविरकल्पिकोनामनाचारमेवाश्रित्य भवति न पुनरतिक्रमव्यतिक्रमातीचारान् / यदाह- ' सव्वे वि अ पच्छित्ता जे सुत्ते ते पडुचणायारं / थेराण भवे कप्पे जिणकप्पे चउसु वि पएसु / / यानि कोनिचित सूत्रेऽभिहितानि प्रायश्चित्तानि तानि सर्वाण्यपि स्थविराणां कल्पे-स्थविरकल्पिकानोमनाचारं प्रतीत्य भवन्ति / यतः स्थविरकल्पिकानां त्रिष्वतिक्रमादिषु पदेषु प्रायश्चित्तं न भवति / तथाहिप्रतिश्रुतेऽपि यदि स्वतः परतो वा प्रतिबोधितः पदभेदं न कुरुते. कृतेपि वा पदभेदे न गृह्णाति गृहीतेऽपि यदि न भुङ्क्ते. किन्तु परिष्ठापयति, तदा स मिथ्यादुष्कृतमात्रप्रदानेनापि शुद्धयतीति न सूत्राभिहित प्रायश्चित्तविषयः / भुञ्जोनम्त्वनाचारे वर्तते इति तस्य सूत्रोक्तप्रायश्चित्तविषयता / जिनकल्पे-जिनकल्पिकानां पुनश्चतुर्ध्वप्यतिक्रमादिषु पदेषु प्रायश्चित्तं भवति / स्थविरकल्पिकानां च मनसापन्नेऽपराधे तपःप्रायश्चित्तं नास्ति || तथा चोक्तं जीवो पमायबहुलो पडिवखे दुक्करं ठवेउं जे / कित्तिअमित्तं वुज्झइ पच्छित्तं दुग्गयरिणीव // अयं जीवः प्रमादबहुलो-ऽनादिभवाभ्यस्त प्रमादभावनाभावितः ततः प्रतिपक्षे-ऽप्रमादे स्थापयितुं दुष्करं भवति / दुःखेनाऽप्रमादभावनायां स्थाप्यत इत्यर्थः / जे इति पादपूरणे / अतो दुर्गतऋणिक इवदरिद्राधमर्ण इवातिप्रभूतं ऋणं अतिचपलचित्तसम्भवोपराधवशादयं प्रमादबहुलो जीवः पदे पदे समा